संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३८

खण्डः २ - अध्यायः ०३८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


सावित्त्र्युवाच॥
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे॥
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम ॥१॥
साधूनां वाप्यसाधूनां सन्त एव परा गतिः॥
नैवासतां नैव सतामसन्तो नैव चात्मनः ॥२॥
विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम्॥
अकारणजगद्वैरिखलेभ्यो जायते यथा ॥३॥
सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा॥
तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः ॥४॥
त्यजत्यसूनयं लोकस्तृणवद्यस्य कारणात्॥
परोपधानसक्तास्ते परलोकं तथा सता ॥५॥
निकायेषुनिकायेषु पुरा ब्रह्मा जगद्गुरुः॥
असतामुपघाताय राजानः कृतवान्स्वयम् ॥६॥
चारैः परीक्षयेद्राजा धूर्तान्सम्मार्जयेत्सदा॥
निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः ॥७॥
धान्यसंरक्षणार्थाय निर्मार्ष्टा कक्षमुद्धरन्॥
यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः ॥८॥
निग्रहेणा सतां राज्ञा सतां च परिपालनैः॥
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सता ॥९॥
राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते॥
असतां निग्रहादेव सतां च परिपालनात् ॥१०॥
राजानुशासिता तेषामसतां शासिता भवान्॥
तेन त्वमधिको देव देवेभ्यः प्रतिभासि मे ॥११॥
जगत्तु धार्यते सद्भिः सतामग्र्यस्तथा भवान्॥
तेन त्वामभियान्त्या मे क्लमो देव न विद्यते ॥१२॥
यम उवाच॥
तुष्टोस्मि ते विशालाक्षि वचनैर्धर्मसंहितैः॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥१३॥
सावित्र्युवाच॥
सहोदराणां भ्रातॄणां कामयामि शतं विभो॥
अनपत्यः पिता प्रीतिं पुत्रलाभात्प्रयातु मे ॥१४॥
यम उवाच॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं तवोक्तम्॥
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टत्रिंशत्तमोध्यायः ॥३८॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP