संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३८

खण्डः २ - अध्यायः १३८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥गर्ग उवाच॥
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतम्॥
अनृते भदिने रिक्ता वृष्टिर्ज्ञेया भयावहा ॥१॥
अनभ्रे विकृता चैव विज्ञेया राजमृत्यवे॥
शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम् ॥२॥
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत्॥
अङ्गारपांसुवर्षेण नगरं तद्विनश्यति ॥३॥
मज्जास्थिस्नेहमांसानां जनमारभयं भवेत्॥
फलपुष्पे तथा धान्यं हिरण्यादि भयाय तु ॥४॥
पांसुजन्तूपलानां तु वर्षणे रोगजं भयम्॥
छिद्राणां तु प्रवर्षे च सस्यानामीतिवर्धनम् ॥५॥
विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते॥
दृश्यते तु प्रतीपा वा तत्र देशभयं भवेत् ॥६॥
निरभ्रे चाथ रात्रौ वा श्वेतं याम्योत्तरेण तु॥
इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च ॥७॥
दिग्दाहपरिवेषौ वा गन्धर्वनगरं तथा॥
परचक्रभयं ब्रूयाद्देशोपद्रवमेव वा ॥८॥
सूर्येन्दुपर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्द्विजेन्द्र॥
धान्यान्नगोकाञ्चनदक्षिणाश्च देया द्विजानां भयनाशहेतोः ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुप्करोपाख्याने औत्पातिकेषु वृष्टिवैकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥१३८॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP