संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः| अध्यायः १७७ द्वितीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०२ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ खण्डः २ - अध्यायः १७७ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः १७७ Translation - भाषांतर राम उवाच॥सांग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजः॥सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥१॥पुष्कर उवाच॥द्वितीयेऽहनि संग्रामो भविष्यति यदा तदा॥गजाश्वान्स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥२॥गन्धमाल्यैरलंकुर्यात्पूजयेच्च यथाविधि॥नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥३॥छत्रं ध्वजं पताकाश्च धर्माश्चैव महाभुज॥आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥४॥तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम्॥कृत्वा तु प्रार्थयेद्राजा विजयायेतरो यथा ॥५ ॥५॥प्रमथांश्च सहायार्थे धरणीं च महाभुज॥भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥६॥संयतो ब्रह्मचारी च नृसिंहं संस्मरन्हरिम्॥रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥७॥रात्रिशेषे समुत्थाय स्नातः सर्वौषधी जलैः॥पूजयित्वा नृसिंहं तु वाहनाढ्यमशेषतः ॥८॥पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम्॥पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्ततः ॥९॥दक्षिणाभिः शुचिर्विप्रान्पूजयेत्पृथिवीपतिः॥ततोनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥१०॥चन्दनागुरुकर्पूरकान्ताकालीयकैः शुभैः॥मूर्तिं कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥११॥आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितमम्॥अलङ्करणमाबद्ध्याच्छ्रियं धातुरिति स्रजम् ॥१२॥या ओषधय इत्येवं धारयेदोषधीः शुभाः॥नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥१३॥ऐन्द्राग्नेति ततो चर्म धन्वनागेति वै धनुः॥ततो राज्ञः समादद्यात्सशरन्त्वभिमन्त्रितम् ॥१४॥कुञ्जरं वा रथं चाश्वमारुहेदभिमन्त्रितम्॥आरुह्य शिबिराद्राजा निष्क्रम्य समये शुभे ॥१५॥देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम्॥संहतान्योधयेदल्पा कामं विस्तारयेद्बहून् ॥१६॥सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कल्पिताः ॥१७॥गारुडो मकरव्यूहश्चक्रं श्येनस्तथैव च॥अर्धचन्द्रश्च चन्द्रश्च शकटव्यूह एव च ॥१८॥व्यूहश्च सर्वतोभद्रः सूचीव्यूहस्तथैव च॥पद्मश्च मण्डलव्यूहः प्राधान्येन प्रकीर्तिताः ॥१९॥व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना॥द्वौ पक्षौ बन्धपक्षौ द्वावौरस्यः पञ्चमो भवेत् ॥२०॥अनेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत्॥भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च ॥२१॥न व्यूहे कल्पना कार्या राज्ञो भवति कर्हिचित्॥पत्रच्छेदे फलच्छेदे वृक्षच्छेदावकल्पने ॥२२॥पुनः प्ररोहमायाति मूलच्छेदे विनश्यति॥स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना ॥२३॥नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमात्तराः॥सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ॥२४॥भग्नसन्धारणं तत्र योधानां परिकीर्तितम्॥प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते ॥२५॥न भग्नान्पीडयेच्छत्रूनेकायनगता हि ते॥मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥२६॥शटाभङ्गच्छलेनापि नयति स्वभुवं पराम्॥तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥२७॥न संहतार्तविरलान्योधान्व्यूहे प्रकल्पयेत्॥आयुधानां तु संमर्दो यथा न स्यात्परस्परम् ॥२८॥तथा तु कल्पना कार्या योधानां भृगुनन्दन॥भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥२९॥भेदरक्षापरेणापि कर्तव्या संहता तथा॥स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वा रिपुकल्पितम् ॥३०॥व्यूहे भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः॥गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज ॥३१॥रथस्य चाश्वाश्चत्वारोऽश्वस्य तस्य च वर्मिणः॥वर्मिभिश्च समास्तत्र धन्विनः परिकीर्तिताः ॥३२॥पुरस्ताच्चर्मिणो देया देयास्तदनु धन्विनः॥धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् ॥३३॥रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता॥पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः ॥३४॥अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः॥स राम नरकं याति स्वकृतेनापि कर्मणा ॥३५॥शूराः प्रमुखतो देया न देया भीरवः क्वचित्॥शूरान्वा मुखतो दत्त्वा स्कन्दमात्रप्रदर्शनम् ॥३६॥कर्तव्यं भीरुसंघेन शत्रुविद्रावकारकम्॥दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः ॥३७॥प्रोत्सारयन्ते वरुणी भीरूञ्शूरान्पुनः स्थिताः॥प्रांशवः शुकनासाश्च ये च जिह्वेक्षणा नराः ॥३८॥संहतभ्रूयुगाश्चैव क्रोधनाः कलहप्रियाः॥नित्यं हृष्टाश्च ह्रस्वाश्च शूरा ज्ञेयाश्च कामिनः ॥३९॥दाक्षिणात्याश्च विज्ञेयाः कुशलाः खड्गवर्मिणः॥वङ्कला धान्विनो ज्ञेयाः पार्वतीयास्तथैव च ॥४०॥पाषाणयुद्धकुशलास्तथा पर्वतवासिनः॥पांचालाः शूरसेनाश्च रथेषु कुशला नराः ॥४१॥काम्बोजा ये च गांधाराः कुशलास्ते हयेषु च॥प्रायशश्च तथा म्लेच्छा विज्ञेयाः पाशयोधिनः ॥४२॥अङ्गा वङ्गा कलिङ्गाश्च ज्ञेया मातङ्गयोधिनः॥आहतानां हतानां च रणापनयनक्रिया ॥४३॥पत्तियोधगजानाञ्च तोयदानादिकं च यत्॥आयुधानयनं चैव पत्तिकर्म विधीयते ॥४४॥रिपूणां भेदकामानां स्वसैन्यस्य तु रक्षणम्॥भेदनं संहतानां च कर्मणां चर्म कीर्तितम् ॥४५॥विमुखीकरणं युद्धे धन्विनां च तथोच्यते॥चर्मिभिः क्रियते शूरैर्भिन्नानामपि संहतिः ॥४६॥शूरापसरणं यावत्साश्वीयस्य तथोच्यते॥त्रासने रिपुसैन्यानां रथकर्म तथोच्यते ॥४७॥प्राकारगोमुखाट्टालद्रुमभंगाश्च भार्गव॥गजानां कर्म निर्दिष्टं यदसह्यं तथा परैः ॥४८॥पत्तिभूविषमाजेया रथाश्वस्य तथा समा॥शर्माद्रुमा च नागानां युद्धभूमिरुदाहृता ॥४९॥एवं विरचितव्यूहः कृतपृष्ठदिवाकरः॥तथानुलोमशुक्रो वा दिक्पालबुधमारुताः ॥५०॥योधानुत्तेजयेत्सर्वान्रामगोत्रापदाननः॥भोगप्राप्तिश्च विजये स्वर्गप्राप्तिर्मृतस्य च ॥५१॥धन्यानि तु निमित्तानि वदन्ति विजयं द्विज॥स्पन्दनं शुभगात्राणां शुभस्वप्ननिदर्शनम् ॥५२॥निमित्तं च गजाश्वस्य सर्वतो दृश्यते शुभम्॥शकुना मङ्गलाश्चैव दृश्यन्ते हि मनोऽनुगा ॥५३॥विपरीतसरीसर्पान्मृत्युः स्पृशति नान्यथा॥भवन्तोऽपि कुले जाताः सर्वशस्त्रास्त्रपारगाः ॥५४॥गान्धर्वे च परा नित्यं नित्यं सन्मार्गमाश्रिताः॥अनाहार्याः परैर्नित्यं कथं न स्याज्जयो मम ॥५५॥राजश्रीर्भवतामेव भवद्भिः केवलं मम॥द्वे चामरेऽधिके शूराच्छत्रं चर्माभमेव च ॥५६॥जित्वरीन्भोगसंप्राप्तिर्मृतस्य च परा गतिः॥निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥५७॥शूराणां यद्विनिर्याति रक्तमाबाधतः क्वचित्॥तेनैव सह पाप्मानं सर्व त्यजति धार्मिक ॥५८॥तथा बाधचिकित्सायां वेदनासहिते तथा॥ततो नास्त्यधिकं लोके किञ्चित्परमदारुणम् ॥५९॥मृतस्य नाग्निसंस्कारो नाशौचन्नोदकक्रिया॥कर्तुमिच्छति यस्येह संग्रामादधिकं नु किम् ॥६०॥तपस्विनो दानपरा यज्वानो बहुदक्षिणाः॥शूराणां गतिमिच्छन्ति दृष्ट्वा भोगाननुत्तमान् ॥६१॥वराप्सरःसहस्राणि शूरमायोधने हतम्॥अभिद्रवन्ति कामार्ता मम भर्ता भविष्यति ॥६२॥स्वामी सुकृतमादत्ते भग्नानां विनिवर्तताम्॥ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदेपदे ॥६३॥यः सहायान्परित्यज्य स्वस्तिमान्गन्तुमिच्छति॥अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः ॥६४॥अश्वमेधफलं प्रोक्तं भग्नानामनिवर्तताम्॥पदेपदे महाभागा संमुखानां महात्मनाम् ॥६५॥देवस्त्रियस्तथा लक्ष्मीः पाप्मानमयशस्तथा॥प्रतीक्षन्ते महाभाग संग्रामे समुपस्थिते ॥६६॥पराङ्मुखा मया ग्राह्या जीवन्तोप्यभवा मृताः॥इत्येवमयशस्तस्य पाप्मना सह तिष्ठति ॥६७॥लक्ष्मीः सन्तिष्ठते तस्य जीवतः कृतकर्मणः ॥६८॥मृतस्य चापि तिष्ठन्ति विमानस्था सुरस्त्रियः॥एवमुद्घोषणं कृत्वा धर्मेणेच्छेज्जयं रणे ॥६९॥अधर्मविजयो राज्ञो नृपलोके भयावहः॥अधर्मविजयादर्थैर्यच्छिद्रमुपधीयते ॥७०॥छिद्रादेव परं छिद्रं तस्य स्यान्नात्र संशयः॥न कर्णी न तथा दिग्धः शरः स्याद्धर्मयोधिनाम् ॥७१॥नास्थिशल्यः शरः कार्यो दारुशल्यश्च भार्गव॥समः समेन योद्धव्यो नापचारो रणे द्विज ॥७२॥सन्नद्धेन च सन्नद्धः साश्वश्चाश्वगतेन तु॥रथी च रथिना राम पदातिश्च पदातिना ॥७३॥कुञ्जरस्थो गजस्थेन योद्धव्यो भृगुनन्दन॥विमुखो भग्नशस्त्रश्च स्त्रीबालपरिरक्षिता ॥७४॥व्यायुधो भग्नगात्रश्च तथैव शरणागतः॥परेण युद्ध्यमानश्च युद्धप्रेक्षक एव च ॥७५॥आर्तस्तोयप्रदाता च दण्डपाणिस्तथैव च॥एते रणे न हन्तव्या क्षत्रधर्ममभीप्सता ॥७६॥पापिष्ठो कूटयुद्धे च कर्तव्यमपि चाहवे॥श्रान्तेन वाभिभूतेन अर्धोत्तीर्णबलेन च ॥७७॥दुर्दिने न च युद्धानि कर्तव्यानि महाबल ॥७८॥प्रवृत्ते समरे राम परेषां नामकारणात्॥बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे त्विति॥प्राप्तं मित्रबलं भूरि नायकोऽत्र निपातितः ॥७९॥सेनानीर्निहतश्चायं सर्वा सेनापि विद्रुता॥एवं चित्रासनं कुर्यात्परेषां भृगुनन्दन ॥८०॥विद्रुतानां तु योधानां सुविघातो विधीयते॥धनुर्वेदविधानेन कल्पना च तथा भवेत् ॥८१॥पापाश्च देया धर्मज्ञ तथैव परमोहनाः॥पताकाभ्युच्छ्रयः कार्यः स्वबले च तथा शुभः ॥८२॥संस्कारश्चैव कर्तव्यो वादित्राणां भयावहः॥एतस्य वर्षं वक्ष्यामि तवोपनिषदि द्विज ॥८३॥संप्राप्य विजयं युद्धे कार्यं दैवतपूजनम्॥पूजयेद्ब्राह्मणांश्चात्र गुरूनपि च पूजयेत् ॥८४॥रत्नानि राजगामीनि चर्म वाहनमायुधम्॥सर्वमन्यद्भवेत्तस्य यद्येनैव रणे हृतम् ॥८५॥कुलस्त्रियस्तु विज्ञेयास्तथा राम न कस्यचित्॥स्वदेशे परदेशे वा साध्वीं यत्नान्न दूषयेत् ॥८६॥अन्यथा संकरो घोरो भवतीह क्षयावहः॥शक्रः प्राप्य रणे मुक्तः पुत्रस्तस्य प्रकीर्तितः ॥८७॥पुरस्तेनास्य योद्धव्यं तस्य धर्मं विजानता॥देशेदेशे य आचारः पारम्पर्यक्रमागतः ॥८८॥स एव परिपाल्यः स्यात्प्राप्य देशं महीक्षिता॥नृणां प्रदर्शयेद्राजा समरेऽपि हते रिपौ ॥८९॥न मे प्रियं कृतं तेन येनायं समरे हतः॥किन्तु पूजा करोम्यस्य स्वच्छन्दमविजानतः ॥९०॥हतोऽयं मद्धितार्थाय प्रियं यद्यपि नो मम॥अपुत्राश्च स्त्रियश्चैव नृपतिः परिपालयेत् ॥९१॥ततस्तु स्वपुरं प्राप्य नृपतिः प्रविशेद्गृहम्॥यात्राविधानविहितं भूयो दैवतपूजनम् ॥९२॥पितॄणां पूजनं चैव तथा कुर्याद्विशेषवत्॥संविभागं परावाप्तेः कुर्याद्भृत्यजनस्य तु ॥९३॥अवाप्य धर्मेण नृपस्तु पृथ्वीमारामयूपादिसुरालयाङ्काम्॥कृत्वा तथान्यां द्विजसाच्च शक्त्या लोकं जयंत्यस्य नराधिपस्य ॥९४॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने शत्रुप्रत्यभिगमनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ॥१७७॥ N/A References : N/A Last Updated : December 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP