संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १८०

खण्डः २ - अध्यायः १८०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
पूर्णायुधो भृतिं कृत्वा ततो मांसैर्गतायुषाम्॥
वराहमृगमेषाणां माहिषाद्यैस्तथा द्विज ॥१॥
मुनिधौतं ततः कुर्याद्युग्यं भूपैर्विधानवित्॥
मृदुसंस्तरणोपेतं मृदु वल्गु च योजयेत् ॥२॥
ततो वाहं समारुह्य दंशितः सुसमाहितः॥
तूर्णमारुह्य बध्नीयाद्दृढां कक्षां च दक्षिणाम् ॥३॥
वैकक्ष्यमपि तच्चापं धारयेद्यन्त्रसंस्थितम्॥
ततो समुद्धरेद्बाणं ऋणाद्दक्षिणपाणिना ॥४॥
तज्जवः सहितं सर्वं मध्ये संगृह्य धारयेत्॥
वामहस्तेन वै कक्ष्याद्धनुस्तस्मात्समुद्धरेत् ॥५॥
सुनिषण्णमणिर्भूत्वा गुणे पुङ्खं निवेशयेत्॥
संपीड्य सिंहकर्णेन पुंखेनापि समे दृढम् ॥६॥
वामकर्णोपरिस्थं च फलं व्यामस्य धारणात्॥
बलामध्यमया तत्र वामांगुल्या च धारयेत् । ७॥
मनोलक्ष्यगतं कृत्वा दृष्टिं च सुविधानवित्॥
दक्षिणे गात्रभागे तु बलामाशु विमोक्षयेत् ॥८॥
ललाटपुटसंस्थानं दाणीं लक्ष्ये निवेशयेत् ॥९॥
आकृष्य ताडयेत्तत्र दण्डकं षोडशांगुलम्॥
मुक्त्वा बाणं ततः पश्चाद्बलां शिक्षेत्तदातदा ॥१०॥
विगृह्णीयान्मध्यमया ततोंगुल्या पुनःपुनः॥
अभिलक्ष्याक्षिपेत्तूणांश्चतुरस्रं च दक्षिणम् ॥११॥
चतुरस्रगतं वैध्यमभ्यसेदादितः स्थितः॥
तस्मादनन्तरं तीक्ष्णं परावृत्तगतं च यत् ॥१२॥
निश्रमुन्नतवेद्यन्तमभ्यसेत्तुष्यकं ततः॥
वेध्यस्थानेष्वथैतेषु सन्यस्तपुटकं धनुः ॥१३॥
हस्तावापगतैः स्रस्तैर्जपेद्धस्तकरैरपि॥
तस्मिन्वेध्यगते राम द्वे वेध्ये दृढसंज्ञिते ॥१४॥
द्वे वेध्ये पुष्करे विद्धि द्वे तथा चित्रपुष्करे॥
चतुरस्रं च तीक्ष्णं च दृढवेध्ये प्रकीर्तिते ॥१५॥
चतुरस्रं स्थूलतीक्ष्णं॥
निम्नं पुष्करमुद्दिष्टं वेध्यमूदूर्ध्वगतं च यत् ॥१६॥
पुष्करेऽधमवेध्ये तु चित्रपुष्करसंज्ञके॥
एवं वेध्यगणं कृत्वा दक्षिणेनेतरेण च ॥१७॥
आरोहेत्प्रथमं धीरो जितलक्ष्यस्ततो नरः॥
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ॥१८॥
आदिकं भ्रमणं तस्य तस्माद्विद्वन्प्रकीर्तितम्॥
लक्ष्यं संयोजयेत्तत्र प्रतियन्त्रगतं दृढम् ॥१९॥
भ्रान्तं प्रचलितं चैव स्थितं यच्च भवेदिति॥
समन्ताच्छादयेत्पश्चाच्छेदयेच्छ्लथयेदपि ॥२०॥
कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत्॥
मनसा चक्षुषा दृष्ट्या योगं शिक्षन्न्यसंजयेत् ॥२१॥
दत्त्वा प्रयुक्तं सुकृतं प्रमाणान्न्यसेत्समन्तात्पुटकान्विचित्रान्॥
अप्यङ्गुलीयप्रतिमां जपेच्च वालङ्गताः काष्ठगतं प्रलम्बम् ॥२२॥
सिद्धार्थकान्गुञ्जयवांश्च तस्मिन्न्यसेद्विधिज्ञो भ्रमरीरिकाञ्च॥
मृत्पिण्डसंस्थान्फलकांक्षितांश्च कबन्धनिष्पावकपेलवाश्च ॥२३॥
हंसान्मयूरान्कुररांस्तथा च कारण्डवांश्चैव शिलीमुखांश्च॥
गृध्रानुलूकानथ वापि चाषान्कपोतगोधाशुकसारिकाश्च ॥२४॥
पलाशमूलोर्णवपूर्ण देहांश्चर्मावबद्धां मृदुचित्रगात्राम्॥
वस्त्रयन्त्रैर्विविधैः सुयुक्तां काष्ठावसक्तैर्बहुभिः प्रकारैः ॥२५॥
चलान्स्थिरांश्चाप्रगतांश्च विद्धान्न्यसेद्यथान्यायमथोर्ध्वसंस्थान्॥
व्याघ्रान्मृगेन्द्रान्पृषतान्रुरूंश्च मृगान्सगोकर्णवराहवक्त्रान् ॥२६॥
गोमायुमार्जारशशांस्तथान्यानृक्षान्मृगाश्चन्द्रमयेन्दुपूर्णान्॥
अन्यान्समीपोपगतान्मृगांश्च विधानवित्तान्प्रतियन्त्रसंस्थान् ॥२७॥
जातांस्तथान्यांश्च बहुप्रकाराननेकसंस्थानविबद्धदेहान्॥
नानाविधैस्तैर्विशिखभ्रमस्थः सन्धानयोगैस्त्रिविधश्च हन्यात् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामाशीत्युत्तरशततमोऽध्यायः ॥१८०॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP