संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १७९

खण्डः २ - अध्यायः १७९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
पाणिपादतले पृष्ठं सर्वे स्युः संहिता यदि॥
दृष्टं सामपदं स्थानमेतल्लक्षणतस्तधा ॥१॥
बाह्यांगुलिः स्फिचौ पादौ स्तब्धजानुबलावुभौ॥
त्रिवितस्त्यन्तरायाममेवं वैशाखमुच्यते ॥२॥
मण्डलाकारपादाभ्यामुद्यते यत्र जानुनी॥
चतुर्विधं त्रिविच्छिन्नं तदेवं मण्डलं स्मृतम् ॥३॥
फलाकृतिसमं यच्च स्तब्धजानूरुदक्षिणम्॥
वितस्तिपञ्चविस्तारन्तदालीढं प्रकीर्तितम् ॥४॥
नमिता पूर्वजङ्घा च सदालीढविधीयते॥
तिर्यग्गतो भवेद्वामो दक्षिणोऽपि भवेदृजुः ॥५॥
गुल्फौ पार्णिस्थितावेव स्थिरौ पञ्चाङ्गुलान्तरौ॥
स्थानजातं भवेदेतद्द्वादशाङ्गुलमायतम् ॥६॥
एतदेव विपर्यस्तं प्रत्याख्यातं प्रकीर्तितम्॥
कुब्जजानुर्भवेद्वामो दक्षिणस्तु प्रसारितः ॥७॥
अथ वा दक्षिणं जानुं कुब्जं भवति निश्चलम्॥
भवेद्दण्डायतो वामश्चरणः सह जानुना ॥८॥
एवं विकच्छमुद्दिष्टं द्विहस्तान्तरमायतम्॥
जानुनी द्विगुणौ स्यातां ह्युत्तानौ चरणावपि ॥९॥
अनेन विनियोगेन सम्पुटं परिकीर्तितम्॥
किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ ॥१०॥
दृष्टिमेव यथान्यायं षोडशाङ्गुलमायतम्॥
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विजः ॥११॥
कार्मुकं भृगुवामेन वामं दक्षिणकेन वा॥
वैशाखेप्यथ वा जाते स्थितो वा प्यथ वायते ॥१२॥
गुणाग्रं तु ततः कृत्वा कार्मुके प्रियकार्मुकः॥
अधःकोटिं तु धनुषः फलदेशे च पत्रिणः ॥१३॥
धरण्यां स्थापयित्वा तु लालयित्वा तथैव च॥
भुजाभ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यामरिंदम ॥१४॥
न्यस्य बाणं धनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः॥
विन्यासो धनुषश्चैव द्वादशाङ्गुलमन्तरः ॥१५॥
तयोर्भार्गव कर्तव्यो नातो हीनो न चाधिकः॥
निवेश्य कार्मुकं कण्ठे नितम्बे शरसङ्करम् ॥१६।
उत्क्षिपेदस्थिरंहस्तमन्तरेणाक्षिकर्णयोः॥
पूर्वेण मुष्टिना ग्राह्यः स्तनाग्रं दक्षिणः शरः ॥१७॥
हरणं तु ततः कृत्वा शीघ्रं पूर्वां प्रसारयेत्॥
नात्यन्तरा नैव बाह्या नोर्ध्वगा नाधरास्तथा ॥१८॥
न च कुब्जा न चोत्ताना न चला नातिवेष्टिताः॥
समाः स्थैर्यगुणोपेताः पूर्वे दण्डमिव स्थिताः ॥१९॥
छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना॥
तरसा तूत्थितो यत्नात्त्रिकोणविनतिस्थितः ॥२०॥
स्रस्तांसो निश्चलग्रीवो मयूरांचितमस्तकः॥
ललाटनासावक्त्रांसः कूर्परश्च समं भवेत् ॥२१॥
अन्तरं त्वङ्गुलं ज्ञेयं चिबुकस्यांसकस्य च॥
प्रथमे त्र्यङ्गुले विन्द्याद्द्वितीये द्व्यङ्गुलं स्मृतम् ॥२२॥
तृतीयेऽङ्गुलमुद्दिष्टं चायतं चिबुकांसयोः॥
गृहीत्वा सायकं तत्र तर्जन्यङ्गुष्ठमेव च ॥२३॥
अनामया ततो गृह्य पुनर्मध्यमयापि च॥
तावदाकर्षयेद्योगाद्यावद्बाणः सुपूरितः ॥२४॥
एवंविधमुपक्रम्य मोक्तव्यो विधिवत्खगः॥
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्बाणेन भार्गव ॥२५॥
मुक्त्वा चापं वामहस्तं क्षिपेद्वेगेन पृच्छतः॥
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ॥२६॥
कूर्परं त्रिविधं कार्यमाकृष्टन्तु धनुष्मता॥
तत्रापि मुक्तके कार्यमक्षश्लिष्टस्तु मध्यमम् ॥२७॥
ज्येष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदाः॥
ज्येष्ठस्तु पावको ज्ञेयो भवेद्द्वादशमुष्टयः ॥२८॥
एकादश तथा साध्यः कनीयान्दशमुष्टयः॥
चतुर्हस्तं धनुःश्रेष्ठं प्रयोगं चास्य मध्यमम् ॥२९॥
कनीयसं त्रयः प्रोक्तं नित्यमेव पदातिना॥
अश्वे रथे गजे ज्येष्ठं तदेव परिकीर्तितम् ॥३०॥
तदेव हीनं खलु मध्यमं स्यात्तदेव हीनं च तथा कनीयः॥
पूर्णायुधस्यैष विधिर्मया ते प्रोक्तः समासाद् भृगुवंशमुख्य ॥३१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्र सं० रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामैकोनाशीत्युत्तरशततमोऽध्यायः ॥१७९॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP