संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६५

खण्डः २ - अध्यायः १६५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
प्रष्टुर्देशे शुभे वेद्यं शुभं भवति भार्गव॥
अशुभे वाशुभं राम तन्मे निगदतः शृणु ॥१॥
श्मशानसूनाभवनबन्धनागारवेश्मसु॥
रथ्याकर्दमदुर्गेषु शून्येषु भवनेषु च ॥२॥
कण्टकिद्रुमयुक्तेषु शीर्णप्राकारवेश्मसु॥
वल्मीकमूषिकासर्पसकीटेष्वशुभं वदेत् ॥३॥
मांसस्पृष्टोपलिप्तेषु सुपुष्पेषु विशेषतः॥
प्रशस्तद्रुमयुक्तेषु विद्याद्विजयलक्षणम् ॥४॥
सशाद्वलेषु तीरेषु सरितां सरसामपि॥
भवनेषु विचित्रेषु शुभं वाच्यं विजानता ॥५॥
अभ्यक्तं शोच्यमानं च मुक्तकेशं तथैव च॥
भूमिष्ठमुपसर्पन्ति तेषां विद्यादशोभनम् ॥६॥
हृष्टशुक्लाम्बरोपेता सुमनस्कास्तथैव च॥
दैवज्ञमुपसर्पन्ति तेषां विद्याच्छुभं द्विजाः ॥७॥
बहवो दण्डहस्ताश्च काषायवसनास्तथा॥
अभ्यक्तमुण्डपतितास्तथा क्लीबाश्च योषितः ॥८॥
शृङ्खलारज्जुहस्ताश्च संक्लिन्नफलपाणयः॥
पृच्छन्तस्ते तु विज्ञेया नृष्वशेषभयावहाः ॥९॥
शुक्लाम्बरा सपुष्पाश्च तथैव फलपाणयः॥
रत्नहस्ताः शुभा ज्ञेयास्तथा मङ्गलवादिनः ॥१०॥
वेलाः सर्वाः प्रपश्येत पूर्वाह्णे परिपृच्छतः॥
सन्ध्ययोरपराह्णे च निशायां च विगर्हिताः ॥११॥
शान्तां दिशमथास्थाय पृच्छतः सिद्धिमादिशेत॥
उदीचीं प्रागुदीचीं च पूर्वां चैव विशेषतः ॥१२॥
अङ्गुष्ठनखपादोरुगुल्फमुष्कमुरस्तनाः॥
गण्डशृङ्गाक्षिकौ कर्णौ दन्तोष्ठभुजमस्तकम् ॥१३॥
गुरुलुर्गुरुवस्तिश्च वक्षः कक्षोरुसन्धयः॥
पुन्नामान्येवमादीनि स्पृशतः पृच्छतः शुभम् ॥१४॥
कर्णपालिर्भ्रुवौ नासाजिह्वाग्रीवाकृकाटिकाः॥
नाभिश्रोणी स्फिचे जंघे पिण्डिकाङ्गुलयोऽपि च ॥१५॥
पाणिपादाश्रया रेखा वलयः सर्वसन्धिषु॥
पार्ष्णिरित्येवमादीनि स्त्रीनामान्यभिनिर्दिशेत् ॥१६॥
शिरो ललाटं चिबुकं मुखं पृष्ठोदरं त्रिकम्॥
जठरं वस्तिशीर्षं च मेहनं जानुनी तथा ॥१७॥
कर्णपीठेऽक्षिकूटे च पार्श्वे च हृदयं तथा॥
नपुंसकानि जानीयुरंगविद्याविशारदाः ॥१८॥
पुंनामानं दृढं स्निग्धमविभग्नमपीडितम्॥
समं समाहितं चांगं वीरुजं च यदा स्पृशेत् ॥१९॥
यमर्थमभिपृच्छेत तस्य सिद्धिं विनिर्दिशेत्॥
शत्रुणाप्युदये प्रष्टुस्तल्लग्नस्य तथोदये ॥२०॥
शत्रुराश्युदये प्रष्टुस्तेषां वाप्यधिपोदये॥
पराजयं तु वक्तव्यं स्वलग्नस्याष्टमोदये ॥२१॥
स्वराशेश्च महाभाग तथा विद्यादशोभनम्॥
स्वलग्नस्योदये राम शत्रुराश्युदये तथा ॥२२॥
लग्नाद्वा राशितो वापि त्रिषष्टदशमोदये॥
एकादशोदये वापि तेषां वाप्यधिपोदये ॥२३॥
प्रष्टुः सर्वार्थसंपत्तिर्विज्ञेया भृगुनन्दन॥
लग्ने वा तच्चतुर्थे वा सप्तमे दशमेऽपि वा ॥२४॥
पञ्चमे नवमे वापि शस्ताः सौम्यग्रहाः स्मृताः॥
त्रिषड्दशसमं स्थाने पापाश्चैकादशे शुभाः ॥२५॥
सर्वार्थसाधका ज्ञेयाः प्रष्टुर्भृगुकुलोद्वह॥
सौम्या बलाधिका ज्ञेयाः पापा हीनबलास्तथा ॥२६॥
बलवच्च तथा लग्नं प्रश्नकाले शुभप्रदम्॥
एवं तु प्रश्रकालेन शुभं विज्ञाय भूपतिः ॥२७॥
यात्रा राम शुभा ज्ञेया नान्यथा तु कदाचन॥
जातकं चाथ विज्ञाय दशाकाले सुशोभने॥
अष्टवर्गबले शुद्धे यात्राकालः प्रशस्यते ॥२८॥
परस्य देवे त्वशुभे द्विजेन्द्र यात्रा च देया स्वशुभाय नित्यम्॥
ग्रहादिपाकेषु शुभेषु चैव दत्ता भवेत्कार्यकरी यथावत् ॥२९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्रसंवादे श्रीपरशुरामं प्रति पुष्करोपाख्याने अंगविद्यायोगो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥१६५॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP