संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००६

खण्डः २ - अध्यायः ००६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
सर्वलक्षणलक्षण्यो मन्त्री राज्ञस्तथैव च॥
ब्राह्मणो वेदतत्त्वज्ञो विनीतः प्रियदर्शनः ॥१॥
स्थूललक्षो महोत्साहः स्वामिभक्तः प्रियंवदः॥
बृहस्पत्युशनः प्रोक्तां नीतिं जानाति सर्वतः ॥२॥
रागद्वेषेण यत्कार्यं न वदन्ति महीक्षितः॥
लोकापवादाद्राजार्थे भयं यस्य न जायते ॥३॥
क्लेशक्षमस्तथा यश्च विजितात्मा जितेन्द्रियः॥
गूढमन्त्रश्च दक्षश्च प्राज्ञो भक्तजनप्रियः ॥४॥
इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः॥
शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥५॥
चारप्रचारकुशलः प्रणिधिप्रणयात्मवान्॥
षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तथा ॥६॥
वक्ता विधाता कार्याणां नैव कार्यातिपातिता॥
समश्च राजभृत्यानां तथैव च गुणप्रियः ॥७॥
कालज्ञः समयज्ञश्च कृतज्ञश्च जनप्रियः॥
कृतानामकृतानाञ्च कर्मणां चान्ववेक्षिता ॥८॥
यथानुरूपमर्हाणां पुरुषाणां नियोजिता॥
राज्ञः परोक्षे कार्याणि सम्पराये भृगूत्तम ॥९॥
कृत्वा निवेदिता राजन्कर्मणां गुरुलाघवम्॥
शत्रुमित्रविभागज्ञो विग्रहास्पदतत्त्ववित् ॥१०॥
स राज्ञः सर्वकार्याणि कुर्याद्भृगुकुलोद्वह॥
विदितानि यथा कुर्यान्नाज्ञातानि महीक्षिता ॥११॥
अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि भार्गव॥
अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति ॥१२॥
करोति यस्तु कार्याणि विविधानि महीपते॥
भेदो नो तस्य भवति कदाचिदपि भूभुजा ॥१३॥
एवंगुणो यस्य भवेच्च मन्त्री वाक्ये च तस्याभिरतस्य राज्ञः॥
राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्वंशश्च दीप्तो भुवनत्रयेऽपि ॥१४॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे मत्रिलक्षणं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP