संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १२९

खण्डः २ - अध्यायः १२९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
एकं मन्त्रं समाचक्ष्व सर्वकर्मकरं शिवम्॥
ऐहिकं सर्वधर्मज्ञ पारलौकिकमेव च ॥१॥
पुष्कर उवाच॥
प्रतिवेदं महाभाग यत्सूक्तं पौरुषं स्मृतम्॥
सर्वकर्मकरं ज्ञेयं पवित्रं माधुसूदनम् ॥२॥
एकैकया ऋचा राम स्नातो दत्त्वा जलाञ्जलीः॥
पौरुषेण च सूक्तेन मुच्यते सर्वकिल्बिषैः॥
अन्तर्जलगतो जप्त्वा तथा सूक्तं तु पौरुषम्॥
सर्वकल्मषनिर्मुक्तो यथेष्टां लभते गतिम् ॥४॥
एकैकया ऋचा स्नातः पुष्पं पुष्पं निवेदयेत॥
पुरुषाय जले राम सर्वपापैर्विमुच्यते ॥५॥
एकैकया ऋचा स्नातो दत्त्वा राम फलंफलम्॥
सर्वान्कामानवाप्नोति यान्कांश्चिन्मनसेच्छति ॥६॥
पौरुषेण च सूक्तेन प्राणायामो महाफलः॥
जपहोमौ तथा राम सर्वकल्मषनाशनौ ॥७॥
सुरापो ब्रह्महा स्तेनस्तथैव गुरुतल्पगः॥
पापेभ्यो विप्रमुच्येत जप्त्वा सूक्तं तु पौरुषम् ॥८॥
कृच्छैर्विशोधितः पूर्वं मध्याह्ने सलिलापगः॥
स्नातस्तु पौरुषं सूक्तं जपेन्नित्यमतन्द्रितः ॥९॥
संवत्सरेण देवेशं वासुदेवं प्रपश्यति॥
स्वयमेव महाभाग शाकमूलफलाशनः ॥१०॥
तस्मात्काममवाप्नोति यद्राम मनसेच्छति॥
श्रियमग्र्यां तथा रूपं जीवितं दीर्घमेव च ॥११॥
अणिमां लघिमां प्राप्तिं महिमां च भृगूत्तम॥
ईशित्वञ्च वशित्वञ्च प्रकाम्यञ्च भृगूत्तम ॥१२॥
यत्र कामावसायित्वं तस्मात्प्राप्नोति मानद॥
दुरवापमथान्यद्वा यत्किञ्चिन्मनसेच्छति ॥१३॥
अकामः पौरुषं सूक्तं जप्त्वा नित्यमतन्द्रितः॥
तत्र याति महाभाग यद्विष्णोः परमं पदम् ॥१४॥
मांगल्यमेतत्परमं पवित्रं संसारदुःखौघविनाशकारि॥
सुखप्रदं धर्मविधं नराणां मनोरमावाप्तिकरं प्रदिष्टम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP