संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५५

खण्डः २ - अध्यायः ०५५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
प्रोष्ठपद्यामतीतायां कृष्णपक्षाष्टमी तु या॥
सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी ॥१॥
स्नाता सरसि धर्मज्ञ तोये चाप्यथ सारसे॥
पूजनं वासुदेवस्य यथा कुर्यात्तथा शृणु ॥२॥
घृतप्रस्थेन गोविन्दं स्नापयित्वा जगद्गुरुम्॥
क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः ॥३॥
क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विवक्षितम्॥
सर्वौषधैश्च गन्धैश्च सर्वबीजफलैस्तथा ॥४॥
स्नापयित्वानुलिप्येत चन्दनागुरुकुङ्कुमैः॥
कर्पूरेण तथा राम तथा जातीफलैः शुभैः ॥५॥
ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्दनम्॥
धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ॥६॥
विशेषाद्गोरसप्रायं पुन्नागैरन्वितैः फलैः॥
पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम् ॥७॥
शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम्॥
यवपात्राणि दद्यात्तु फल्गुनि कनकं तथा ॥८॥
पुत्रार्थं प्राशनं कुर्यात्फलैः पुन्नामभिः शुभैः॥
स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ॥९॥
पुत्रकामानवाप्नोति तथा सर्वमभीप्सितम्॥
हविष्यं देवदेवस्य भूमिशोभां तु कारयेत् ॥१०॥
संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम्॥
पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥११॥
पुत्रीयमेतद्व्रतमुत्तमं ते मयेरितं यद्यपि धर्मनित्यम्॥
तथाप्यनेनैव समस्त कामान्कृतेन लोके पुरुषा लभन्ते ॥१२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP