संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००८

खण्डः २ - अध्यायः ००८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच ॥
पुरुषाणां तथा स्त्रीणां गजानां तुरगैस्सह॥
वालव्यजनच्छत्राणां तथा भद्रासनस्य च ॥१॥
रत्नानां धनुषां चैव खड्गस्य च सुरात्मज॥
लक्षणं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ॥२॥
पुष्कर उवाच॥
आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम्॥
निबोध तन्मे गदतो भृगुवंशाविवर्धन ॥३॥
एकाधिको द्विशुक्लश्च त्रिभिर्व्याप्नोति यस्तथा॥
त्रिवलीवाँस्त्रिविनतः त्रिकालज्ञश्च भार्गव ॥४॥
पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु॥
चतुर्लेखस्तथा यश्च तथैव च चतुःसमः ॥५॥
चतुष्किष्कुश्चतुर्दंष्ट्रश्चतुष्कृष्णस्तथैव च॥
चतुर्गंधश्चतुर्ह्रस्वः पञ्चसूक्ष्मस्तथैव च ॥६॥
पञ्चदीर्घो भृगुश्रेष्ठ तथैव च षडुन्नतः॥
सप्तस्नेहोऽष्टवंशश्च नव स्थानामलस्तथा ॥७॥
दशपद्मो दशबृहन्न्यग्रोधपरिमण्डलः॥
चतुर्दशसमद्वन्द्वः षोडशाख्यश्च शस्यते ॥८॥
राम उवाच॥
एकाधिकाद्या ये प्रोक्ताः पुरुषस्य त्वया गुणाः॥
तानहं श्रोतुमिच्छामि यथावद्वरुणत्मज ॥९॥
पुष्कर उवाच॥
धर्मे चार्थे च कामे च जनः सर्वोऽभिषज्यते॥
एकाधिकस्तु विज्ञेयो यस्तु धर्मे विशेषतः ॥१०॥
तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा॥
द्वात्रिंशद्राम यस्य स्युर्द्विशुक्लः स तु कीर्तितः ॥११॥
उरो नाभिस्तथा सक्थिर्गंभीरा यस्य देहिनः॥
प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो नरोत्तमः॥
अनसूया दया क्षान्तिस्त्रिकमेकं प्रकीर्तितम् ॥१२॥
मङ्गलाचारसंस्पर्शः शौचं चेत्यपरं त्रयम्॥
अनायासमकार्पण्यमैश्वर्यं च त्रयस्त्रिकाः॥
त्रिप्रलम्बो भुजाभ्यां तु वृषणेन च कीर्त्यते॥
दिग्देशजातिसर्गैश्च तेजसा यशसा श्रिया ॥१४॥
व्याप्नोति यो भृगुश्रेष्ठ त्रिभिर्व्याप्नोत्यसौ स्मृतः॥
उदरे वलयस्तिस्रो गम्भीरा यस्य देहिनः ॥१५॥
स उच्यते भृगुश्रेष्ठ त्रिवलीवान्नरोत्तमः॥
देवतानां द्विजानां च गुरूणां च तथा नतः ॥१६॥
पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रिविनतः सदा॥
धर्मस्यार्थस्य कामस्य संपत्कालविभागवित् ॥१७॥
सेवते यश्च धर्मज्ञः प्रोच्यते स त्रिकालवित्॥
उरौ ललाटं वक्त्रं च विस्तीर्णं यस्य देहिनः ॥१८॥
कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः॥
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥१९॥
लेखाभिर्यस्य निर्दिष्टश्चतुर्लेखः स मानवः॥
अङ्गुल्यो हृदयं पृष्ठं कटिर्यस्य तथा समाः ॥२०॥
पुरुषः स भृगुश्रेष्ठ चतुस्सम उदाहृतः॥
षष्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुः प्रमाणतः ॥२१॥
प्रमाणयोगाद्धर्मज्ञ चतुकिष्कुः स कीर्तितः॥
दंष्ट्राश्चतस्रश्चन्द्राभा दशनेभ्यः समुन्नताः ॥२२॥
किञ्चिद्यस्य स धर्मज्ञ चतुर्दंष्ट्रः प्रकीर्तितः॥
नेत्रतारे भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥२३॥
यस्येह स चतुष्कृष्णः प्रोच्यते मनुजोत्तमः॥
नासायां वदने स्वेदे कक्ष्यासु च नरोत्तम ॥२४॥
गन्धस्तु सुरभिर्यस्य चतुर्गन्धः स कीर्तितः॥
बाहू जानूरुगण्डश्च चत्वार्यस्य समानि तु ॥२८९॥
पुरुषस्य भृगुश्रेष्ठ चतुस्सम उदाहृतः॥
आस्यासृङ्मध्यपद्मानां तुल्यो गन्धस्तु यस्य वै ॥२६॥
कथितः स भृगुश्रेष्ठ चतुर्गन्ध इति द्विजैः॥
ह्रस्वं लिङ्गं तथा ग्रीवा जंघे ह्रस्वे तु देहिनः ॥२७॥
यस्य भार्गवशार्दूल चतुर्ह्रस्वः स कीर्तितः॥
अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचम्॥
सूक्ष्मणि यस्य तं राम पञ्च सूक्ष्मं प्रचक्षते ॥२८॥
हनू नेत्रे ललाटं च नासा चैव स्तनान्तरम्॥
दीर्घाणि यस्य तं राम पञ्चदीर्घं विदुर्बुधाः ॥२९॥
वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका॥
षडुन्नतानि यस्येह तं वदंति षडुन्नतम ॥३०॥
त्वक्केशलोमदंताश्च दृष्टिर्वाणी नखास्तथा॥
स्निग्धा यस्येह तं प्राहुः सप्त स्निग्धं बहुश्रुताः ॥३१॥
जानुवंशावुभौ राम भुजवंशौ तथाप्युभौ॥
ऊरुवंशद्वयं चैव पृष्ठवंशं च भार्गव ॥३२॥
नासावंशः समो यस्य सोऽष्टवंशः प्रकीर्तितः॥
नेत्रे नासापुटौ कर्णौ मेढ्रपायू मुखं तथा ॥३३॥
छिद्रा नवैते विमला यस्य तं तु नवामलम्॥
जिह्वोष्ठतालु नेत्रान्तर्हस्तपादनखाः स्तनौ ॥३४॥
शिश्नाग्रवक्षो यस्यैते पद्माभा दश देहिनाम्॥
पाणी पादौ मुखं ग्रीवा श्रवणे हृदयं शिरः ॥३५॥
ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश॥
प्रसारितभुजस्येह मध्यमाग्रत्वयांतरात् ॥३६॥
उच्छ्रायेण समो यः स न्यग्रोधपरिमण्डलः॥
कथितः स नृपश्रेष्ठः सर्वलक्षणपूजितः ॥३७॥
पादौ गुल्फौ स्फिचौ पार्श्वौ वृषणावक्षिणौ हनू॥
कर्णोष्ठसक्थिनी जंघे हस्तौ बाहू तथा भ्रुवौ ॥३८॥
द्वन्द्वान्येतानि यस्य स्युः समानि तु चतुर्दश॥
चतुर्दशसमद्वन्द्वः कथितः स नृपोत्तमः ॥३९॥
विद्यास्थानानि यानीह कथितानि चतुर्दश॥
प्रपश्यति च यो राम नेत्राभ्यां च नरोत्तमः ॥४०॥
सम्यक्स कथितो लोके षोडशाक्षो भृगूत्तम॥
रूक्षं शिराततं गात्रं तथा मांसविवर्जितम॥
दुर्गन्धि चाशुभं सर्वं विपरीतं च शस्यते ॥४१॥
दृष्टिः प्रसन्ना मधुरा च वाणी मत्तेभतुल्या च गतिः प्रशस्ता॥
एकैककूपप्रभवाश्च रोमा सत्त्वं प्लुतं हासमनुल्बणं च ॥४२॥
श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य परेषु रक्षा॥
एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरधिभूमि नरं द्विजेन्द्राः ॥४३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP