संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२९

खण्डः २ - अध्यायः ०२९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच ॥
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज॥
हिताय मानवेन्द्राणां तथान्येषां च मानद ॥१॥
पुष्कर उवाच ॥
भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम्॥
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ॥२॥
न तथा शिकटच्छिन्नां नान्यत्तोयपरिप्लुताम्॥
वल्मीकमूषिकावासश्वभ्रकण्टकितैर्द्रुमैः ॥३॥
विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम्॥
न तथा यवसंस्थानां नेभवज्रोपमां तथा ॥४॥
न शूर्पकूर्मसंस्थानां शक्तिहीनां तथैव च॥
सम्पूर्यमाणां कृमिभिस्तथाधिकमृदं शुभाम् ॥५॥
गर्भे च कुसुमं यस्यां न म्लानिमुपगच्छति॥
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ॥६॥
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते॥
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥७॥
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्॥
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥८॥
घृतासृगन्नमद्यानां तुल्यगन्धा तथैव च॥
मधुरा च कषाया च अम्लोषणरसा तथा ॥९॥
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता॥
परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ॥१०॥
सम्पूज्य ब्राह्मणान्पूर्वं निश्शल्यां तां तु कारयेत्॥
खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत् ॥११॥
चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि॥
चतुःषष्टिविभागेन कल्पयित्वा समन्ततः ॥१२॥
एकैकं तु गृहं तत्र तथैव परिकल्पयेत्॥
यस्मात्पुरविभागेन द्वारन्यासः प्रकीर्तितः ॥१३॥
अतः परं प्रवक्ष्यामि देवभागान्यथाविधि॥
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥१४॥
प्राक्तथा निग्रहः स्वामी कथितश्च तथार्यमा॥
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥१५॥
उदक्पृथ्वीधरश्चैव विकोणेष्वथ मे शृणु॥
विकोणे शिवदैवत्ये कामपक्षावुभौ सुरौ ॥१६॥
सावित्रीसवितारौ तु तथाग्नेये प्रकीर्तितौ॥
तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥१७॥
भद्रव्याधी तु वायव्ये कथितौ भृगुनंदन॥
देवतानां तथैतासां भूयो बाह्ये तु मण्डले ॥१८॥
पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे॥
महेन्द्रश्च रविस्सत्यो भृशः प्राग्राम कीर्तिताः ॥१९॥
गृहक्षितो यमो भृङ्गो गन्धर्वश्चैव याम्यतः॥
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा ॥२०॥
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु॥
दितिरीशौ मेघजयौ शिवकोणे प्रकीर्तितौ ॥२१॥
व्योमाग्नी पूषवितथौ शिखिकोणे च भार्गव॥
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैर्ऋते ॥२२॥
रोगानायुश्च नागश्च मुख्याश्वानिलदिक्स्थिताः॥
ततोऽपि बाह्यतश्चाष्टौ शृणुष्व गदतो मम ॥२३॥
अष्टावष्टौ विनिर्दिष्टा देवा दिक्षु विदिक्षु च॥
आद्यन्तौ तु तयोर्देवौ प्रोक्तावथ ग्रहेश्वरौ।
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः॥
महेन्द्ररविसत्याश्च भृशोऽथ गमनस्ततः ॥२५॥
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः॥
पुष्योऽथ त्रितुदश्चैव तथैव च ग्रहर्क्षतः ॥२६॥
यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा॥
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह ॥२७॥
दौवारिकश्च सुग्रीवः पुष्पदंतस्तथा सुरः॥
वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च ॥२८॥
पश्चिमेन विनिर्दिष्टा देवा दानवनाशनाः॥
नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी ॥२९॥
अदितिश्च कुबेरश्च नागश्चाथ हुताशनः॥
एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज ॥३०॥
एतेषामेव देवानां भागे द्वाराणि कारयेत्॥
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत् ॥३१॥
महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ॥
गृहर्क्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ ॥३२॥
सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज॥
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक् ॥३३॥
द्वात्रिंशच्च बहिर्देवास्तथान्तर्द्वादश स्मृताः॥
मध्ये ब्रह्मा तथा प्रोक्त एवं ते पिण्डदेवताः ॥३४॥
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव॥
विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज ॥३५॥
तत्र देवविभागेन गृहकर्म विधीयते॥
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे ॥३६॥
भगवत्संग्रहं कुर्याद्यथासंस्थानतो द्विज॥
सूर्यान्तरिक्षसत्याग्निभागेषु च महानसम् ॥३७॥
वाय्वन्तरिक्षसुग्रीवभल्लाटपितृदैवते॥
गंधर्वपुष्पदन्ताख्ये भागे कूपं तु कारयेत् ॥३८॥
एकवृक्षाधिकं तत्र तथा कुर्याद्द्विजोत्तम॥
अथवा दिग्विभागेन गृहकर्म विधीयते ॥३९॥
ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम्॥
अग्न्यागारं च तत्रैव भ्रमं नैर्ऋतके तथा ॥४०॥
कोष्ठागारायुधागारौ वायव्यां च तथा स्मृतौ॥
कूपादिस्थोदकं शस्तं दिक्षु चैवोत्तरासु च ॥४१॥
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत्॥
पुराणं नवमिश्रं तु दारुवेश्मनि वर्जयेत् ॥४२॥
सकुड्यं परकुड्यं च नैव कार्यं विजानता॥
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्तनम् ॥४३॥
वृद्धिक्षयौ न कर्तव्यौ भूयः कर्मणि वेश्मनः॥
प्रागुत्तरेऽथवा कार्यौ ब्राह्मणानुमते तथा॥
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव ॥४४॥
न पीडनीयं च तथा नागदन्तादिभिर्भवेत्॥
मर्माणि राम जानीयाद्देवतापदसन्धिषु ॥४५॥
न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज॥
ये द्रुमा वटसंसिक्तास्तथा ये च सकोटराः ॥४६॥
हस्तिविद्युद्धता ये च देवतावेश्मजाश्च ये॥
वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे ॥४७॥
रोकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन॥
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च ॥४८॥
मध्वाज्यदिग्धेन तथा छिन्द्यात्परशुना द्विजः॥
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्तितम् ॥४९॥
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम॥
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ ॥५०॥
पुष्यकं शाल्मलिश्चैव पलाशं च विवर्जयेत॥
विस्तारद्द्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे ॥५१॥
निधिप्रथमको नागहंससारसचित्रितम्॥
द्वारको नेत्रमद्वाभ्र चतुष्पथसुरालयैः ॥५२॥
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत्॥
द्विगुणात्तु गृहोच्छायाद्भूमिं त्यक्त्वा न दोषभाक् ॥५३॥
आध्मातं सकटं राम तथाम्बुप्लवि यद्भवेत्॥
द्वारं न तत्प्रशंसन्ति तस्मात्तु परिवर्जयेत् ॥५४॥
पुरद्वाराधिकं श्रीदं भागेषु च तथा भ्रमम्॥
धनदस्य तथा भागैर्धनवेश्म विधीयते ॥५५॥
इन्द्रसत्येन्द्रसुग्रीवद्वारमन्यत्र कारयेत्॥
स्तम्भं तु नवधा कृत्वा पीठे भागं तु कारयेत् ॥५६॥
भागे कुम्भस्तथा कार्यो भागे पद्मं निवेशयेत्॥
स्तम्भं भागत्रये कार्यमष्टास्रमथ वर्तुलम् ॥५७॥
तस्योपरि तथा भागे भवत्यामलसारकम्॥
भागदोषे तुला कार्या भागे कार्या तथा तुला ॥५८॥
एकशालचतुश्शालौ कर्तव्यौ स्वेच्छया सदा॥
पूर्वोत्तराभिः शालाभिर्हीनं कार्यं द्विशालकम् ॥५५॥
अन्यथा गर्हितं राम सुतार्थक्षयदं मतम्॥
अष्टहस्तोच्छ्रयादूर्ध्वं भूमिकां तु न कारयेत् ॥६०॥
वास्तूच्छ्रायं न कर्तव्यं तथा हस्तशताधिकम्॥
आरम्भं सशिलान्यासं द्वारस्तम्भोच्छ्रयावुभौ ॥६१॥
तथारोहणनिष्पत्ती तथा वास्तुप्रवेशनम्॥
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते ॥६२॥
शेषेष्वेतेषु कर्तव्यं देवब्राह्मणपूजनम्॥
कालज्ञपूजनं चैव स्थपतीनां च भार्गव ॥६३॥
प्रावृट्काले न कर्तव्यं वास्तुकर्म विजानता॥
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम ॥६४॥
तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्दशीम्॥
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम् ॥६५॥
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्भं च पीडितम्॥
ग्रहोपस्पृष्टं च तथा व्यतीपातहतं च यत् ॥६६॥
चन्द्रतारानुकूले भे वास्तुकार्यं विजानता॥
ध्रुवाणि तानि शस्तानि शाक्रं वै नैर्ऋतं तथा ॥६७॥
सौम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च॥
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके ॥६८॥
यस्य सौम्यग्रहाः केन्द्रे त्रिकोणे चापि भार्गव॥
पापाश्चोपचयस्थाने तस्मिन्कार्यं प्रवेशनम् ॥६९॥
केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु॥
केन्द्रं सौम्ययुतं देवं न तु शून्यं कदाचन ॥७०॥
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव॥
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥७१॥
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज॥
श्रियः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥७२॥
पूजनं मण्डले कार्यं वास्तुदेवगणस्य च॥
गन्धार्धपुष्प नैवेद्यधूपदीपैर्भृगूत्तम ॥७३॥
तेषां सम्पूजनं कृत्वा समादाय हुताशनम्॥
ओंकारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु ॥७४॥
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः॥
ब्रह्माणं तु पुरस्कृत्य वास्तुदेवगणस्य च ॥७५॥
होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते॥
तत्कालमाशु भजते लक्षणेग्नौ द्विजोत्तम ॥७६॥
तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत्॥
शल्यस्योद्धरणं कार्यं राम यत्नेन जानता ॥७७॥
मध्ये शैलमयं कुम्भं शंकुं च स्थापयेद्बुधः॥
ऐशाने च ततः कोणे शिलां पूर्वं प्रतिष्ठयेत् ॥७८॥
प्रदक्षिणं ततो राम शिलान्यासं विधीयते॥
कुम्भस्य च शिलानां च ततः स्नानं विधीयते ॥७९॥
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः॥
ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना॥८०॥
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः॥
धूपं प्रदीपं नैवेद्यं तेषां राम निवेदयेत् ॥८१॥
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते॥
कालवित्स्थपती पूज्यौ ततो राम विजानता ॥८२॥
ततो मन्त्रं जपेत्कर्ता कालज्ञः स्थपतिः स्वयम्॥
गृहं पुष्टिकरं राम मुनिवक्त्राद्विनिस्सृतम् ॥८३॥
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह॥
जये जयावहे देवि प्रजानां जयमावह ॥८४॥
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम॥
भद्रे कश्यपदायादे कुरु भद्रां मतिं मम ॥८५॥
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते॥
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥८६॥
प्रजापतिसुते देवि चतुरग्रे महीमये॥
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम् ॥८७॥
पूजिते परमाचायैर्गन्धमाल्यैरलंकृते॥
भवभूतिकरी देवि गृहं भार्गवि रम्यताम् ॥८८॥
अव्यङ्गे चाकृते पूर्णे सुनेत्र्यङ्गिरसः सुते॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ॥८९॥
देशस्वामिपुरस्वामिगृहस्वामिगृहे वस॥
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥९०॥
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः॥
कर्तव्यः सकलो राम शिलान्यासविवर्जितः ॥९१॥
पूजितापरलक्ष्मीकं हुत्वाग्निं चाप्यलंकृतम्॥
पञ्चरङ्गेन सूत्रेण बद्धप्रतिसरं तथा ॥९२॥
सफलेषु च बाणेषु दिशासु विदिशासु च॥
गवाक्षकेषु कर्तव्याश्चक्रा रक्षोहणास्तथा ॥९३॥
सर्वस्यास्य तथा न्यासं मन्त्रै रक्षोहणैर्भवेत्॥
गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम् ॥९४॥
स्वऽनुलिप्तस्सुखी स्रग्वी सपत्नीकस्तथैव च॥
द्विजपुण्याहघोषेण वीणावेणुरवेण च॥
बन्दिनां च निनादेन पटहानां स्वनेन च ॥९५॥
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम्॥
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम् ॥९६॥
सम्पूज्य वह्निं द्विजपुङ्गवांश्च माङ्गल्यमालभ्य च भोजयित्वा॥
विप्रान्मधुक्षीरघृतोत्कटान्नैः सदक्षिणांस्तांश्च तथा विसर्ज्य ॥९७॥
सप्ताहमग्निं परिचर्य तत्र सम्पूज्य विप्रान्विधिवच्च राम॥
गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने ॥९८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु वास्तुविद्यावर्णनन्नामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP