संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः ०१६ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः ०१६ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ०१६ Translation - भाषांतर ॥पुष्कर उवाच ॥धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव॥ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा ॥१॥वंशत्वग्वंशचापं तु कर्तव्यं भृगुनन्दन॥अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत ॥२॥प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः॥दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम् ॥३॥तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी॥मुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत् ॥४॥स्वल्पा कोटिस्तु वार्क्षाणां शार्ङ्गलौहमयी द्विज॥कामिनीभ्रूलताकारा कोटिः कार्या सुसंस्कृता ॥५॥पृथग्वा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत्॥शार्ङ्गं स्नायुचितं कार्यं रुक्मबिन्दुविभूषितम् ॥६॥कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते॥हस्तिभग्ना द्रुमा ये च विद्युद्दग्धास्तथा च ये ॥७॥आरामदेवतावेश्मतापसाश्रमसंभवाः॥श्मशानसंभवा ये च न ते कार्याः कथंचन ॥८॥प्राणिनां यः सजात्येन शृङ्गी युधि निपातितः॥तच्छृङ्गं वर्जयेच्चापं नित्यं शार्ङ्गे विचक्षणः ॥९॥लोहानि राम चत्वारि शस्यन्ते चापकर्मणि॥सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज ॥१०॥काञ्चनं चापरत्नं तु सरत्नमपि कारयेत्॥माहिषं शारभं शार्ङ्गं रौहीजं चापि कारयेत् ॥११॥वार्क्षं चन्दनजं श्रेष्ठं वैतसं धान्वतं तथा॥सालशाल्मलिकाशानां ककुभस्याञ्जनस्य च ॥१२॥वंशस्य च महाभाग सर्वश्रेष्ठतमं विदुः॥शरद्गृहीतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः ॥१३॥वंशानामपि तच्छ्रेष्ठं यत्र गङ्गा महानदी॥सालानामपि तच्छ्रेष्ठं गोमती यत्र भार्गव ॥१४॥वितस्ताकूलजं श्रेष्ठं वेतसीनां तथैव व॥एवं द्रव्यमयं कार्यं चापं लक्षणसंयुतम् ॥१५॥ग्रहण लक्षणं चास्य भविष्यति च खड्गवत्॥सुखग्राहं दृष्टिकान्तं शरमोक्षमुखं तथा ॥१६॥श्लक्ष्णं श्लिष्टं सुसंस्थानं सारवन्तं सुसंहतम्॥अवनामसुखं नित्यं पुंनामनवलोत्कटम् ॥१७॥एतदीदृशकं श्रेष्ठं चापरत्नं विदुर्बुधाः॥राज्ञा चापस्य कर्तव्या पूजा बाणवरस्य च ॥१८॥नित्यं देवकुले राम खड्गस्य च विशेषतः॥अयसश्चाथ वंशस्य शरस्याथ शरो भवेत् ॥१९॥शरवंशौ ग्रहीतव्यौ शरत्काले भृगूत्तम॥शराः किरातजाः श्रेष्ठाः काञ्चीपुरसमीपतः ॥२०॥तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः॥स्निग्धा निमग्नपर्वाणः सारवन्तः समाहिताः ॥२१॥ऋजवो मधुवर्णाभाः सुजाताः शारदा दृढाः॥स्नायुश्लिष्टाः सुनेत्राश्च सुपुङ्खाः कलवाससः ॥२२॥तैलधौताश्च कर्तव्या रुक्मपुङ्खविभूषणाः॥तथा विषमपर्वाणः फलैश्च व्रणवर्जितैः ॥२३॥एक त्रिपुङ्खं कर्तव्यं राजहंसच्छदोत्तरम्॥रुक्मपुङ्खसुवर्णाग्रमयःफलमनुत्तमम् ॥२४॥स्नायुबद्धं बलं तस्य रुक्मबन्धं तु कारयेत्॥वज्रैश्च लक्षणोपेतैश्चित्रितं तं तु कारयेत् ॥२५॥ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नृपैः॥तस्य पूजा सदा कार्या साभिषेकसमा भवेत् ॥२६॥यात्रायामभिषेके च मङ्गलेषु च कर्मसु॥सपताके तु तं चापं सपताकं तु कारयेत्॥मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन ॥२७॥ये चापरत्नं विनतं तु भूपाः सुवर्णरत्नोपचितं सदैव॥बाणेन साकं परिपूजयन्ति भवन्ति ते राम विपन्नदुःखाः ॥२८॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चापशरलक्षणं नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : December 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP