संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००१

खण्डः २ - अध्यायः ००१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


श्रीगणेशाय नमः॥
वज्र उवाच॥
आदौ भगवता प्रोक्तो विजयो भरतस्य मे॥
यच्छ्रुत्वा वेद्मि चात्मानं ब्रह्मन्विगतकल्मषम् ॥१॥
सुखश्राव्यश्च हृद्यश्च कथासारस्तु भार्गव॥
कथाश्च विविधाः प्रोक्तास्तत्प्रसङ्गात्त्वयानघ ॥२॥
रसवत्यश्च धर्मज्ञ सर्वपापक्षयङ्कराः॥
यास्ता ब्रह्मन्प्रसङ्गेन मयापहृतचेतसा ॥३॥
प्रस्तुतास्ताः कथास्त्यक्तास्ता एव कथस्व मे॥
भगवन्सर्वधर्मज्ञ प्रत्यक्षामलदर्थन॥
कथानां तु प्रसङ्गेन प्रस्तुता याः कथाः पुरा ॥४॥
सुदूरमन्तरीभूत्वा रामस्य विदितात्मनः॥
ता एव श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥५॥
लोकं वारुणमासाद्य रामो भृगुकुलोद्वहः॥
श्रुतवान्देवदेवेशान्किन्नु भूयः प्रचेतसः ॥६॥
एतन्मे सर्वमाचक्ष्व तत्र मे संशयो महान्॥
मार्कण्डेय उवाच॥
कालस्य संख्यां तां श्रुत्वा रामप्रोक्तां प्रचेतसा ॥७॥
पप्रच्छ वरुणं देवं राजधर्मानतः परम्॥
पृष्टस्तु जामदग्न्येन रामं प्राह जलेश्वरः ॥८॥
राजधर्माञ्छृणुष्वार्य पुष्करात्तनयान्मम॥
राजधर्माः श्रुतास्तेन देवाद्दशशतेक्षणान् ॥९॥
स यथावद्विजानाति राजधर्मान्द्विजोत्तम॥
एवमुक्त्वा तदा राममानाय्य च तथा सुतम् ॥१०॥
उवाच भार्गवस्यास्य धर्मान्कथय पुत्रक॥
यत्रयत्रास्य सन्देहो भविष्यति महात्मनः ॥११॥
तदुपानुद भद्रन्ते मम वाक्येन पुत्रक॥
एवमुक्तस्तथेत्युक्त्वा गृहान्निन्ये भृगूत्तमम्॥
तत्रास्य कथयामास राजधर्मान्महोदयान् ॥१२॥
रामेण पृष्टो वरुणस्य पुत्रो जगाद धर्मान्नृपसत्तमानाम्॥
द्रव्यान्महार्थान्भुवि पालनाय लोकस्य सर्वस्य नरेन्द्रचन्द्र ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामस्य पुष्करगृहगमनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : December 05, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP