संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२३

खण्डः २ - अध्यायः ०२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
मन्त्रा ये कीर्तिता राम मयास्मिंस्तव भार्गव॥
तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम् ॥१॥
ऐतेषां कल्यमुत्थाय यः कुर्यात्कीर्तनं नरः॥
सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात् ॥२॥
तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च॥
न च दुःखं न च भयं मरणं न स च मुह्यति ॥३॥
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः॥
न तस्य तिष्ठते पापमब्बिन्दुरिव पुष्करे ॥४॥
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः॥
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ॥५॥
एतेषां पुष्पदानेन महतीं श्रियमश्नुते॥
एतेषां चार्घ्यदानेन पूज्यो भवति मानवः ॥६॥
एतेषां दीपदानेन भ्राजन्ते चन्द्रवद्दिवि॥
एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ॥७॥
नैवेद्यं च बलिं दत्त्वा भोगान्प्राप्नोत्यनुत्तमान॥
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ॥८॥
संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम्॥
अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च ॥९॥
तथा संवत्सरग्रन्थौ सर्वे पूज्या हितैषिणा॥
यानि तीर्थानि चोक्तानि सरितश्च समासतः ॥१०॥
तेषां गमेन पूज्यन्ते येऽपि पातकिनो जनाः॥
स्नानं महाफलं तेषां तपः श्राद्ध क्रियास्तथा ॥११॥
दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम्॥
कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचारणा ॥१२॥
तीर्थेष्वथैतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्र सद्यः॥
तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोध्यायः ॥२३॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP