संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ००९

खण्डः २ - अध्यायः ००९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी॥
गुरूरुजघना या च मत्तपारावतेक्षणा ॥१॥
सुनीलकेशी तन्वङ्गी परपुष्टनिनादिनी॥
तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा ॥२॥
समग्रभूस्पृशौ यस्याश्चरणौ कमलोपमौ॥
नाभिः प्रदक्षिणावर्ता संहतौ च तथा स्तनौ ॥३॥
विभक्तमधरोष्ठं च दर्शनं मधुरं तथा॥
गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम् ॥४॥
गुल्फौ निगूढौ गूढे च तथा यस्याः ककुन्दरे॥
मध्यनाभेश्च यस्याः स्याद्धस्तांगुष्ठप्रमाणतः ॥५॥
पिण्डिके च न सन्नद्धे न लम्बा च तथा कटिः॥
जठरं च प्रलंबं च नयने च न केकरे ॥६॥
कचाश्च कपिशा केशाः केशा रूक्षास्तथैव च॥
न च वृक्षनदीनाम्नी न देवगिरिनामिका ॥७॥
न चैवोरगगन्धर्वभूतप्रेतसनामिका॥
न वाचाला न लुब्धा च न शठा कलहप्रिया ॥८॥
न लोलुपा न दुर्भावा न वा कुण्ठकपालिका॥
देवद्विजातिसिद्धानां साधूनां पूजने रता ॥९॥
शीलोपेता गुणोपेता न शिराला न लोमशा ॥१०॥
गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः॥
न संहतभ्रूः संश्लिष्टचरणांगुलिकुड्मला ॥११॥
पतिप्रिया पतिप्राणा या नारी पतिदेवता॥
अलक्षणापि संज्ञेया सर्वलक्षणसंयुता ॥१२॥
भ्रुवं कनीनिका यस्या न स्पृशेत कथंचन॥
न तां कुर्वीत भार्यार्थं मृत्युः सा कथिता बुधैः ॥१३॥
सरोममुत्तरोष्ठं च गण्डौ यस्याः सकूपकौ॥
अतिदीर्घा कषाया च चलन्मांसचया तथा ॥१४॥
सा विवर्ज्या विशेषेण नरेण हितमिच्छता ॥१५॥
संक्षेपतस्ते कथितं मयैतत्स्याल्लक्षणं चारु नितम्बिनीनाम्॥
रहस्यमेतत्कथितं तु तत्र यत्राकृतिस्तत्र गुणा वसन्ति ॥१६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP