संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १००

खण्डः २ - अध्यायः १००

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते॥
सूर्ये मध्यमनुप्राप्ते नरेन्द्रो - - -॥
सर्वैर्बीजैस्तथा रत्नैः फलैः पुष्पैस्तथौषधैः॥
स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयंभुवः ॥२॥
धूपं च दद्याद्धर्मज्ञ कुशमूलघृताक्षतैः॥
होमं घृताक्षतैः कुर्याद्दद्यात्कनकमेव च ॥३॥
क्रियमाणे स्रुवे चूर्णं तथा चैव रणो द्विजः॥
सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ॥४॥
स्नानं तु राज्यकामस्य प्रोक्तमेतन्मया तव॥
ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ॥५॥
ब्राह्मं तव स्नानमिदं प्रदिष्टं सर्वाधिनाशाय भृगुप्रधान॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP