संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७१

खण्डः २ - अध्यायः १७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


दिनगतशेषाल्पकालस्योत्तरगोलेर्धरात्राद्धीनस्य दक्षिणे युक्तस्य जीवासाहोरात्रावहतात्रिज्याहृतो गोल विपर्ययेण त्रिज्यायुतोन्यच्छेदः ।
छेदोवलम्बकव्याहतः त्रिज्याविभाजितः शंकुः।
शंकुवर्गहीनस्य क्रियावर्गस्य पदं दृश्यद्वादशहता शंकुहृता छाया मध्याह्निकार्कक्रान्त्या साक्षसंयोगविवरो दक्षिणोत्तरगोलयोरनिष्ट तद्राशित्रयादपास्य तज्ज्याभागापहारः द्वादशहताया अनष्टजीवाया लब्धं माध्याह्निकी च्छाया त्रिद्यार्कघातमध्याह्नछायाभागापहारविभक्तस्तत्कर्णः विषुवकर्णहतां त्रिद्यां स्वेष्टकायाकर्णेन विभजेत् । लब्धमुत्तरदक्षिण गोलयोः क्षितिज्यया युतोनव्यासार्धताडितं स्वाहोरात्रार्धेन विभजेत् ।
लब्धा चायं गोलविपर्ययाश्चरदलोनयुतं दिवसस्य गतं शेषं वा भवति॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे ज्योतिःशास्त्रे छायाप्रकरणं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥१७१॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP