संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५७

खण्डः २ - अध्यायः ०५७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच ॥
आरोग्यकरणं नाम द्वितीया प्रतिपत्तथा॥
आरोग्यदं व्रतं चैव वैष्णवं कथयस्व मे ॥१॥
 ॥पुष्कर उवाच ॥
धनिष्ठासु महाभाग यजमानपुरोहितौ॥
उपोष्य वारुणं स्नानं यजमानस्य कारयेत् ॥२॥
कृत्वा कुम्भशतं साग्रं शंखमुक्ताफलोदकैः॥
भद्रासनोपविष्टस्तैः स्नातश्चैवाहताम्बरः ॥३॥
केशवं वारुणं चन्द्रं नक्षत्रं वारुणं तथा॥
पूजयेत्प्रयतो राम गन्धमाल्यानुलेपनैः ॥४॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा॥
देवतानां यथोक्तानां कुर्वीत हवनं तथा ॥५॥
सर्वौषधैस्तथाज्येन यथाशक्ति विधानतः॥
गुरवे वाससी देये रसकुम्भं च काञ्चनम् ॥६॥
ब्राह्मणानां प्रदातव्या वित्तशक्त्या च दक्षिणा॥
शमीशाल्मलिजैः पत्रैवंशाग्रेण तथैव च ॥७॥
त्रिवृतस्तु बलिः कार्यः सर्वरोगविनाशनः॥
शाकानि हरितं माल्यं सर्वसस्यानि वाससी॥
वरुणायाशु निक्षिप्य गन्धैर्धूपैर्निवेदयेत् ॥८॥
अलङ्घ्यमानस्य हि वारुणं तं स्नानेन दानेन कृतेन सम्यक्॥
रोगाः समस्ताः प्रशमं प्रयान्ति बद्धस्तथा मोक्षमवाप्नुयाच्च ॥९ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शतभिषास्नानवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP