संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८०

खण्डः २ - अध्यायः ०८०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
वर्णानामाश्रमाणां च वेत्ति सर्वमिदं भवान्॥
पुष्कर उवाच॥
अहिंसासत्यवचनं ते स्याद्भूतेष्वनुग्रहः ॥१॥
तीर्थानुसरणं दानं ब्रह्मचर्यममत्सरम्॥
देवद्विजातिशुश्रूषा गुरूणां च भृगूत्तम ॥२॥
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा॥
भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता ॥३॥
आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि॥
धर्मसामान्यमेतत्ते कथितं भृगुसत्तम ॥४॥
यजनं याजनं दानं तथैवाध्यापनक्रिया॥
प्रतिग्रहं चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥५॥
दानमध्ययनं चैव यजनं च यथाविधि॥
क्षत्त्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥६॥
क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम्॥
कृषिगोरक्षवाणिज्यं वैश्यस्य परिकीर्तितम् ॥७॥
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ॥८॥
तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम्॥
आचार्यस्तु पिता तत्र सावित्री जननी तथा॥
ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ॥९॥
वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम॥
ततः परं ते द्विजतां लभन्ते समस्तकार्येष्वधिदैवतं च ॥१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यायो नामाशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP