संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६८

खण्डः २ - अध्यायः १६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच ।
अथ भगवन्तं भुवनोत्पत्तिस्थितिसंहारकारकं चराचरगुरुमतियशसमभिगम्य भृगुर्विज्ञापयामास ।
भगवञ्ज्योतिःशास्त्रं विना गणितेन दुःखगाहमतो गौणेतविधिमाचक्ष्व ।
तमुवाच श्रीभगवाञ्छृणु वत्स गणितज्ञानम् ।
अनादिनिधनः कालः प्रजापतिर्विष्णुस्तस्य ग्रहगत्यनुसारेण ज्ञानं गणितम् ।
तत्रार्कभागभोगः सौराहोरात्रास्तिथिश्च चान्द्रः अर्कोदयात्तदुदयात्सावनः ।
चन्द्रनक्षत्रभोगो नक्षत्रम् ।
सावनोऽहोरात्रा नराणाम् ।
तेषामार्कं दिनं त्र्यर्का रात्रिः चन्द्रमसः पितॄणामहोरात्रम् ।
तेषां कृष्णाष्टम्यामर्कोदयः ।
अमावस्यायां मध्याह्नः ।
शुक्लाष्टम्यामर्कास्तमयः ।
पौर्णमास्यामर्धरात्रम् ।
अर्कभगणभोगो दिव्योऽहोरात्रः ।
तेषामर्कस्य मेषप्रवेशे सूर्योदयः, कर्कटप्रवेशे मध्याह्नः ।
तुलाप्रवेथेऽस्तमयः मकरप्रवेशेर्धरात्रः॥
मेषादिस्थे मध्यमे जीवे जीवमानैराश्वयुजादयो वत्सरा भवन्ति ।
लङ्कायामर्कोदये चैत्रशुक्लप्रतिपदारम्भेऽर्कदिनादावश्विन्यादौ किंस्तुघ्नादौ रात्रावथार्कोदये काले प्रवृत्तिः।
होरादिप्रवृत्तिश्च ।
लङ्कातश्च यावन्मेरोर्याम्योत्तरदेशान्तरे रेखा तत्पूर्वेणापरेण बलकालार्कोदयकालप्रवृत्तिः लङ्कार्योदयकालं तन्मण्डलम् ।
स्वदेशविषुवादर्कोदयविषुवन्मण्डलत्वं प्रतिदिनं चरदलवशेनार्कोदयः ।
क्षितिजं मण्डलम् ।
तत्रार्कभगणभोगेन सौराब्दः ।
येषामब्दानां वै त्रयेण गुणमेकं वेदः कलियुगम्, द्विगुणं द्वापरम्, त्रिगुणं त्रेता, चतुर्गुणं कृतम् शून्यचतुष्टयं यमाग्निवेगाश्चतुर्युगम् ।
एकसप्ततिश्चतुर्युगानि मन्वन्तरम् ।
चतुर्दश मन्वन्तराणि कल्पः ।
मन्वन्तराणां चाद्यान्तरालेषु कृतयुगप्रमाणं सन्धिः॥
एवं चतुर्युगः सकल्पः ।
कल्पेन सप्त शून्यानि वसाग्निवेदाश्चारुभगणपरिवर्तना भवन्ति ।
पञ्च शून्यानि गुणाग्निपञ्चसप्तमार्थचन्द्राश्चंद्रमसः।
भौमस्य द्वितीयपञ्चाष्टनवाष्टं तनवयमयमलाः।
बुधस्याष्टनवाष्टनवनवरामाग्निनवसमचन्द्राः ।
जीवस्य पञ्च पञ्चद्विषट्पञ्च द्विषडक्षद्विकृतरसगुणाः ।
शुक्रस्य यमनवाश्विनवाष्टाग्नियमखगिरयः ।
सौरस्याष्टनवयमगिरिरसपञ्चमनवः ।
आदित्यमन्दगमनाष्टावुदयः।
चन्द्रमसोप्यष्टार्थवस्वर्थदिक्ष्वष्टवेदाः ।
कुजमन्दयमनरपक्षाः बुधमन्दस्य द्वित्रिगुणाः।
जीवस्य पञ्चपञ्चद्विषडक्षद्विकृतरसगुणाः।
शुक्रस्य यमनवाश्विगवाष्टाग्नियमखगिरयः ।
सौरस्याष्टनवयमा गिरिरसपञ्चमनवः ।
आदित्यमन्दगगनाष्टावुदयः।
चन्द्रमसोप्यष्टार्थवस्वर्थदिक्ष्वष्टवेदाः ।
कुजमन्द यमनरपक्षाः ।
बुधमन्दस्य द्वित्रिगुणाः ।
जीवजीवमन्दस्य बाणशरवसवः ।
शुक्रमन्दस्य गुणशरवसवः ।
सौरमन्दस्य शशिवेदाः॥
चन्द्रपातस्य वसुरसशशिरुद्राग्निदशनयमलाः ।
भौमपातस्य महीध्ररन्ध्रयमलाः ।
बुधपातस्य चन्द्राद्यर्थयमलाः ।
जीवपातस्य गुणरसाः ।
सौरपातस्य त्रिनववसवः ।
अष्टशून्यो विलयमरसखरविमुनिवसुनिशाकराः ।
सनवग्रहाणां प्राग्यापमानां कल्पाष्टककल्पाधनो यस्य भगणभागोपक्रियते तस्यैव कक्षायोजनानि लभ्यन्ते ।
यस्य बहवो भगणपरिवर्तास्तस्योपरि तस्य कक्षा ।
यस्याल्पाः कक्षा वर्गदशभागमूलकक्षा कर्णस्तदर्धेनोपरिभवो ग्रहावस्थानं कर्णवर्गस्य दशगुणितस्य मूलकक्षा ।
एवं सर्ववृत्तानां परिधिव्यासानयनम्।
यत्र च सर्वग्रहाणामेकत्वमेव दृश्यते सा खरसेन्दुयमकक्षा ।
तस्या योजनतलिप्ते मध्यमखखरसेन्दुयज्ञैर्यस्यैव कक्षा विभज्यन्ते तस्यैव लिप्तयोजनानि लभ्यन्ते । कल्पाद्ययोजनसमा वै कक्षाः ।
यदनन्तरं वितिमिरं रविः करोति पक्षपक्षेश्वतवोदार्कमण्डलप्रमाणम्॥
वेदावेदाश्चन्द्रमसः ।
पञ्चदश भौमस्य ।
षष्टिर्बुधस्य ।
खार्का जीवस्य ।
खखयमाः शुक्रस्य ।
त्रिंशत्सौरस्य ।
द्वादश दृश्यादृश्यांशाश्चन्द्रमसः ।
सप्तदश भौमस्य।
त्रयोदश बुधस्य ।
एकादश जीवम्य ।
नव च शुक्रस्य ।
पञ्चदश सौरस्य ।
त्रिभागोनाश्चतुर्दशभागाः सूर्यस्य ।
एकत्रिंशद्भागाः षट्त्रिंशल्लिप्ताश्चन्द्रमसः ।
सप्ततिर्भौमस्य ।
वसुरामा बुधस्य ।
गुणरामा जीवस्य ।
भवाः शुक्रस्य ।
त्रिंशच्छनैश्चरस्य ।
एवं परिधयो भौमस्य ।
शीघ्रपरिधिगुणवेराश्च संभागालिमाः चत्वारिंशद्बुधस्य ।
भागा यमाग्निचन्द्राः अष्टगुणा जीवस्य ।
वस्वर्थपक्षाः शुक्रस्य॥
पञ्चविंशतिः सौरस्य ।
परिवेशेनोर्द्ध्वमधश्च ग्रहगतिर्ज्ञेया ।
खखरसेन्दुयमलानां षण्नवतिभागः प्रथमा ज्या ।
तदेवं प्रथमं ज्यान्तरा तस्य प्रथमजीवतया भागमुपहृत्याप्तं प्रथमज्यान्तरात्संशोध्य द्वितीयं ज्यान्तरं द्वितीयप्रथमज्यान्तरयोगे द्वितीयप्रथमं ज्यान्तरयोगो जीवा ।
ततः प्रथमं जीवाप्तं सद्वितीयज्यान्तरात्संशोध्य तृतीयं ज्यान्तरम् ।
ततः द्वितीयजीवयोगस्तृतीया ।
ततः प्रथमजीवात्संशोध्य चतुर्थं ज्यान्तरम्॥
एवं तृतीयजीवायां दत्त्वा चतुर्थी ज्या ।
तस्याः प्रथमजीवायां भागमपहृत्याप्तं चतुर्थाज्ज्यान्तरात्संशोध्य पञ्चमज्यान्तरम् ।
ततश्चतुर्थं जीवायां दत्त्वा षष्ठी ज्या ।
ततः प्रथमजीवाप्तं पञ्चमे ज्यान्तरं संशोध्य षष्ठं ज्यान्तरं पञ्चमजीवायां दत्त्वा सप्तमी ज्या ।
ततः प्रथमजीवाप्तं सप्तमज्यान्तरात्संशोध्याष्टमम् ।
तत्सप्तमजीवायां दत्त्वा नवमी ज्या ।
ततः प्रथमजीवान्तरेणाप्तं दशमज्यान्तरात्संशोध्य नवमं ज्यान्तरम् ।
तं नवमजीवायां दत्त्वा दशमी ज्या ।
ततः प्रथमज्यावाप्तम ।
एकादशाज्ज्यान्तरात्संशोध्य द्वादशं ज्यान्तरम् ।
तदेकादशजीवायां दत्त्वा द्वादशी ज्या ।
ततः प्रथमज्यावाप्तं द्वादशज्यान्तरात्संशोध्य त्रयोदशं ज्यान्तरम् ।
तत्त्रयोदशजीवायां दत्त्वा चतुर्दशी ज्या ।
ततः प्रथमज्यावाप्तं चतुर्दश ज्यान्तरात्संशोध्य पञ्चदशज्यान्तरम् ।
ततश्चतुर्दशजीवायां दत्त्वा पञ्चदशी ज्या ।
ततः प्रथमज्यावाप्तं पञ्चदशाज्ज्यान्तरात्संशोध्य षोडशं ज्यान्तरम् ।
तत्पञ्चदशजीवायां संशोध्य षोडशी ज्या ।
ततः प्रथमज्यावाप्तं षोडशज्यान्तरात्संशोध्य सप्तदशं ज्यान्तरम् ।
तत्षोडशजीवायां दत्त्वा सप्तदशी ज्या ।
ततः प्रथमज्यावाप्तं सप्तदशज्यान्तरात्संशोध्याष्टादशमं ज्यान्तरम्॥
तत्सप्तदश जीवायां दत्त्वाष्टादशी ज्या ।
ततः प्रथमज्यावाप्तम् ।
अष्टादशाज्ज्यान्तरात्संशोध्य एकोनविंशं ज्यान्तरम् ।
तदष्टादशजीवायां दत्त्वैकोनविंशी ज्या ।
ततः प्रथमज्यावाप्तमेकोनविंशाज्ज्यान्तरात्संशोध्य विंशतितमं ज्यान्तरम् ।
तदेकोनविंशजीवायां दत्त्वा विंशतितमी ज्या ।
ततः प्रथम ज्यावाप्तं विंशाज्ज्यान्तरात्संशोध्यैकविंशं ज्यान्तरम् ।
तद्विंशतिजीवायां दत्त्वा एकविंशी ज्या।
ततः प्रथमज्यावाप्तं एकविंशाज्ज्यान्तरात्संशोध्य द्वाविंशं ज्यान्तरम् ।
तदेकविंशजीवायां दत्त्वा द्वाविंशी ज्या ।
ततः प्रथमज्यावाप्तं द्वाविंशाज्ज्यान्तरात्संशोध्य त्रयोविंशं ज्यान्तरम्॥
तद्द्वाविंश जीवायां दत्त्वा त्रयोविंशी ज्या ।
ततः प्रथमं ज्यावाप्तं त्रयोविंशाज्ज्यान्तरात्संशोध्य चतुर्विंशं ज्यान्तरम् ।
तत्त्रयोविंशजीवायां दत्त्वा चतुर्विंशी ज्या ।
ततः प्रथमज्यावाप्तं चतुर्विंशाज्ज्यान्तरात्संशोध्य पञ्चंविंशं ज्यान्तरम् ।
तच्चतुर्विंशजीवायां दत्त्वा पञ्चविंशी ज्या ।
खखरसेन्दुकक्षायां च व्यासारं तदेवानुपदन्यासायाम् ।
ज्यान्तव्यस्तानामन्तरालयोगे चतुर्विंशतिः शरा भवन्ति ।
क्रमज्याकृतिजीवाभिस्तस्तत्क्रमज्याकृतिः शरे यासां लिप्तानां जीवा क्रियते तत्केन्द्रस्तस्य च राशित्रये पदाख्या प्रथमपदस्थे तद्गमं चतुर्थपदस्थे चक्रादूनम् ।
ज्याकेन्द्रलिप्ता राशिलिप्ताष्टविभागेन विभाज्या ।
लब्धाङ्गसमाश्च स्थाप्याः ।
अवशेषं तदनन्तरं ज्यान्तरेण गुणयेत्।
राशिलिप्ताष्टभागेन विभजेत्।
लब्धं स्थापितजीवायां दत्त्वेष्ट ज्यासिद्धिः ।
कालक्षणेभ्यो लिप्तत्वेन परिकल्पितेभ्यो जीवा कार्या ।
लिप्ताभ्यो यावन्ति ज्यान्तराणि संशुद्धन्ति तावन्ति संशोध्यावशिष्टभागलिप्ताष्टभागाहतमशुद्धज्यान्तरेण विभजेत्। लब्धहतासु आद्यष्टकभागलिप्तासु क्षिपेत्।
शरान्तरैरेवं शरचापः भागचतुर्विंशतिज्यापरमापक्रमज्या मेषादि स्थो विषुवल्लेखास्थो ग्रहो भवति।
कुलीरादिस्थश्चान्तरेण ।
परमापक्रमान्तस्थो भवति।
तुलादिस्थो विषुवल्लेखास्थः मकरादिस्थो दक्षिणेन परमापक्रमहतां व्यासार्धेन विभजेत्।
लब्धं चन्द्रस्फुटविक्षेपः ।
तात्कालिकशीघ्रं स्फुटं सुपाते योज्यं बुधशुक्रयोः स्वमदाविक्षेपहतां स्फुटान्त्यकर्णेन विभजेत लब्धं तयोः स्फुटविक्षेपः ।
तात्कालिकस्फुटग्रहस्फुटपातयोगज्यां भौमजीवसौराणां मध्यविक्षेपहतां स्फुटान्त्यकर्णेन विभजेत्, लब्धं तेषां स्फुट विक्षेपः ।
उत्क्रान्तिचापस्फुटविक्षेपयोर्दिशैको योगः तज्जीवस्यक्रान्तिः, तस्या नियोगः शिष्यते सा दिक् तद्गोलस्थश्च ग्रहो भवति ।
एवं ग्रहाणामुत्तरेण दक्षिणेन गतिर्ज्ञेया ।
भचक्रवशेनोदयास्तमयौ कुर्वंतः पश्चिमेन यान्ति ।
पूर्वां व्रजन्तो भगणपरिवर्तान्कुर्वन्ति तत्र च सूर्याश्वपातैः सममेव लङ्कादक्षिणोत्तररेखायाः फाल्गुनान्ते सर्व एव कल्पादावर्कोदये मीनमेषसन्धिगा भवन्ति ।
कल्पावसाने च मेषप्रवेशे वा भानोर्गगनमध्यवर्तिन्यादित्ये द्वादशाङ्गुलेन शंकुना समावनौ छाया ग्राह्या, तद्वर्गं व्यासार्धवर्गहते च्छायाशंकुवर्गयोगेन विभजेत्, लब्धमक्षज्यावर्गः ।
तत्पदमक्षज्या तच्चापं स्वदेशाक्षः तं राशित्रयादपास्य स्वदेशावलम्बको भवति ।
तज्ज्यावलम्बकज्या त्रिज्या वर्गस्य स्वक्रान्तिवर्गोनस्य पदं स्वाहर्व्यासार्धस्तस्य च स्वकान्तिवशेन दिक् । स्वक्रान्तिविषुवच्छायाहता शकुहृता क्षितिजा, सा त्रिज्याहता स्वाहर्न्यासार्धभाजिता क्षये वृद्धिज्या ।
तद्धनुश्चरार्धं वा प्राणास्तद्घटिकाभिः पञ्चदशघटिकायुता दिनार्धम् ।
ऊना रात्र्यर्धगा एवमुत्तरगोलस्था दक्षिणकारः स्वस्वभागापहारः अवामधनुषामबोधः ।
शोधनं व्यक्षराश्युदयप्राणाः मेषवृषमिथुनानां क्रमेण कर्कटसिंहकन्यानामुत्क्रमेण ।
मेषवृषमिधुनजीवादिः प्राग्वच्चरप्राणाः कर्तव्याः ।
तेषामवबोधः शोधनं च तेनैकद्वित्र्याक्षरप्राणाः तैः क्रमेण मेषवृषमिथुनाः प्राणहीनाः उत्क्रमेण कुलीरसिंहकन्यानाम् । युक्तस्वदेशे चरा व्युदयप्राणा भवन्ति त एवोत्क्रमेण तुलादीनां मीनादीनामपि अर्धदिनमध्याह्नच्छायाग्रमूलयाम्योत्तराग्रमूलाग्रपरिलेखमत्स्यमुखपुच्छरखा प्राच्यापरा आदित्यचन्द्रयोरन्यतमस्य देशान्तरकर्म विना ग्रहणं न कार्यम् ।
तद्यथागते काले यदि भवति तदा रेखामध्ये स्वदेशो ज्ञेयः ।
अथादौ रेखा पश्चाच्चेत्प्राक् तत्कालान्तरं षष्टिहतं पञ्चभिः सहस्रैर्विभजेत् ।
लब्धदेशान्तरयोजनानि ग्रहस्यार्धं रात्रान्मध्याह्नं यावत्पूर्वः कालो मध्याह्नादपररात्रं यावदपरस्तत्रार्कस्य कालमविलङ्घयन् छायाद्वयं गृह्णीयात् ।
तत्कर्णो व्यत्यासेन शंकुप्राच्यपरान्ते रहितौ तदनन्तरं विषुवच्छायाग्रहणमिष्टेऽह्नि इष्टदिनाक्षवैषुवताक्षान्तमेकदिगभिमुखीभ्यश्छायाभ्यो युक्तं स्वरापक्रमः तेन त्रिज्याहता परमापक्रमज्याया विभजेत् । लब्धचापमर्कः प्रथमे पदे द्वितीयाद्भावाच्छुद्धः ।
तृतीयेन युक्तः चतुर्थे चक्राच्छुद्धः ।
विषुवच्छाया तरुणा च हीयमाना च च्छाया प्रथम पदस्थेऽर्के भवति, ऊना वृद्धिमती द्वितीयस्थे, वृद्धिमत्यधिका तृतीयस्थे, हीयमानाधिका चतुर्थस्थे, एवमतीतदिवसार्कस्य तदर्कस्य च विवरं स्फुटभुक्तिः ।
आदित्योदयास्तमयाद्वा चन्द्रोदयं दृष्ट्वा नग्रदद्धरितोऽर्कस्तेन कालेन चन्द्रमा भवति चन्द्रान्नक्षत्रज्ञानम्, चन्द्रार्कविवरात्तिथिज्ञानं तस्मादहर्गणः ।
स्फुटार्काद्विपरीतकर्मणा मध्यमार्कः ।
सौरजीवयोश्चारात्संवत्सरः ।
चन्द्रवत्सर्वग्रहक्रिया,ग्रहेभ्यो वा कल्पगतकालज्ञानम्, एवं काल परिच्छेदः ।
अश्विन्यादीनां ध्रुवका राश्याद्याः, खमष्टौ खंखंखयमाः खंशशीमुनयोष्टयमाः शशीनवेन्दवोऽश्वयमाः पक्षौ गुणाः खपक्षौ शैलाः खंगुणा गुणाः खं गुणा षोडशखं त्रीद्व्यष्टादशखं वेदा रन्ध्राणि खं वेदाः सप्तयमाः खं शरा नखाः खं रसा पुष्करा खं रसा नवेन्दवः खं सप्त पक्षौ शरा मुनयो मनवो भूतानि च सप्त नवेन्दवः पञ्च अष्टौ च खं अष्टौ जनखं अष्टौ नखः खं अष्टौ चत्वारि खं नव वसवः खं सूयमुनयः खम् ।
अथैतेषां विक्षेपांशाः दश द्वादश पञ्चदश एकादश षड् खं सप्त खं द्वादश त्रयोदश एकादश द्वावष्टात्रिंशत्सार्धं त्रीणि चत्वारि सार्धान्यष्टौ पञ्चविभागाः पञ्च द्विषष्टिः त्रिंशत् अंशविभागः चतुर्विशतिः षड्विशतिः शून्यं चाश्विनी भरणी कृत्तिका पुनर्वसु पुष्य मघा भाग्यार्यमाणः॥
स्वाति वैश्वदेवाभिजिच्छ्रवण धनिष्ठाजाहिर्बुध्न्य रेवतीनाम्।
उत्तरा रोहिणी सौम्यार्द्रा सार्प हस्त चित्रा विशाखा मैत्रेन्द्र मूलाप्यवारुणाना याम्याः ।
रेवत्युदयः प्राची सर्वस्य महती योगतारा राशिद्वयं सप्तविंशतिर्भागाः अगस्त्यध्रुवकः सप्तभिर्मागैस्तस्य याम्यो विक्षेपः ।
अथ भौमादीनां वक्रकेन्द्राणि राश्याद्यानि पञ्चमनवः खं वेदाः षड्यमाः खं पञ्च वेदाः खं पञ्च पञ्चदश खं वेदास्त्रयोदश खम् ।
अथानुवक्रकेन्द्राणि षड्षोडश खं सप्त वेदाः खं षड्यमाः खं (षट्पञ्चविंशतिः खंखं मनवः खं षड्गुणाः खं) सप्तदश खम् ।
अथ पूर्वाद्वारोदयकेन्द्राणि खमष्टयमाः खं षट्पञ्चविंशतिः खं खं मनः खं षड्गुणाः खं खं सप्तदश खम् ।
अथ पश्चार्धास्तमयकेन्द्राणि एकादश द्वौ खं पञ्चपञ्च खं एकादशषोडश खं पञ्चसप्तविंशति खं एकादश त्रयोदश खम् ।
अथ बुधशुक्रयोः पूर्वार्धास्तमयकेन्द्रे दशदश खं एकादश षोडश खं चत्वारि शून्यानि चत्वारि शून्यानि पंचवेदरसाग्नियमपक्षाष्टशरेन्दवः कल्पनप्रतिनक्षत्रोदयः त एवार्कभगणोना दिवसाः ।
अर्कभगणा द्वादशहतास्तं मासास्तैस्त्रिंशद्धतास्तद्दिवसाश्चन्द्रभगणाः सप्तविंशति हता नक्षत्रदिवसाः भगणांतरमर्केन्द्वोश्चन्द्रमसस्ते त्रिंशद्गुणास्तद्दिवसाश्चन्द्रमासः ।
सूर्यमासोनाधिमासाश्चन्द्रदिवसस्तु दिवसान्तरमवमानीति ।
इति श्रीविष्णुधर्मोत्तरे माव० सं० द्वि० खं० रामं प्रति पुष्करोपाख्याने उपकरणविवरणं नामष्टषष्ट्युत्तरशततमोध्यायः ॥१६८॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP