संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६९

खण्डः २ - अध्यायः ०६९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम्॥
सुदत्तेनैव भवति दानेनोभयलोकजित् ॥१॥
स नास्ति राम दानेन वशगो यो न जायते॥
दानवान्गोचरं नैति तथा रामापदां क्वचित ॥२॥
दानवानेव शक्नोति संहतान्भेदितुं परान्॥
यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः ॥३॥
न गृह्णंति तथाप्येते जायन्ते पक्षपातिनः॥
अन्यत्रापि कृतं दानं करोत्यन्यांस्तथा परैः ॥४॥
उपायेभ्यः प्रयच्छंति दानं श्रेष्ठतमं नराः॥
दानं संवर्धनं श्रेष्ठं दानं श्रेयस्करं परम् ॥५॥
दानवानेव लोकेषु पुत्रवत्प्रीयते सदा॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीर॥
जयन्ति ते राम सुरेन्द्रलोकं सुदुर्जयं यद्विबुधाधिवासम् ॥६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामपुष्करसंवादे दानविधिर्नामैकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP