संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३४

खण्डः २ - अध्यायः ०३४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच ॥
साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः॥
साध्व्यो हि नार्यो लोकानामाधार इह कीर्तितः ॥१॥
 ॥पुष्कर उवाच ॥
एतदेव परं राम रामाणां धर्मकारणम्॥
यदासां सर्वकार्येषु नित्यं हि परतन्त्रता ॥२॥
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने॥
पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति ॥३॥
पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः॥
तेषां च विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥४॥
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया॥
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥५॥
यः प्रदद्यात्पिता त्वेनां तदभावेपि कारकः॥
तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत् ॥६॥
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजायते॥
प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम् ॥७॥
अनृतावृतुकालोक्ते मन्त्रसंस्कारकृत्पतिः॥
सुखं नित्यं ददातीह परलोके च योषितः ॥८॥
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः॥
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥९॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम्॥
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥१०॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा॥
पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् ॥११॥
कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः॥
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥१२॥
आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी॥
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥१३॥
अनेकानि सहस्राणि सुमुग्धब्रह्मचारिणाम्॥
दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम् ॥१४॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता॥
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥१५॥
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्त्तते॥
सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥१६॥
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा॥
न द्वितीयश्च साध्वीनां कश्चिद्भर्तोपदिश्यते ॥१७॥
पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते॥
निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥१८॥
व्यभिचारात्तु भर्तुः स्त्री लोकान्प्राप्नोति निन्दितान्॥
शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥१९॥
पतिं या नाभिचरति मनोवाग्देहसंयता॥
इहाग्र्यां कीर्त्तिमाप्नोति परलोके च शस्यते ॥२०॥
पत्युरभ्यधिकं नारी नोपवासव्रतं चरेत्॥
अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते ॥२१॥
देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम॥
नारी पतिव्रता राम प्राप्तानुज्ञां तु भर्त्तृतः ॥२२॥
नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा॥
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदैहिकम् ॥२३॥
स्त्रीणां पूज्यतमा लोके देवतागृहवासिनाम्॥
या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि ॥२४॥
तासां च पूजनं कार्यं विदितं स्वामिनस्तथा॥
अन्यथा चेत्प्रवर्त्तेत निर्ग्राह्या सा प्रकीर्तिता ॥२५॥
गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते॥
कूटशाल्मलिमित्युक्तं यावदाभूतसम्प्लवम् ॥२६॥
गर्हिता च तथा पत्युर्नरकं याति भार्गव॥
दशवर्षसहस्राणि तथैवाप्रियवादिनी ॥२७॥
सर्वावस्थास्वपि स्त्रीषु न वधो विद्यते द्विज॥
परेण शङ्कितामेनां संयतां वासयेद्गृहे ॥२८॥
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम्॥
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥२९॥
मूलकर्म न कर्त्तव्यं कथञ्चिदपि योषिता॥
मूलकर्मरता नारी कल्पं नरकमावसेत ॥३०॥
दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते॥
या च नारी सपत्नीनां कुर्याद्दौर्भाग्यकारणम् ॥३१॥
कुहकैः पश्यति सापि कल्पानां नरके द्विज॥
पुंस्त्वमूलं तथा लक्ष्मों पत्युर्हिंसति सा तथा ॥३२॥
यक्षरक्षःपिशाचानां मूलकर्मरता सदा॥
वश्यो भवति लोकेषु भर्ता तस्यास्तथैव च ॥३३॥
नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा॥
लभतेन्ते तु दौर्भाग्यं भूतैर्वा भक्ष्यते ध्रुवम् ॥३४॥
तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत्॥
आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा ॥३५॥
ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः॥
सुरां पिबेयुर्धर्मज्ञ तत्पानान्नाशमाप्नुयुः ॥३६॥
ततो भवति धर्मज्ञ जलौका रक्तपायिका॥
कल्पावशेषं सकलं तेन घोरेण कर्मणा ॥३७॥
परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी॥
न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके ॥३८॥
मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका॥
देवताराधनपरा भवेद्भर्तृहिते रता ॥३९॥
धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा॥
न जातु विधवा वेषं कदाचिदपि कारयेत् ॥४०।
पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता॥
कल्पावशेषं मुदिता पूज्यते त्रिदशालये ॥४१॥
पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम॥
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥४२॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि॥
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥४३॥
मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव॥
तपसा शातयेद्देहं तेन स्वर्गे महीयते ॥४४॥
पतिपक्षे नरं कञ्चित्पुत्राभावे समाश्रयेत्॥
बिभृयाद्धि स चाप्येनां भोजनाच्छादनैः सदा ॥४५॥
पतिपक्षे समुच्छिन्ने पितृपक्षः प्रभुः स्त्रियः॥
विषमस्थापि भर्तव्या पितृपक्षे स्वबन्धुभिः ॥४६॥
मृतं भर्तारमादाय यदि वाथ पतिव्रता॥
प्रविशेद्द्विजशार्दूल ज्वलितं जातवेदसम् ॥४७॥
तिस्रः कोट्योर्द्धकोटी च यानि लोमानि मानवे॥
तावन्त्येव शताब्दानि स्वर्गलोके महीयते ॥४८॥
व्यालग्राही यथा सर्पं बिलादुद्धरते बलात्॥
एवं भर्त्तारमादाय सह तेनैव गच्छति ॥४९ ।
सद्वृत्तमध्यापयितुं गतानां स्त्रीणां वियोगक्षतकातराणाम्॥
तासां मृते जीवितवल्लभे हि नाग्निप्रवेशादपरो हि धर्म ॥५०॥
इति विष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्त्रीधर्मो नाम चतुस्त्रिंशत्तमोध्यायः ॥३४॥

N/A

References : N/A
Last Updated : December 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP