संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १३७

खण्डः २ - अध्यायः १३७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


गर्ग उवाच॥
पुरेषु येषु दृश्यन्ते पादपा दैवचोदिताः॥
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान् ॥१॥
पुरोगवा विना वासं शाखां मुञ्चन्त्यसंश्रमात्॥
फलपुष्पं तथा बाला दर्शयन्ति त्रिहायना ॥२॥
सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम्॥
क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च ॥३॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः॥
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः ॥४॥
तत्र वक्ष्यामि ते ब्रह्मन्विपाके फलमेव च॥
रोदने व्याधिमाख्याति हसने देशविप्लवम् ॥५॥
शाखाप्रपतने कुर्यात्संग्रामे योऽधपातनम्॥
बालानां मरणे कुर्याद्बालानां फलपुष्पता ॥६॥
स्वराष्ट्रभेदं कुरुते फलपुष्पसनातनम॥
क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥७॥
वाहनापचयं मध्ये रक्ते संग्राममादिशेत्॥
मधुस्रावे भवेद्व्याधिर्जलस्रावेण वर्षति ॥८॥
अरोगशोषणाज्ज्ञेयं ब्रह्मन्दुर्भिक्षलक्षणम्॥
शुष्केषु संप्ररोहत्सु वीर्यमन्नं च हीयते ॥९॥
उत्थाने पतितानां च भयं भेदकरं भवेत्॥
स्थानात्स्थानात्तुरंगाणां देशभङ्गं तथादिशेत् ॥१०॥
जल्पत्स्वपि च वृक्षेषु रुदत्स्वपि धनक्षयम्॥
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपच्यते ॥११॥
पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत्॥
अन्येषु चैवं युक्तेषु वृक्षात्पातेष्वतन्द्रितः ॥१२॥
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत्॥
वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये ॥१३॥
शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत्॥
मूलेभ्य इति षण्माषान्हुत्वा रुद्रीं जपेत्तथा ॥१४॥
मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रांश्च भुवं च दद्यात्॥
गीतेन नृत्येन तथार्चयेत देवं भवं पापविनाशहेतोः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृत्यवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥१३७॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP