संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५४

खण्डः २ - अध्यायः ०५४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम॥
पुत्रीयां सप्तमीं राम गृह्णीयात्प्रयतः शुचिः ॥१॥
अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु॥
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम् ॥२॥
अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च॥
स्नात्वोपविश्य च तथा शुभे देशे तु मण्डलम् ॥३॥
तत्राष्टपत्रं कमलं विन्यसेद्वर्णकैः शुभैः॥
तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु ॥४॥
रक्तेन पूजयेद्देवं गन्धमाल्यानुलेपनैः॥
भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव च ॥५॥
एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु॥
नक्तं भुञ्जीत धर्मज्ञ सर्वकर्मविवर्जितः ॥६॥
दन्तोलूखलको भूत्वा कृत्वा संवत्सरव्रतम्॥
व्रतावसाने दातव्या शक्त्या ब्राह्मणदक्षिणा ॥७॥
तथात्रिमधुरप्रायं कर्तव्यं द्विजभोजनम्॥
अधःशाय्यनिशं तां च भूय एव तथा भवेत् ॥८॥
पुत्रीयमेतद्व्रतमुत्तमं ते मयोदितं कल्मषनाशकारि॥
आराधनं देववरस्य राम सर्वामयघ्नं च तथैतदुक्तम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP