संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६४

खण्डः २ - अध्यायः १६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभम्॥
निवेदयन्ति शकुना देशस्य नगरस्य च ॥१॥
पथि पान्थो नृपः सैन्ये मरीचोद्दिश्य देवताम्॥
सार्थे प्रधानः साम्ये च ज्ञातिविद्यावयोधिकः ॥२॥
सर्वपापफलो दीप्तः शान्तः शुभफलो मतः॥
षट्प्रकारा विनिर्दिष्टाः शकुनानां च दीप्तता ॥३॥
वेला दिग्देशकरणं स तु जातिविभेदकः॥
पूर्वापूर्वा च विज्ञेया सा तेषां बलवत्तरा ॥४॥
दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः॥
क्रूरस्य वेलादीप्तस्य खलर्क्षनिग्रहादिषु ॥५॥
धूमितासा तु विज्ञेया यां गमिष्यति भास्करः॥
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ॥६॥
एतास्तिस्रः स्मृता दीप्ताः पञ्च शन्तास्तथा पराः॥
दीप्तायां दिशि दिग्दीप्तः शकुनः परिकीर्तितः ॥७॥
ग्राम्ये वन्यो वने ग्राम्यस्तथा निन्दितपादपे॥
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तम ॥८॥
क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः॥
ततो दीप्तश्च कथितो भिन्नभैरवनिःस्वनः ॥९॥
प्रतिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः॥
दीप्तशान्तो विनिर्दिष्टः सर्वैभेदैः प्रकीर्तितः ॥१०॥
मिश्रांमिश्रो विनिर्दिष्टस्ततो वाच्यं बलात्फलम्॥
गोश्वोष्ट्रगर्दभश्वानः शारिकागृहगोधिके॥
नटिकेषां सचर्माद्ये कथिता ग्रामवासिनः ॥११॥
अजाविशुक्रनागेन्द्रखरा महिषवायसौ॥
ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचराः ॥१२॥
मार्जरक्तकृषो ग्राम्यस्तथान्यो वनगोचरे॥
सर्वेऽप्येवेति विज्ञेया नित्यं रूपविभेदतः ॥१३॥
श्रीकण्ठशिखिचक्राह्वा ये च हारीतवायसाः॥
कुलालकुक्कुटश्येनफांटवं जलवानराः ॥१४॥
शशघ्नचटकश्यामाश्चाषभास कपिञ्जलाः॥
तित्तिरिः शतपत्रश्च कपोताश्च तथा त्रयः ॥१५॥
खञ्जरीटकदात्यूह शुकाण्डीवहतिक्तकाः॥
भारद्वाजश्च सारङ्गः इति ज्ञेया दिवाचराः ॥१६॥
वल्गुल्युलूकः शशका शरभोत्क्रोशपिच्छलौ॥
माषिका पिङ्गली काकः कथिता रात्रिचारिणः ॥१७॥
हंसाजमृगमार्जारनकुलर्क्ष भुजङ्गमाः॥
वृकश्च सिंहव्याघ्रोष्ट्रश्वसूकरतुरङ्गमाः ॥१८॥
श्वावित्पृथुतगोमायुघृतकोकिलसारसाः॥
तुरङ्गमो द्वीपिनराश्चोरा उभयचारिणः ॥१९॥
रणप्रस्थानयोः सर्वे पुरस्तात्सङ्गचारिणः॥
जयावहा विनिर्दिष्टाः पश्चाद्विजयकारिणः ॥२०॥
गृहे गम्यो यदा चायं व्याहरेत्पुरतः स्थितः॥
नृपावमानं वदति वामः कलहभोजने ॥२१॥
याने तद्दर्शनं धन्यं सपतङ्गस्य चाप्यथ॥
चौरैर्दोषमथाख्याति मयूरो भिन्ननिःस्वनः ॥२२॥
वमते कपिलः श्रेष्ठः तथा दक्षिणसंस्थितः॥
पृष्ठतो निन्दितफलः तित्तिरिस्तत्र शस्यते ॥२३॥
एणा वराहाः पृषतो वामा भूत्वा तु दक्षिणाः॥
भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ॥२४॥
वृकाश्च जम्बुकव्याघ्र सिंहमार्जारगर्दभाः॥
वाच्छितार्थकरा ज्ञेया दक्षिणाद्वामभागगाः ॥२५॥
शिवा श्यामा रला च्छुच्छः पिङ्गला गृहगोधिकाः॥
सूकरी परपुष्टा च पुंनामानश्च वामतः ॥२६॥
श्रीसंज्ञा चाषभषककपिश्रीकर्णछिक्कराः॥
कपिश्रीकर्णपिप्पीका रुरुश्येनाश्च दक्षिणाः ॥२७॥
जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्॥
ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ॥२८॥
फलकृत्पूर्वशकुनः प्रस्थितस्य च योन्वहम्॥
भवेत्तस्य फलं वान्यत्तदेव दिवसं बुधैः ॥२९॥
मत्ता भिक्षार्थिनो बाला विरक्ताभास्तथैव च॥
सीमान्तनद्यन्तरिता विज्ञेया निष्फला द्विज ॥३०॥
एकद्वित्रिचतुर्भिस्तु शिवा धन्या ततो भवेत्॥
पञ्चभिश्च तथा षड्भिरधन्याः परिकीर्तिताः ॥३१॥
सप्तभिश्च तथा धन्या निष्फला परतो भवेत्॥
नृणां रोमाञ्चजननी वाहनानां भयप्रदा ॥३२॥
ज्वालानना सूर्यमुखी विज्ञेया भयवर्धिनी॥
प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत् ॥३३॥
संवत्सरं मनुष्यस्य ह्यशुभे चाशुभं तथा॥
यथाविधि नरः पश्यञ्छकुनं प्रथमेहनि ॥३४॥
आत्मनश्च तथा तेन ज्ञातव्यं वत्सरं फलम्॥
शार्ङ्गक च नरो दृष्ट्वा भुजङ्गमशिरोगतः ॥३५॥
अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेच्छति॥
विशन्ति येन मार्गेण वायसा बहवः परम् ॥३६॥
तेन मार्गेण वै तस्य पुरस्य ग्रहणं भवेत्॥
सेनायां यदि वासार्थे विनिष्टो वायसो भवेत् ॥३७॥
वासो भयाय रात्रस्थो भयं वदति दुस्तरम्॥
छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुण्ठनैः ॥३८॥
मृत्युस्तत्पूजने पूजा तद्विष्ठाकरणे शुभम्॥
प्रोषितागमकृत्काकः कुर्वन्द्वारि गतागतम् ॥३९॥
रक्तं दग्धं गृहे द्रव्यं विक्षपन्वह्निवेदकः॥
न्यसेद्रजं पुरस्ताच्चेन्निवेदयति बन्धनम् ॥४०॥
पीतद्रव्यं तथा रुक्मं रूप्यं श्वेतं तु भार्गव॥
यश्चैवोपलभेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ॥४१॥
द्रव्यं चोपनयेद्यत्तु तस्य हानिं द्विजोत्तम॥
परतो धनलब्धिः स्याद्राम मांसस्य भक्षणे ॥४२॥
श्रीलब्धिः स्यान्मृगक्षेपे राज्यं रत्नार्पणे महत्॥
यातुः काकोनुकूलस्थः क्षेप्यः कर्णसमो भवेत् ॥४३॥
नन्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥४४॥
समुखोऽभ्येति विततः यात्राघातकरो भवेत्॥
वामः काकः स्मृतो धन्यो दक्षिणस्तु विनाशकृत् ॥४५॥
वामोऽनुलोमगः प्रेष्ठो मध्यमो दक्षिणः स्मृतः॥
प्रतिलोमकृतिर्वामो गमनप्रतिषेधकृत् ॥४६॥
निवेदयति यात्रार्थमभिप्रेतं गृहे रतः॥
एकाक्षिचरणस्त्वर्क वक्ष्यमाणो भयावहः ॥४७॥
कोटरे वासमानस्तु महानर्थकरो भवेत्॥
न शुभः सूकरे काकः पङ्कान्तः स तु दृश्यते ॥४८॥
अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः॥
ज्ञेयाः पतत्रिणोऽन्येमी काकवद्भृगुनन्दन ॥४९॥
स्कन्दादौ राम सव्यस्थाः श्वानो रिपुविनाशकाः॥
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥५०॥
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भृशम्॥
यस्य व्रजति वामाङ्गं तस्य स्याद्दीर्घसिद्धये ॥५१॥
भयाय दक्षिणं चांगं तथा भुजमदक्षिणम्॥
यात्राघातकरो यस्तु हर्षं प्रति मुखागतः ॥५२॥
मार्गावरोधको मार्गे चौरस्तुदति भार्गव॥
अलातास्थिमुखः पापो रज्जुमीरमुखस्तथा ॥५३॥
सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च॥
अमङ्गल्यमथ द्रव्यं देशं चैवाशुभं तथा ॥५४॥
अवमूल्याग्रतो याति यातस्य न भयं भवेत्॥
तथावमूत्त्यां व्रजति शुभं देशं तथा क्रमम् ॥५५॥
मङ्गल्यं च तथा द्रव्यं तस्य स्यादर्थसिद्धये॥
एवञ्च राम विज्ञेयास्तथा वै जम्बुकादयः ॥५६॥
भयाय स्वामिनो ज्ञेया अनिमित्तभयं गवाम्॥
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥९७॥
शिवाय स्वामिनो रात्रौ बलीवर्दो नदन्भवेत्॥
उत्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति ॥५८॥
अभक्ष्यं भक्ष्ययन्तश्च गावो न्यासस्तथाम्बकान्॥
त्यक्तस्नेहाश्च वत्सेषु गवां क्षयकरो मतः ॥५९॥
भूमिं पादैर्विनिर्हत्य दीना भूता विकारणात्॥
अन्योन्यलग्नपुच्छाश्च गावो भयकरा मताः ॥६०॥
आर्द्राङ्गा हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम्॥
शृङ्गलग्नमृदो वापि विज्ञेयाः स्वामिवृद्धये ॥६१॥
महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता॥
नेत्रनासापुटप्रोथस्कंधस्यासनमूर्धसु ॥६२॥
हयानां ज्वलनं शस्तमतोन्यत्र प्रशस्यते॥
सर्वाङ्गज्वलनं नेष्टं तथा धूमसमुद्धवः ॥६३॥
विस्फुलिङ्गोद्भवश्चैव शकृत्यां स्वशनं तथा॥
आरोहणं तथान्येन सपर्याणस्य वाजिनः ॥६४॥
जलोपवेशनं नेष्टं भूमौ च परिवर्तनम्॥
विपत्कल्पतरङ्गस्य स्वतो वाप्यनिमित्ततः ॥६५॥
यवसोदकयोर्द्वेषस्त्वकस्माच्चैव शस्यते॥
क्रीतः काकैः कपोतैर्वा शारिकाभिस्तुरङ्गमः ॥६६॥
आत्मनः स्वामिनो वापि तदा मरणवेदकः॥
दुःखार्तध्यानशीलश्च साश्रुनेत्रो भयावहः ॥६७॥
जिह्वया लेढि चरणमसावपि भयङ्करः॥
निर्निमित्तं पतति वा तदा स्यान्नृषु वृद्धये ॥६८॥
वामपादेन च तथा विलिखंश्च वसुन्धराम्॥
स्वेनैव वामपार्श्वेन दिवा वा न शुभप्रदः ॥६९॥
प्रवेपमाना ह्रेषन्ते रोदन्ते च मुहुर्मुहुः॥
शकृन्मूत्रे विमुञ्चन्तो वेदयन्ति महद्भयम् ॥७०॥
उत्तिष्ठन्तो निषीदन्तः सन्ध्यायां दीनमानसाः॥
स्रस्ताः सास्राश्च दीनाश्च ह्रेषमाणा भयावहाः ॥७१॥
ह्रेषतस्तु यदा ज्वाला ज्योत्स्ना वा मुखतो भवेत्॥
तदा विजयमाख्याति स्वामिनो ध्रुवमेव हि ॥७२॥
दक्षिणेन पदा भूमिं विकिरञ्जयवर्धनः॥
रात्रौ दक्षिणपार्श्वेन प्रस्वपंश्च नरोत्तम ॥७३॥
आरोहणं नवे दद्यात्प्रतीपं वा गृहं व्रजेत्॥
यात्राविघातमाचष्टे वामं पादं तथा स्पृशन् ॥७४॥
अनुलोमं यदा याति पुरस्तात्प्रतिह्रेषिते॥
दक्षिणं वा तथा पार्श्वं मुखेनोपरि मार्जति ॥७५॥
,प्रेरितस्त्वनुकूलेन पवनेन रणे हयः॥
ह्रेषमाणः परान्याति तदा स्याद्विजयावहः ॥७६॥
ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत्॥
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ॥७७॥
दन्तभङ्गे शुभे देशे द्रुमे वा भयवर्धनः॥
क्रूरेषु वेलालग्नेषु तथा राम विशेषतः ॥७८ ॥
गण्डूषधारणं कृत्वा वक्त्रभागे तु दक्षिणे॥
हस्तं गृहीत्वा हस्तेन नागस्यान्यस्य वा पुनः ॥७९॥
उच्चैर्वा करमुन्नम्य विषाणे वाथ दक्षिणे॥
गम्भीरं श्रोत्रमधुरं राज्ञस्तद्विजयावहम् ॥८०॥
अतोन्यथा विपर्यस्तं त्वशुभं परिकीर्तितम्॥
अरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत्॥८१॥
मदं वा वारणो जह्याद्यात्राघातकरो भवेत्॥
ग्राहगृहीतो द्विरदः सग्राहः सलिलाशयात् ॥८२॥
उत्तरन्विजयाय स्यात्सग्राहो भयवर्धनः॥
शस्त्राङ्कुशपताकानां भूमौ निपतनं गजात् ॥८३॥
लोष्टकाष्ठकरीषाणां क्षेपणे चापि यद्भवेत्॥
अनुयात्रं जयायैतत्प्रतियात्रं न शस्यते ॥८४॥
वार्यमाणो यदा नागः शत्रुणाभिमुखो व्रजेत्॥
तन्प्रसुप्ततारं च तदा तेजः प्रशङ्कितः ॥८५॥
इष्टांस्तु यस्तु भक्ष्यांश्च तथा स्पृशति हस्तिनीम्॥
राम बृंहितघण्टानां प्रतिशब्देन कुप्यते ॥८६॥
कक्षायां बद्ध्यमानायां यदा वोच्चैर्नदत्यपि॥
यात्रानुगश्च भवति प्रहृष्टश्चैव वारणः ॥८७॥
वामं दक्षिणपादेन पादमाक्रमते तथा॥
दक्षिणं च तथा दन्ते परिमार्ष्टि करेण चेत् ॥८८॥
वेष्टयत्यथ वा कर्णौ तथा स्तब्धौ करोति च॥
जयाय राज्ञो भवति जनयन्नपि शीकरम् ॥८९॥
वामं तु वेष्टयेद्दन्त पादं वामेन दक्षिणम्॥
पादमाक्रममाणश्च प्रस्खलन्निपतन्नपि ॥९०॥
अग्रहस्तं नोद्धरति यदा च वसुधातलात्॥
 सासुश्च कवलद्वेषी दीनो भयविवर्धनः ॥९१॥
निःश्वासं परमं कुर्वञ्छान्तं विकृतमेव च॥
भयावहो विनिर्दिष्टः प्रतिलोमगतिस्तथा ॥९२॥
क्षीरपादपगुल्मानां निहन्ता विजयावहः॥
तथा विकासिताक्षश्च राम लब्धपदोऽपि च॥९३॥
वृषोश्वः कुञ्जरो वापि रिपुसैन्यं यदा व्रजेत्॥
पराजयस्ततो ज्ञेयं लक्षणं भृगुनन्दन ॥९४॥
खण्डमेघाभिदृष्ट्या च सेनानाशमवाप्नुवान्॥
प्रतिकूलग्रहर्क्षा च तथा संमुखमासता ॥९५॥
यात्राकाले रणे वापि च्छत्रादिपतनाद्भयम्॥
विज्ञेयं भूमिपालस्य घोराणां दीनता तथा॥९६॥
नराश्वनागा हृष्टाश्च विधूमोग्निस्तथा ज्वलन्॥
अनुलोमा ग्रहाश्चैव विज्ञेयञ्जयलक्षणम् ९७॥
आयुधानां प्रज्वलनं कोशादपि विनिर्गमः॥
संग्रामकाले विज्ञेयं विजयस्य तु लक्षणम्॥९८॥
काकैर्योधाभिभवनं क्रव्यादैर्मण्डलक्रिया॥
सैन्योपर्युपसैन्येन विज्ञेयं भयलक्षणम् ॥९९॥
कण्डूतिर्दक्षिणे हस्ते छाया च शुभलक्षणा॥
शोभा मनुजशार्दूल तत्कालं विजयावहा ॥१००॥
सेनाङ्गसंस्थो भयकृद्द्विजेन्द्र क्रव्याद्भवेद्वाप्यथ मक्षिका च॥
शुभावहाः स्युः शतपत्रचाषमयूरहंसाश्च सजीवजीवाः ॥१०१ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शकुनवर्णनो नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥१६४॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP