संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२४

खण्डः २ - अध्यायः ०२४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच ॥
राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत्॥
एतन्मे सर्वमाचक्ष्व सर्वं वेत्ति यतो भवान् ॥१॥
 ॥पुष्कर उवाच ॥-
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन॥
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥२॥
यदप्यल्पतरं कर्म तदथैकेन दुष्करम्॥
पुरुषेणासहायेन किन्नु राज्यं महत्पदम् ॥३॥
तस्मात्सहायान्वरयेत्कुलीनान्नृपतिः स्वयम्॥
शूरानुत्तमजातीयान्बलयुक्ताञ्छ्रुतान्वितान् ॥४॥
रूपसत्वगुणौदार्यसंयुक्तान्क्षमया युतान्॥
क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ॥५॥
हितोपदेशिकान्प्राज्ञान्स्वामिभक्तान्यशोर्थिनः॥
एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत् ॥६॥
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम्॥
कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव ॥७॥
कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः॥
हस्तिशिक्षाश्वशिक्षासु कुशलाश्श्लक्ष्णभाषितैः ॥८॥
निमित्ते शकुनज्ञाने वित्तवैद्यचिकित्सके॥
पुरुषान्तरविज्ञाने षाड्गुण्येन विनिश्चिताः ॥९॥
कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा ऋजुः॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ॥१०॥
राज्ञां सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा॥
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ॥११॥
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते॥
यथोक्तवादी धूर्त्तः स्याद्देशभाषाविशारदः ॥१२॥
शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता॥
विज्ञाय देशं कालं वा हितं यत्स्यान्महीक्षितः ॥१३॥
वक्तापि तस्यः यः काले स दूतो नृपतिर्भवेत्॥
प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः ॥१४॥
राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः॥
अहार्याश्चानृशंसाश्च दृढभक्ताश्च पार्थिवे ॥१५॥
ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा॥
षाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः ॥१६॥
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः॥
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ॥१७॥
कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्दक्षरक्षिता॥
सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः ॥१८॥
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः॥
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः ॥१९॥
कोशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः॥
निमित्तशकुनज्ञानहयशिक्षाविशारदः ॥२०॥
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित्॥
बलाबलज्ञो रथिनां स्थिरदृष्टिर्विशारदः ॥२३॥
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः॥
अनाहार्यः शुचिर्दक्षः चिकित्सकवचोरतः ॥२२॥
सूदशास्त्रविधानाज्ञः सूदाध्यक्षः प्रशस्यते॥
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ॥२३॥
सर्वे महानसे कार्या नीचकेशनखा जनाः॥
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ॥२४॥
विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत्॥
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ॥२५॥
सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः॥
लेखकाः कथिता राम सर्वाधिकरणेषु वै ॥२६॥
शीर्षोपेतान्सुसंपूर्णान्समद्रोणीगतान्समान्॥
अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः ॥२७॥
उपायवाक्यकुशलः सर्वशास्त्रविशारदः॥
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥२८॥
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः॥
धर्माधिकरणे कार्या जनाह्वानकरा नराः ॥२९॥
एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः॥
लोहवस्त्रादिधातूनां रत्नानां च विभागवित् ॥३०॥
विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा॥
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ॥३१॥
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः॥
व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता ॥३२॥
परं पारं गतो यः स्यादष्टाङ्गेषु चिकित्सिते॥
अनाहार्यस्स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः ॥३३॥
प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा॥
राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः ॥३४॥
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः॥
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥३५॥
एतैरेव गुणैर्युक्तो स्वाधीनश्च विशेषतः॥
गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ॥३६॥
हयशिक्षाविधानज्ञ स्तच्चिकित्सितपारगः॥
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥३७॥
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः॥
दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु ॥३८॥
वास्तुविद्याविधानज्ञो लग्नहस्तो जितश्रमः॥
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥३९॥
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते॥
अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते ॥४०॥
पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा॥
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥४१॥
स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः॥
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः ॥४२॥
कर्माण्यपरिमेयानि राज्ञां भृगुकुलोद्वह॥
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिव ॥४३॥
उत्तमाधममध्याँस्तु पुरुषान्विनियोजयेत॥
न कर्मणि विपर्यासाद्राजा नाशमवाप्नुयात् ॥४४॥
नियुक्तपुरुषे भक्तिं श्रुतं शौर्यं बलं कुलम्॥
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ॥४५॥
पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः॥
नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायत्तो भवेन्नृपः ॥४६॥
स्वभृत्याश्च तथा पुष्टास्सततं प्रतिमानिताः॥
राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ॥४७॥
यथार्हं चाथ सुभृतान्राजा कर्मसु योजयेत॥
धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मणि ॥४८॥
निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन्॥
स्त्रीषु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु ॥४९॥
धर्मे चार्थे च कामे च भये च भृगुनन्दन॥
राजा यथार्हं कुर्यात्तान्ह्युपधाभिः परीक्षितान् ॥५०॥
समतीतो यथार्हायां कुर्याद्धस्तिवने चरान्॥
उत्पादान्वेषणं यत्तानध्यक्षाँस्तत्र कारयेत् ॥५१॥
एवमादीनि कर्माणि यत्नैः कार्याणि भार्गव॥
सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ॥५२॥
पापसाध्यानि कर्माणि यानि राज्ञां भृगूत्तम॥
सन्तस्तानि न कुर्वन्ति तस्मात्तान्बिभृयान्नृपः ॥५३॥
नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः॥
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम् ॥५४॥
तस्मिन्कर्मणि तं राजा परीक्ष्य विनियोजयेत्॥
पितृपैतामहान्भृत्यान्सर्वकर्मसु योजयेत् ॥५५॥
विना दायादकृत्येषु तत्र ते हि समासतः॥
राजा दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् ॥५६॥
नियुञ्जीत महाभागः तस्य ते हितकारिणः॥
परराजगृहान्प्राप्ताञ्जनसंग्रहकाम्यया ॥५७॥
उष्टान्वाप्यथ वा दुष्टान्संश्रयेत प्रयत्नतः॥
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥६८॥
वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम् ॥५९॥
सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत॥
कामं भृत्यार्जनं राजा नैव कुर्याद्भृगूत्तम ॥६०॥
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन॥
शस्त्रमग्निं विषं सर्पान्निस्त्रिंशमपि चैकतः ॥६१॥
भृत्या मनुजशार्दूल कुभृत्याश्च तथैकतः॥
तेषां चारेण विज्ञानं राज्ञा विज्ञाय नित्यशः ॥६२॥
गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम्॥
कथिताः सततं राम राजानश्चारचक्षुषः ॥६३॥
स्वदेशे परदेशे च जातिशीलान्विचक्षणान्॥
अनाहार्यान्क्लेशसहान्नियुञ्जीत सदा चरान् ॥६४॥
जनस्याविततान्सौम्यांस्तथा ज्ञातान्परस्परम्॥
वणिजो मन्त्रकुशलान्सांवत्सरचिकित्सितान् ॥६५॥
तथा प्रव्रजिताकारान्राजा चारान्नियोजयेत॥
नैकस्य राजा श्रद्दध्याच्चारस्यापि च भाषितम् ॥६६॥
द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः॥
परस्परस्याविदितौ यदि स्यातां न तावुभौ ॥६७॥
तस्माद्राजा प्रयत्नेन गूढांश्चारान्प्रयोजयेत॥
राज्यस्य मूलमेतावद्यद्राज्ञश्चारदृष्टिता ॥६८॥
चाराणामपि यत्नेन राज्ञा कार्यं परीक्षणम्॥
रागापरागौ भृत्यानां जनस्य च गुणागुणान् ॥६९॥
शुभानामशुभानां च विज्ञानं राम कर्मणाम्॥
सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत् ॥७०॥
कर्मणा केन मे लोके जनस्सर्वोऽनुरज्यते॥
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता॥
विरागजननं सर्वं वर्जनीयं प्रयत्नतः ॥७१॥
जनानुरागप्रभवो हि लक्ष्यो राज्ञां यतो भार्गववंशचन्द्र॥
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु ॥७२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP