संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ०८७ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ०८७ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ०८७ Translation - भाषांतर पुष्कर उवाच॥विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः॥द्वे च वैश्यस्तथा कामं भार्यैकामपि चान्त्यजः ॥१॥ब्राह्मणी क्षत्रिया वैश्या शूद्री विप्रस्य कीर्तिताः॥क्रमेण कामसक्तस्य विवाहाः परिकीर्तिताः ॥२॥विवाहमुत्क्रमात्कृत्वा नरकं प्रतिपद्यते॥धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ॥३॥असवर्णा तु या नारी रत्यर्थे सा प्रकीर्तिता॥आधानं तस्य धर्मार्थं न प्रशंसन्ति साधवः ॥४॥पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम्॥वैश्या प्रतोदमादद्याद्दशां चैवान्त्यजा तथा ॥५॥उत्कृष्टवेदनेऽप्येतद्विधानं परिकीर्तितम्॥सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥६॥न कन्याविकयं कार्यं कदाचिदपि केनचित्॥केशविक्रयिणो यान्ति नरकानेक विंशतीन् ॥७॥अपत्यविक्रयात्तस्य निष्कृतिर्न विधीयते॥कन्याप्रजीवनात्किंचिन्नोपजीवति यः पुमान् ॥८॥न तच्छुल्कं समुद्दिष्टमानृशंस्यं हि तत्कृतम्॥कन्यादानं शचीयागो विवाहोऽथ चतुर्थिका ॥९॥विवाहमेतत्कथितं राम कर्मचतुष्टयम्॥दत्तामपि हरेत्कन्यां वरश्चेद्दोषभाग्भवेत् ॥१०॥नष्टे मृते प्रव्रजिते क्लीबेऽथ पतितेऽपतौ॥पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥११ ॥मृते तु देवरे देया तदभावे यदृच्छया॥पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयम् ॥१२॥रोहिणी चेति वरुणं भगणः शस्यते सदा॥नैकगोत्रां च वरयेन्नैकार्षीयां च भार्गव ॥१३॥पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा॥वरयेल्लक्षणोपेतां सदा लोकद्वयेच्छया ॥१४॥ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः॥गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥१५॥आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु॥तज्जः पुनात्युभयतः पुरुषानेकविंशतीन् ॥१६॥दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्तितः॥तज्जः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान् ॥१७॥शुल्केन चासुरं विद्यात्स तु धर्मादृते मतः॥परस्परेच्छया राम कन्यकावरयोस्तथा ॥१८॥गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः॥राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥१९॥प्राजापत्यस्तथा ब्राह्मः समवर्णेषु पूज्यते॥दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित् ॥२०॥गान्धर्वराक्षसौ श्रेष्ठौ क्षत्त्रियस्यैव भार्गव॥पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ॥२१॥वैवाहिकेन्दौ कुर्वीत कुम्भकारमृदा शचीम्॥सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ॥२२॥तां नयेत्सरसस्तीरं नदीतीरमथापि वा॥सर्वभूषणसंपन्ना सर्वास्त्वविधवाः स्त्रियः ॥२३॥कौसुंभरक्तवसनाः सर्वाः स्युः शस्त्रपाणयः॥माल्यानुलेपनैर्भक्ष्यैर्दीपैर्धूपैस्तथैव च ॥२४॥कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्चैव शक्तितः॥ततः शूर्पेण ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ॥२५॥संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम्॥वाद्यगीतेन महता द्विजवाचनकेन च ॥२६॥गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिंदिताम्॥त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ॥२७॥वन्दनीयोद्वाहसमये तत्र कालं निबोध मे॥प्रसुप्ते केशवे राम न तु कार्यं कथञ्चन ॥२८॥न पौषे न तथा चैत्रे न चार्ककुजवासरे॥कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्लस्य भार्गव ॥२९॥तथा रिक्ततिथौ नैव न विष्टौ करणे तथा॥न शुक्रेऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ॥३०॥शशांकेऽन्यग्रहाश्चैव विवाहो न प्रशस्यते॥अर्कार्किभौमयुक्ते भे व्यतीपातहते तथा ॥३१॥दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते॥तथा शिखिशिखाध्वस्ते सैंहिकेययुते तथा ॥३२॥वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम॥सौम्यं पित्र्यं च वायव्यं सावित्रं रौहिणं तथा ॥३३॥उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च॥मूहूर्ताश्च तथैतेषां शुभा अभिजिता सह ॥३४॥मानुष्याख्यस्तथा लग्नो मानुष्याख्यस्तथांशकः॥अमानुष्याख्ये लग्नेऽपि मानुष्याख्येंशको हितः ॥३५॥तृतीये च तथा षष्ठे दशमैकादशाष्टमे॥अर्कार्किभौमतनयाः प्रशस्ता न कुजोष्टमः ॥३६॥सप्तान्त्याष्टमवर्ज्येषु शेषाः शस्ता ग्रहोत्तमाः॥तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥३७संकल्पविधिना कार्यो विवाहस्तदनन्तरम्॥वैवाहिकेऽह्नि कर्तव्यास्तथैव च चतुर्थिके ॥३८॥न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः॥अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ॥३९॥पर्ववर्ज्यं सदा गच्छेत्स्त्रीणां वा संस्मरन्वरम्॥सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ॥४०॥परस्परातिक्रमणं दंपत्योः परिवर्जयेत्॥निष्कारणं तथा राम न कार्यमधिवेदनम् ॥४१॥अप्रजा रोगिणी मूढा तथा च कलहप्रिया॥कन्याप्रजा तथा या च या चैवाप्रियवादिनी ॥४२॥एताः खल्वधिवेत्तव्या गृहकार्यपराङ्मुखीः॥अधिविन्ना विशेषेण पालनीया सुतं भवेत् ॥४३॥धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत्॥धर्माधर्मौ समौ राम दम्पत्योरुभयात्मकौ ॥४४॥पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य॥धर्मार्थकामान्सततं द्विजेन्द्र तान्रक्षयेत्सम्यगथानया स्वान् ॥४५॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्ताशीतितमोध्याम् ॥८७ N/A References : N/A Last Updated : December 09, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP