संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९१

खण्डः २ - अध्यायः ०९१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत्॥
चन्दनागरुकर्पूर मृगदर्पं तथैव च ॥१॥
जातीफलं तथा दद्यादनुलेपस्य कारणात्॥
अतोन्यं नैव दातव्यं किञ्चिदेवानुलेपनम् ॥२॥
दारिद्र्यं पद्मकः कुर्यादस्वास्थ्यं रक्तचन्दनम्॥
उशीरश्च तु विभ्रंशं मन्ये कुर्युरुपद्रवम् ॥३॥
न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत्॥
तौ दत्त्वा देवदेवाय शोकमाप्नोत्यसंशयम् ॥४॥
कृत्रिमं तु न दातव्यं तथैवाभरणं द्विज॥
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या वियुज्यते ॥५॥
पुष्पं कण्टकिसंजातं तथा गन्धविवर्जितम्॥
उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम् ॥६॥
श्मशानचैत्यद्रुमजं भूमावशनिपातितम्॥
कलिका न तु दातव्या देवदेवस्य चक्रिणः ॥७॥
शुक्लान्यवर्णं कुसुमं न देयं च तथा भवेत्॥
सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमे।८॥
दत्त्वा कण्टकिसंभूतं कुसुमं परिभूयते॥
शुक्लान्यवर्णं दातव्यं कुसुमं कुंकुमस्य यत् ॥९॥
पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिकाम्॥
तथा च वन्यकं दद्याच्चूतकेतकिजं च यत् ॥१०॥
रक्ताशोकस्य कुसुममतसीकुसुमं तथा॥
वृक्षायुर्वेदविद्भिश्च शुक्लं रक्तीकृतं च यत् ॥११॥
तद्रक्तमपि दातव्यं बिल्वपत्रं तथैव च॥
दूर्वाग्रं च तथा देयं पत्रं भृङ्गिरजस्य तु ॥१२॥
पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः॥
मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च ॥१३॥
पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम्॥
बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत् ॥१४॥
अनुक्तरक्तकुसुम दानाद्दौर्भाग्यमाप्नुयात्॥
सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम् ॥१५॥
मृगदर्पं विना किञ्चिदथ चेज्जीवसंभवम्॥
देवदेवस्य दातव्यं दीपे मज्जानमेव वा ॥१६॥
नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत्॥
अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः ॥१७॥
कृष्णागरुस्तथा देवधूपं देवस्य यत्नतः॥
अभक्षं चाप्यहृद्यं च नैवेद्यं न निवेदयेत् ॥१८॥
केशकीटावपन्नं च नखांशविहितं च यत्॥
मूषिकालांगलोपेतमवधूतमवक्षतम् ॥१९॥
न भक्ष्यमन्नमक्षीरं माहिषं क्षीरमेव च॥
वराहमत्स्यमांसं च मांसं पञ्चनखस्य च॥
दुरामोदौ तथा वर्ज्यौ देवकर्मणि पंडितैः ॥२०॥
निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम्॥
करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य ॥२१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथनन्नामैकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP