संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३१

खण्डः २ - अध्यायः १३१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
वनेषु च विहृत्यैवं तृतीयं भागमायुषः॥
चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत् ॥१॥
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः॥
भिक्षाबलपरिश्रान्तः प्रव्रजेद्व्रतवर्जितः ॥२॥
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥
अनपाकृत्य च ऋणं मोक्षमिच्छन्व्रजत्यधः ॥३॥
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः॥
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥४॥
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान्॥
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥५॥
प्राजापत्यां निरूप्येष्टिं सर्ववेदस-दक्षिणाम्॥
आत्मन्यग्नीन्समारोप्य प्रव्रजत्यभयं गृही ॥६॥
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः॥
यस्मादण्वपि भूतानां द्विज नोत्पद्यते भयम्॥
तस्य देहाद्विमुक्तस्य भयं नास्ति कथञ्चन ॥७॥
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः॥
समुपोढेषु काम्येषु निरपेक्षः परिव्रजेत् ॥८॥
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्॥
सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते ॥९॥
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत ॥१०॥
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः॥
कपालं वृक्षमूलानि कुचैलमसहायता॥
ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥११॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम्॥
कालमेव परीक्षेत निर्दोषभृतको यथा ॥१२॥
(दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्॥
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥१३॥
अतिजडांस्तितिक्षेत नावमन्येत कञ्चन ॥१४॥)
न चैनं गृहमाश्रित्य वैरं कुर्वीत केनचित्॥
क्रुध्यन्तं न प्रतिक्रुध्येदापृष्टः कुशलं वदेत् ॥१५॥
सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत्॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ॥१६॥
आत्मनैव सहायेन तरेद्दुर्गतिमात्मनः ॥१७॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया॥
नानृतस्वनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥१८॥
न तापसैर्ब्राह्मणैर्वा न योगिभिरथाश्रमैः॥
आकीर्णैर्भिक्षुकैर्वर्णैरागारमुपसंव्रजेत् ॥१९॥
क्लृप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्॥
विरचेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥२०॥
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च॥
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥२१॥
अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा॥
एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ॥२२॥
सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च॥
भिक्षां दद्यान्न धर्मज्ञ ग्रहीता नरकं व्रजेत् ॥२३॥
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे॥
भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ॥२४॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने॥
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥२५॥
अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत्॥
प्राणयात्रिकमात्रः स्यान्मात्रासंगाद्विनिर्गतः॥
अभिपूजितलाभाँस्तु यदि मुक्तोऽपि बध्यते ॥२६॥
अल्पान्नाभ्यवहारेण रहः स्थानासनेन च॥
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥२७॥
इन्द्रियाणां निरोधेन रागद्वेषभयेन च॥
अहिंसया च भूतानाममृतत्वाय कल्पते ॥२८॥
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवाम्॥
निरये चैव पतनं व्याधिभिश्चोपपीडनम् ॥२९॥
देहानुक्रमणं चास्मात्पुनर्गर्भे च सम्भवम्॥
योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः ॥३०॥
अधर्मप्रभवं चैव कर्मयोगं शरीरिणाम्॥
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥३१॥
सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः॥
देहेषु चैव पतितमुत्तमेष्वधमेषु च ॥३२॥
दूषितोऽपि चरेद्धर्मं यत्रयत्राश्रमे रतः॥
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥३३॥
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्॥
न नामग्रहणादेव तस्य वारि प्रसीदति ॥३४॥
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा॥
शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत ॥३५॥
अहोरात्रचयाज्जन्तून्हिनस्त्यज्ञानतो यदि॥
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥३६॥
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः॥
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥३७॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः॥
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥३८॥
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम्॥
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥३९॥
उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः॥
ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरात्मनः ॥४०॥
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते॥
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥४१॥
अहिंसयेन्द्रियासङ्गैर्वैद्यकैश्चैव कर्मभिः॥
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥४२॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपितम्॥
चर्मावनद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ॥४३॥
जराशोकसमाविष्टं रोगायतनमातुरम्॥
रजस्वलमनित्यञ्च भूतावासमिदं त्यजेत् ॥४४॥
नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा॥
तथा त्यजन्निमं देहं कृच्छ्रग्राहाद्विमुच्यते ॥४५॥
प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम्॥
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥४६॥
यदा भावेन भवति सर्वभावेषु निःसृतिः॥
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥४७॥
अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः॥
सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति ॥४८॥
ध्यानिकं सर्वमेवैतद्यदेतदतिशाब्दिकम्॥
न ह्याध्यात्म कविः कश्चित्क्रियाफलमुपाश्नुते ॥४९॥
अधियज्ञं ब्रह्म जपेत्साधिदैविकमेव च॥
आध्यात्मिकं च सततं वेदान्ताभिहितं फलम् ॥५०॥
इदं शरणमज्ञानामिदं दैवं विजानताम्॥
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥५१॥
अनेन क्रमयोगेण परिव्रजति यो द्विजः॥
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥५२॥
एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम्॥
एव संन्यासकानान्तु कर्मयोगं निबोध मे ॥५३॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा॥
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥५४॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः॥
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥५५॥
सर्वेषामेव चैतेषां वेदश्रुतिविधानतः॥
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ॥५६॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्॥
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥५७॥
चतुर्भिरपि तत्त्वज्ञैर्नित्यमाश्रमिभिर्द्विजैः॥
दशलाक्षणिको धर्मः सेवितव्यः प्रयत्नतः ॥५८॥
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः॥
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥५९॥
दश चिह्नानि धर्मस्य ये विप्राः समधीयते॥
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥६०॥
दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः॥
वेदान्तं विधिवच्छ्रुत्वा मन्येहमनृणो द्विजः ॥६१॥
सन्न्यस्य सर्वकर्माणि सर्वान्दोषानुपानुदेत्॥
नियतो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत ॥६२॥
एवं सन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः॥
संन्यासेनापहृत्येनं प्राप्नोति परमां गतिम्॥
एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः ॥६३॥
स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम्॥
तस्मात्प्रयत्नादयमेव कार्यः सर्वं समुत्सृज्य महानुभावः ॥६४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनन्नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP