संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०४६

खण्डः २ - अध्यायः ०४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि शृणु तेषां चिकित्सितम्॥
वृषो निम्ब बृहत्यौ च गुडूची च समांसिका ॥१॥
शिङ्घाणकहरापिण्डी स्वेदस्य शिरसस्तथा॥
यावशूकं समदनं पिप्पली विश्वभेषजम् ॥२॥
सर्षपा गृहधूमश्च निर्गुण्डी सुरसा वचा॥
निम्बपत्रयुता पायौ वर्तिः शूलविनाशिनी ॥३॥
हिङ्गु पुष्करमूलं च नागरं साम्लवेतसम्॥
पिप्पली सैन्धवयुतं शूलघ्नं तूष्णवारिणा ॥४॥
नागरातिविषौ मुस्ता सानन्ता बिल्वमालका॥
क्वाथो मासं पिबेद्वाजी सर्वातीसारनाशनम् ॥५॥
प्रियंगुशारिवाभ्यां च युक्तमाजं शृतं पयः॥
पर्याप्तशर्करं पीत्वा श्रमाद्वाज्यवमुच्यते ॥६॥
द्रोणिकायां तु दातव्या तैलवस्तिस्तुरङ्गमे॥
कोष्ठजाश्च शिरा वेध्यास्तेन तस्य सुखं भवेत् ॥७॥
दाडिमं त्रिफलां व्योषं गुडं च समभागिकम्॥
पिण्डमेतत्प्रदातव्यमश्वानां कासनाशनम् ॥८॥
प्रियङ्गुरोध्रमधुभिः पिबन्ति स्म रसं हयाः॥
क्षीरं वामं च कालोड्यं कश्मलाद्विप्रमुच्यते ॥९॥
प्रस्कन्नेषु च सर्वेषु श्रेय आदौ विशोषणम्॥
अभ्यङ्गोद्वर्तनस्नेहनस्यवर्तिक्रमस्ततः ॥१०॥
प्रस्कन्नं प्रशमं याति यदि नानेन कर्मणा॥
उरस्युपान्तपार्श्वे च ततो विस्रावयेच्छिराम् ॥११॥
ज्वलितानां तुरङ्गाणामयमेव क्रियाक्रमः॥
नस्यमेकं विना राम सर्वमेतत्प्रशस्यते ॥१२॥
रोध्रकरञ्जयोर्मूलं मातुलुङ्गाग्निनागराः॥
कुष्ठहिङ्गुवचारास्नालेपोऽयं शोफनाशनः ॥१३॥
समासेन शिरां विध्याद्देया वापि जलौकसः॥
त्र्यहेत्र्यहे वा धर्मज्ञ नस्यकर्म समाचरेत् ॥१४॥
मञ्जिष्ठा मधुकं द्राक्षा बृहत्यौ रक्तचन्दनम्॥
त्रपुसीबीजमूलानि शृङ्गाटककशेरुकम् ॥१५॥
अजापयः शृतमिदं सुशीतं शर्करान्वितम्॥
पीत्वा निरशनो वाजी रक्तमेहात्प्रमुच्यते ॥१६॥
मन्याहनुनिगालस्थः शिरःशोफो गलग्रह॥
अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ॥१७॥
यवैः स्निग्धकुलत्थैश्च ततः स्वेदं प्रयोजयेत्॥
मृदूकृते ततः शोफे नस्यकर्म समाचरेत् ॥१८॥
वचा- - - - सैन्धवं स्वरसो रसः॥
कृष्णाहिङुयुतैरेभिः कृत्वा नस्यं न सीदति ॥१९॥
निशा ज्योतिष्मती पाठा कृष्णा कुष्ठा वचा मधु॥
जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः ॥२०॥
तिलैर्युक्ता रजन्या च निम्बपत्रैश्च योजिता॥
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपिणी ॥२१॥
अभिघातेन खञ्जन्ति येनाश्वास्तीव्रवेदनाः॥
परिषेकक्रिया तेषां तैलेनाशु रुजापहा ॥२२॥
दोषकोपाभिघाताभ्यां तिलजे जृम्भते सदा॥
शान्तिर्मध्वाज्यबन्धाभ्यां पक्वम्भिन्ने व्रणे क्रमः ॥२३॥
अश्वत्थोदुम्बरप्लक्षमधूकवटकल्ककैः॥
प्रभूतसलिलः क्वाथः सुखोष्णो व्रणशोधनः ॥२४॥
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः॥
देवदारुवचायुग्मरजनीरक्तचन्दनैः ॥२५॥
तैलं सिद्धं कषायेण गुडूच्या पयसा सह॥
प्रक्षीणे वस्तिनस्ये च योज्यं सर्वत्र लंघने ॥२६॥
रक्तस्रावो जलौकाभिर्नेत्रान्ते नेत्ररोगिणः॥
खदिरोदुम्बराश्वत्थकषायेण च धावनम् ॥२७॥
धात्रीदुरालभातिक्ता प्रियङ्गुकुङ्कुमैः समैः॥
गुडूच्या कृतकः कल्को हितमुष्णावलम्बिते ॥२८॥
उपान्ते च शिरास्रावे मुष्कशोफे तथैव च॥
क्षिप्रकारिणि दोषे च सद्यो वेधनमिष्यते ॥२९॥
गोशकृत्सर्जिकाकुष्ठरजनीतिलसर्षपैः॥
गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम् ॥३०॥
सितामधुयुतः क्वाथो वाशिकायाः सशर्करः॥
रक्तपित्तहरः पानादश्वकर्णात्तथैव च ॥३१॥
आमे परिणते पक्वं पक्वमांसे जरां गते॥
पक्वमांसयुतं नेष्टं सर्वं जीर्णं प्रशस्यते ॥३२॥
सप्तमेसप्तमे देयमश्वानां लवणं दिने॥
तथा भुक्तवतां देया परिपाने तु वारुणी ॥३३॥
जीवनीयैः सुमधुरैर्मृद्वीकाशर्करायुतैः॥
सपिप्पलीकैः शरदि प्रतिमानं सपद्मकम् ॥३४॥
विडङ्गपिप्पलीधान्याशताह्वा रोध्रसैन्धवैः॥
सावित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे ॥३५॥
रोध्रं प्रियङ्गुका रास्ना पिप्पलीविश्वभेषजैः॥
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ॥३६॥
प्रियङ्गुपिप्पलीरौद्रयष्ट्याह्वैः समहौषधैः॥
निदाघे सगुडा देया मदिराप्रतिपानके ॥३७॥
भद्रकाष्ठा सलवणं पिप्पल्या विश्वभेषजम्॥
भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे ॥३८॥
निदाघावृतपित्तानां क्षरन्मदोष्णशोणिताः॥
प्रावृड्भिन्नपुरीषाश्च पिबेयुर्वाजिनो घृतम् ॥३९॥
पिबेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये॥
स्नेहव्यापद्भवेद्येषां तेषां कार्यं विरूक्षणम् ॥४०॥
त्र्यहं यवागू रूक्षा स्यात्सुरा च लवणान्विता॥
भोजने तक्रसंयुक्तं ह्येष वै रूक्षणे विधिः ॥४१॥
प्रायोगिकस्तथा देयो वस्तिस्तस्य निरत्ययः॥
ये पिबन्ति हयाः स्नेहं तेषां वस्तिं न दापयेत् ॥४२॥
शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः॥
वर्षासु शिशिरे चैव वस्तौ देयमिहेष्यते ॥४३॥
गुर्वभिष्यन्दिभक्तानि व्यायामः स्नानमातपम्॥
पायुर्वस्तं च वाहस्य स्नेहपीडस्य वर्जितम् ॥४४॥
स्नानं पानं सकृद्दृष्टमश्वानां सलिलागमे॥
अत्यर्थदुर्दिने काले स्नानमेकं प्रशस्यते ॥४५॥
युक्तशीतातपे काले द्विः पानं लवणं सकृत्॥
ग्रीष्मे त्रिः स्नानपानं स्याच्चिरं तस्यावगाहनम् ॥४६॥
निस्तुषाणां प्रदातव्यं यवानां चतुराढकम्॥
ववर्णव्रीहिमौदालाकलनां वापि दापयेत् ॥४७॥
अहोरात्रेण चान्द्रस्य यवसस्य तुला दश॥
अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ बुसस्य वा ॥४८॥
दूर्वा पित्तं बुसः कार्श्यं तद्बुसः श्लेष्मसञ्चयम्॥
नाशयत्यर्जुनः श्वासं तथा माषो बलक्षयम् ॥४९॥
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः॥
न रोगाः पीडयिष्यन्ति दूर्वाहारं तुरङ्गमम् ॥५०॥
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि॥
पश्चाद्बन्धश्च कर्तव्यो हरकीलव्यपाश्रयः ॥५१॥
केशानुरूपमास्यस्य केशपुच्छप्रकल्पनम्॥
छेदः खुरप्रवृद्धौ च वर्जयेत्तु कनीनिकाम् ॥५२॥
यत्नोपन्यस्तयवसः कृतधूपनभूमयः॥
वसेयुः सम्भृते स्थाने प्रदीपैः सार्वरात्रिकैः ॥५३॥
शाखामृगोजाः कृकवाकवश्च धार्याश्च शालासु तथैव धेनुः॥
कुर्युर्निशीथे पुरुषाः सशस्त्राः संरक्षणं राम तुरङ्गमाणाम् ॥५४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वचिकित्सा नाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६ ॥छ॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP