संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १८२

खण्डः २ - अध्यायः १८२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं निःसृतं सृतम्॥
संपातं समुदीर्णं च सेनापातमनाकुलम् ॥१॥
उद्घातमवधृतं च सव्यदक्षिणमेव च॥
अनालक्षिरविस्फोटो करालेन्द्रमहामुखौ ॥२॥
विकरालविपातौ च विभीषणभयङ्करौ॥
समग्रां वा तृतीयां वा पादपादावजारिजाः ॥३॥
प्रत्यालीढमनालीढं वराहलुलितं तथा॥
इति द्वात्रिंशधा ज्ञेया खड्गाश्चर्मविधारणाः ॥४॥
ऋज्वायतविशालं च तिर्यङ्नमितमेव च॥
पञ्चकर्म विनिर्दिष्टं व्यस्त्रे प्रासं महात्मभिः ॥५॥
छेदनं तर्जनं पातो भ्रमणं भ्रामणं तथा॥
विकर्तनं कर्तनं च चक्रभ्रमणमेव च ॥६॥
आस्फोटक्ष्वेडनं भेदस्त्रासोल्लासितकौ तथा॥
शूलकर्माणि जानीहि षष्ठमाघ्रातसंज्ञकम् ॥७॥
दृष्टिघातं भुजाघातं पार्श्वघातं च भार्गव॥
ऋज्वावक्षोपमाघातं तोमरस्य प्रकीर्तितम् ॥८॥
संहताविततं वामं गोमूत्रं कमलाविलम्॥
ततोऽर्धभागनमितं वामदक्षिणमेव च ॥९॥
व्यावृत्तं च परावृत्तं पादोद्धूतमविप्लुतम्॥
हंसमार्गविमार्गे च गदाकर्म प्रकीर्तितम् ॥१०॥
करालमठपातं च दशोपप्लवमेव च॥
क्षिप्तं हस्तस्थितं शून्यं परशोस्तु विनिर्दिशेत् ॥११॥
ताडनं छेदनं राम तथा चूर्णनमेव च॥
मुद्गरस्य तु कर्माणि लगुडस्य च तान्यपि ॥१२॥
अन्त्यमध्यं परावृत्तं निदेशार्द्धं तथैव च॥
वज्रस्यैतानि कर्माणि पट्टिशस्य तथैव हि ॥१३॥
हरणं छेदनं घातो भेदनं रक्षणं तथा॥
कृपाणीकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥१४॥
त्रासनं रक्षणं घातं तलोद्धरणमायतम्॥
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥१५॥
सन्त्यागमङ्गमर्दञ्च वराहोद्धूतकं तथा॥
हस्तार्धहस्तपालीनमेकहस्तार्धहस्तकम् ॥१६॥
द्विहस्तबाहुपाशे च कोटिरेचितकोद्धते॥
उरो ललाटघाते च भुजादिवसनं तथा ॥१७॥
करोद्धतविमार्गं च पादाहति विपादकम्॥
गात्रसंश्लेषणं कान्तं तथा गोविधिपर्ययम् ॥१८॥
ऊर्ध्वप्रहारं घातं च गोमूत्रं सव्यदक्षिणम्॥
पादसञ्चारकं गण्डं कबरीबन्धभाकुलम् ॥१९॥
तिर्यग्गतमपामार्गं भीमवेगं सुदर्शनम्॥
सिंहक्रान्तं गजक्रातं वृषभाक्रान्तमेव व ॥२०॥
गदाकर्म विजानीयाद्धनुर्वेदविशारदः॥
आकर्षणं विकर्षं च बाहुनामनमेव च ॥२१॥
ग्रीवाविपरिवर्तं च पृष्ठभङ्गं सुदारुणम्॥
पर्णासनं विपर्यासः पशुपारमजाविकम् ॥२२॥
पादप्रहारमास्फोटं कविरेचितकं तथा॥
गात्रश्लेषं कण्ठगतं महीत्याजनमेव च ॥२३॥
उरोललाटघातं च विस्पष्टकरणं तथा॥
उद्धूतमवधूतं च तिर्यग्मार्गगतं तथा ॥२४॥
गजस्कन्धमवक्षेपमवाङ्मुखकमेव च॥
देवमार्गमधोमार्गममार्गगमनाकुलम ॥२५॥     
मुष्टिवातमवक्षेपो वसुधादारणं तथा॥
जानुबन्धं भुजाबन्धं ऊरुबन्धं सुदारुणम् ॥२६॥
संसृष्टं सोदरं शुभ्रं भुजावेल्लितमेव च॥
नियुद्धकर्म जानीयान्नियुद्धकुशलो जनः ॥२७॥
प्रधानकर्माणि तवेरितानि न्यस्तप्रधाने पुरुषप्रवीर॥
नामानि रूपाणि भवन्ति तानि ज्ञेयानि सर्वाणि यथानुरूपम् ॥२८॥
इति श्रीविर्प्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्यावर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥१८२॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP