संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १४२

खण्डः २ - अध्यायः १४२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच ॥
यान्ति यानान्ययुक्तानि युक्तानि न हि यान्ति चेत्॥
चोद्यमानानि तस्य स्यान्महद्दुःखमुपस्थितम् ॥१॥
वाद्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः॥
अचलाश्च चलन्त्येव न चलन्ति चलास्तथा ॥२॥
आकाशे तूर्यनादाश्च गतिगन्धर्वनिस्वनाः॥
काष्ठं दार्वीविकारादि कुठारं कुरुते यदि ॥३॥
गवां लांगूलसंगश्चेत्स्त्रियं तु यदि पातयेत्॥
उपरागा दिव्यकृता घोरं शस्त्रभयं वदेत् ॥४॥
वायोस्तु पूजा द्विज सक्तुभिश्च कृत्वा तदुक्तांस्तु जपेच्च मन्त्रान्॥
दद्यात्प्रभूतं परमान्नमत्र प्रदक्षिणान्तेन शमोस्य भूयात् ॥५॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० वज्रसंवादे रामं प्रति पुष्करोपाख्याने उपस्करवैकृतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP