संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०१९

खण्डः २ - अध्यायः ०१९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
कार्या पौरन्दरी शांतिः प्रागेवास्य पुरोधसा॥
प्राप्तेभिषेकदिवसे सोपवासः पुरोहितः ॥१॥
सोष्णीषः श्वेतवसनः सितचन्दनभूषितः॥
सितमाल्योपवीतश्च सर्वाभरणभूषितः ॥२॥
वेदिमुल्लिख्य यत्नेन कृत्वा च विधिवत्ततः॥
जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान्विचक्षणः ॥३॥
सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः॥
शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥४॥
आयुष्यमभयं चैव तथा चैवापराजितम्॥
सपातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥५॥
वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः॥
श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥६॥
आसनस्थमुखं पश्येन्निमित्तानि हुताशने ॥७॥
पश्येयुरन्ये च तथा नृसिंह दैवज्ञवाक्यान्निपुणं स्वरूपम्॥
सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य ॥८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशांतिर्नामैकोनविंशतितमोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP