संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५०

खण्डः २ - अध्यायः १५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
सन्धिश्च विग्रहश्चैव वैगुण्यं कथितं बुधैः॥
यदाश्रित्य तथैवान्यैः षाड्गुण्यं परिकीर्तितम् ॥१॥
सन्धिश्च निग्रहश्चैव यानमासनमेव च॥
द्वैधीभावं संश्रयं च षाड्गुण्यं परिकीर्तितम् ॥२॥
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः॥
जिगीषोः शत्रुविषये यानं यात्रा विधीयते ॥३॥
विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते॥
बलार्धेन प्रमाणं तु द्वैधीभावं तदुच्यते ॥४॥
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः॥
समेन सन्धिरन्वेष्यो हीनेन च बलीयसः ॥५॥
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा॥
तत्रापि तस्य पार्ष्णिस्तु बलीयान्न समाश्रयेत् ॥६॥
आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा॥
अशुद्धपार्ष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ॥७॥
बलिना निगृहीतन्तु यो मन्येद्येन पार्थिवः॥
संश्रयस्तेन कर्तव्यो गुणानामधमो गुणः ॥८॥
बहुक्षयव्ययायासं तेषां यानं प्रकीर्तितम्॥
बहुलाभकरम्भः स्यात्तदा राम समाश्रयेत् ॥९॥
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम् ॥१०॥
एवं च बुद्ध्वा नृपतिर्गुणानां काले च देशे च तथा विभागे॥
समाश्रयेद्भार्गववंशमुख्यं चैतावदुक्तं नृपतेस्तु कार्यम् ॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने षाड्गुण्यवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP