संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३९

खण्डः २ - अध्यायः १३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच॥
नगरादपसर्पन्ति समीपमुपयान्ति वा॥
अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा ॥१॥
नद्यो ह्रदप्रस्रवणा विसराश्च भवन्ति चेत्॥
विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम् ॥२॥
क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कुलोदकाः॥
षण्मासाभ्यन्तरं तत्र परचक्रभयं भवेत् ॥३॥
जलाशया नदन्ते वा प्रजल्पन्ति क्वथन्ति वा॥
विमुञ्चतेऽथ वा ब्रह्मञ्जलान्धूमरजांसि च ॥४॥
अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः॥
संगीतशब्दा दृश्यन्ते जनमारभयं वदेत् ॥५॥
जलाशयानां वैकृत्ये संयतस्तु जलाशये॥
स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज ॥६॥
दिव्यमम्भः पयः सर्पिर्मधु चात्रावसेचनम्॥
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥७॥
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनार्थे॥
गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाङ्गशान्त्यै ॥८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥१३९॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP