संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५४

खण्डः २ - अध्यायः १५४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम॥
सम्यग्भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम॥
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ॥२॥
ते तु मूढाः सुराः सर्वे निर्जिता दानवैर्वधम्॥
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥३॥
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति॥
एवमुक्त्वा सुराः सर्वे क्षीरोदे केशवं ययुः ॥४॥
ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम्॥
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥५॥
तुष्टुवुश्च महाभागं त्रिदशास्तं पुनःपुनः॥
सर्वेषामीश्वरं देवं भुवनस्यैककारणम् ॥६॥
देवा ऊचुः॥
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल॥
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥७॥
चामीकराभवसन तार्क्ष्यप्रवरकेतन॥
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥८॥
सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज॥
उन्निद्रचारुकमलविराजितकराम्बुज ॥९॥
स चैकदैव भग्नानामस्माकमसुरैर्भवान्॥
गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ॥१०॥
प्रसीद देवदेवेश जहि तानसुराधमान्॥
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ॥११॥
भगवानुवाच॥
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम्॥
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥१२॥
श्रीपुष्कर उवाच॥
एवमुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम्॥
सौवर्णमुच्छ्रितं दिव्यं शक्रध्वजमिति श्रुतम् ॥१३॥
तमादाय सुराः सर्वे प्रययुर्दानवालयम्॥
देवानुपगताञ्छ्रुत्वा दानवा निर्ययुस्ततः ॥१४॥
सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्तथा॥
दृष्ट्वा देवबलं ते च शक्रकेतुविराजितम् ॥१५॥
तत्तेजसा महाभाग मूर्च्छीभूताः क्षणेन तु॥
मूर्च्छितास्तु ततो दैत्यास्त्रिदशैर्विनिपातिताः ॥१६॥
केचिद्भग्ना दिशो जग्मुस्समुद्रं विविशुस्ततः॥
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥१७॥
पूजयित्वा नृपतये वसवे प्रददौ तदा॥
गर्गोक्तेन विधानेन तं च पूजितवान्वसुः ॥१८॥
तेनास्य तुष्टो मघवानिदं वचनमब्रवीत्॥
इन्द्र उवाच॥
येप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ॥१९॥
अद्य प्रभृति धर्मज्ञ करिष्यन्ति समाहिताः॥
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ॥२०॥
दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा॥
सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ॥२१॥
पुष्कर उवाच॥
ततः प्रभृति राजानो राम शक्रमहोत्सवम्॥
कुर्वन्ति गर्गकथितं सर्वाभयविनाशनम् ॥२२॥
धन्यं यशस्यं रिपुनाशकारि कीर्तिप्रदं धर्मफलप्रदं च॥
कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥२३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्पत्तिवर्णनो नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥१५४॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP