संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १६७

खण्डः २ - अध्यायः १६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
अथ ब्रह्माणं भगवंतं भृगुर्विज्ञापयामास भगवञ्ज्ञातुमुडुचक्रमिच्छामि ।
तमुवाच भगवान् ।
वत्स द्वादशराशयो भचक्रम् ।
त्रिंशद्भागाश्च राशेः ।
षष्टिः लिप्तश्च भागः ।
षष्टिर्विलिप्ताश्च लिप्ता षष्टिः परा विलिप्ता ।
षष्टिश्च नाडिका अहोरात्रम् ।
षष्टिर्विनाडिका।
नाडिका तत्र यः काले प्राणः सा क्षेत्रे लिप्ता ।
तस्माद्यावता कालेन प्राणो भवति ।
दशगुर्वक्षरलक्षणस्तावता कालेन भचक्रस्यैका कलाभ्युदेति ।
सकलं भचक्रं नाडिकाषष्ट्येति तत्रादावेव राशिरजो रक्तवर्णः कालस्यमूर्धा (पूर्वावन्यो) दिवारात्रौ ग्राम्यः प्राग्द्वारः चतुष्पात् रात्रौ दक्षिणस्यां दिशि बली चरः पृष्ठोदयः क्रूरो विषमः पुमाञ् शनैश्चरस्य नीचः । विंशतिस्तथागतस्यैवातिनीचः ।
आदित्यस्योच्चः, तस्यैव दशमे भागेऽत्युच्चः अङ्गारक्षेत्रम् ।
तस्यैव त्रिकोणमिति॥
वृषः श्वेतवर्णो मुखं कालस्यारण्यो दिवारात्रौ ग्राम्यो दक्षिणद्वारः चतुष्पाद्रात्रौ दक्षिणस्यां दिशि बली स्थिरः पृष्ठोदयः समः सौम्यः स्त्रीराशिः शुक्रक्षेत्रं चन्द्रमसस्त्रिकोणं तस्यैव च तृतीये भागे चात्युच्चमिति॥
मिथुनः पुरुषो गदाधारी वीणाकरा नारी च हरितवर्णः कालस्य बाहू ग्राम्यः पश्चिमद्वारो द्विपात् पूर्वस्यां दिशि दिवा बली द्विस्वभावः शीर्षोदयः क्रूरो विषमः पुरुषराशिः बुधक्षेत्रमिति॥
बली चरः पृष्ठोदयः कीटः सौम्यः समः स्त्रीराशिः चन्द्रक्षेत्रं भौमनीचः तस्याष्टविंशत्तमे भागेऽतिनीचो जीवोच्चस्तस्य पञ्चमे भागेऽत्युच्च इति॥
सिंहः सिंहाकारः पाण्डुवर्णः कालस्योदरमारण्यः प्राग्द्वारः चतुष्पात् दक्षिणस्यां दिशि रात्रौ बली स्थिरः शीर्षोदयः
क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्त्रिकोणमिति॥
कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्त्रिकोणमिति॥
तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य वस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विधा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागेऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति॥
धन्वीनाम धनुर्धरः पुरुषो हयपश्चिमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात् तस्य प्रथममर्धं पूर्वस्यां दिशि दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमान्विषमो जीवक्षेत्रं तत्त्रिकोणमिति॥
मकरो नाम मृगः पूवार्धो मकरः, पश्चार्धो मृगः, प्रागर्धेनारण्यो द्वितीयार्धेनाम्बुचरः (कबेरैः) कालस्य जानुनी पूर्वार्धोर्धचतुष्पात्, पश्चार्धेन कीटो, दक्षिणद्वारः, प्रागर्धेन रात्रौ दक्षिणस्यां दिशि बली पश्चिमार्धेन, सन्ध्यायां पश्चिमायां दिशि चरः, नीचं बृहस्पतेः तस्यैव पश्चिमे भागेऽतिनीचं, भौमस्योच्चस्तस्यै वाष्टाविंशतितमे भागेऽत्युच्चः, सौरक्षेत्रमिति॥
कुम्भो नाम पुरुषः स्कन्धेन रिक्तकुम्भधरः पिङ्गलः कालस्य जंघे द्विपाद्ग्राम्यः पश्चिमद्वारः पूर्वेण च दिवा बली शीर्षोदयः स्थिरः क्रूरः पुमान्विषमः शनैश्चरक्षेत्रं तत्त्रिकोणमिति॥
मीनो नाम द्वौ मत्स्यावन्योन्यपुच्छादिमुखौ मत्स्यवर्णौ कालपादौ कीट उदीचः पश्चिमस्यां दिशि सन्ध्यायां बली पृष्ठपुच्छोदयो दूस्वभावः सौम्यः समः स्त्रीराशिः बुधस्य नीचं तस्यैव बुधस्य पञ्चदशभागेऽतिनीचं शुक्रस्योच्चं तस्यैव सप्तविंशतितमे भागेऽत्युच्चं जीवक्षेत्रमिति॥
सर्वस्यैव राशेरर्धं होरा तत्र विषमराशिषु प्रथमा प्रथमा सौरी द्वितीया चांद्री समराशिषु चान्द्री द्वितीया सौरी सर्वराशिषु द्रेष्काणत्रयम् । ते प्रथमपञ्चमनवमराशिनाथाः ।
प्राग्द्वाराणां राशीनां मेषाद्या न वांशकाः दक्षिणद्वाराणां मकराद्याः पश्चिमद्वाराणां तुलाद्याः उत्तरद्वाराणां कुलीराद्याः सर्वादिर्यो नवांशको वर्गोत्तमः कर्कटवृश्चिकमीनानां चरमांशा गण्डान्ताः॥
राशौ राशौ द्वाभ्यां द्वाभ्यां द्वादशद्वादशभागाः ।
त्रिंशाशंकाः पञ्च भौमस्य, ततः पञ्च सौरस्य, ततोऽष्टौ जीवस्य, सप्त बुधस्याष्टौ भृगोर्विषमे राशौ, समराशौ तु अष्टौ शुक्रस्य ततः सप्त बुधस्य ततोऽष्टौ जीवस्य पञ्च सौरस्य पञ्च भौमस्येति॥
एवं षट्पदार्थो लग्नः स स्वस्वामिना जीवेन बुधेन शुक्रेण वा युक्तो दृष्टो बलवान्भवति ।
शेषैर्मुक्तो दृष्टो हीनबलः स्यात् ।
एवं च राशिं सप्तमस्थो ग्रहः सर्वदृष्ट्या पश्यति॥
चतुर्थाष्टमयोश्च स्थिताः पादा नेया दृष्ट्या पञ्चमनवमयोश्चार्धदृष्ट्या ।
तृतीयदशमयोश्च पाददृष्ट्या एक, द्वि, अष्ट, द्वादशे स्थितो न पश्यतीति॥
तत्रस्थं गृहमध्येर्लग्नमुदयं विलग्नकेन्द्रं त्रिकोणम्।
शरीरमिति लग्नस्याख्या, धान्यकुटुम्बं च द्वितीयस्य, उपचयं योधभ्रातृदुश्चिक्याख्यं तृतीयस्य, मित्रगृहं हिबुकं सुखवाहनकेन्द्रपालकाख्याश्चतुर्थस्य, पुत्रत्रिकोणबुद्धिसंज्ञाः पञ्चमस्य, उपचयारिसंज्ञे षष्ठस्य, जायाजामित्रास्तमार्गश्च्यवनद्यूनसंज्ञाः सप्तमस्म, छिद्रायुसंज्ञे चाष्टस्य, धर्मत्रिकोणत्रित्रिकोणच्छिद्रसंज्ञा नवमस्य, कर्मकेन्द्राकाशमेषूरणोपचयाख्यापनया दशमस्य, उपचयायलाभद्रव्याख्या एकादशस्य, रिष्फ 'द्यून' सव्ययाख्या द्वादशस्येति॥
सर्वेभ्यः केन्द्रसंज्ञेभ्यो द्वितीयः पणफरः सर्वस्मात्पणफरात् द्वितीय आपो क्लिम इति॥
आदित्याक्रान्तराशेः द्वितीयो वेशि, द्वादशे बोसि, उभये उभयचरी चन्द्रात् द्वितीयः सुनफा ।
द्वादशश्चानफा ।
उभयोरपि लग्नश्च स्वामिनदुरुधरासंज्ञासमेतौ अत्र सहस्ररश्मिरादित्यः नात्युच्चो न्यग्रोधपरिमण्डलः पैत्तिकोऽस्थिसारो रक्तंश्यामः पापः पुरुषः क्षत्रियः कालात्मा राजा प्राग्द्वारो दक्षिणस्यां वा दिशि उदगयने कृष्णपक्षे च बली ५ ॥चन्द्रमाः सहस्ररश्मिः तत्र वर्तुलाङ्गः दर्शनीयः स्वक्षः कफवातात्मा रुधिरसारः गौरः क्षीणः पापः पूर्णः सौम्यः स्त्रीग्रहः वैश्यः कालशमनः राजा पूर्वोत्तराभिमुखः उत्तरस्यां दिशि रात्रावुदगयने शुक्लपक्षे च बलवानिति॥
भौमो नवरश्मिः ह्रस्वः पिङ्गाक्षः कपिलः पैत्तिको मजासारो रक्तगौरः पापः पुरुषग्रहः क्षत्रियः कालस्य सत्त्वं सेनानीः दक्षिणाभिमुखो वक्रे दक्षिणस्यां दिशि कृष्णपक्षे रात्रौ च बलवानिति॥
बुधोष्टरश्मिर्मध्यमरूपः प्रमाणप्रकृतिः त्वक्सारः दूर्वाश्यामः सौम्यो न्यग्रोधसमेतप्रकृतिर्भवति नपुंसकः शूद्रः कालस्य वाक् युवराजः उदङ्मुखः उत्तरस्यां दिशि सर्वकालं वक्रे शुक्लपक्षे च बलवानिति॥
सौरः सप्तरश्मिः कृष्णो दीर्घः वातप्रकृतिः पापो नपुंसकः कालस्य दुःखः प्रेष्यः पार्थिवाभिमुखः तस्यामेव दिशि रात्रौ वक्रे शुक्लपक्षे च बलवानिति॥
सर्वे च ग्रहाः स्वसंवत्सरे स्वायने स्वर्तौ स्वमासे स्वपक्षे स्वदिने स्वहोरायां स्ववर्गे बलवन्तो भवन्ति वर्गोत्तमस्थ स्वोच्चस्थः स्वत्रिकोणस्थश्च ग्रहयुद्धे च जयी रश्मिवपुर्धरश्च बलवान्भवति।
आदित्यस्य चन्द्राङ्गारकजीवा मित्राणि बुधस्समः शुक्रसौरावरीः॥
चन्द्रस्य सूर्यबुधौ मित्रे शेषाः समाः॥
भौमस्य जीवेन्दूष्णकराः सुहृदः, ज्ञोरिः सितार्कजौ समौ॥
बुधस्य सूर्यसितौ मित्रे, हिमगुः शत्रुः, भौमजीवशनैःश्चराः समाः॥
जीवस्य सूर्येन्दुभौमा मित्राणि, रविसुतो मध्यः, सौम्यसितावरी॥
शुक्रस्य बुधसौरौ मित्रे भौमजीवौ मध्यस्थौ सूर्येन्दू अरी॥
सौरस्य बुधशुक्रौ मित्रे जीवो मध्यस्थः आदित्येन्दुकुजा रिपवः॥
तत्काले च ग्रहाद्ग्रहो द्वितीयतृतीयतामेति मध्यश्चारितामरिरमित्रताम्॥
तत्र गर्भः प्रथममासि कललं भवति द्वितीये घनीभवति॥
तृतीयेऽवयवाश्चास्य भवन्ति चतुर्थेऽस्थीनि पञ्चमे त्वक् षष्ठे बलं सप्तमे लोमानि अष्टमे क्षुद्र नषमे उद्वेगः दशमे प्रसवः तत्रास्य मासक्रमेण शुक्राङ्गारकबृहस्पतिदिवाकरचन्द्रसौरबुधा वा॥
लग्नाधिपतिचन्द्रार्काः पतयः आधानकाले यः कलुषो भवति स स्वमासे गर्भपीडां करोति योऽन्यग्रहविजितः केतूल्काभिहतः स स्वमासे गर्भपाताय भवति जन्मलग्न पञ्चमषष्ठसप्तमाष्टमनवमेषु चन्द्रमाः पापयुत सौम्यदृग्योगवर्जितो वा तस्य मरणाय भवति लग्नचतुर्थसप्तमाष्टमेषु पापद्वयमध्यगतश्च षष्ठाष्टमयोः पापदृष्टोऽपि षष्ठाष्टमैरन्यतमे बुधजीवशुक्राणामन्यतमो वक्रिणा पापेन दृष्टः सौम्यग्रहेण चादृष्टो मरणाय लग्नपश्चान्ते पापयुतश्च यत्र तत्र राशौ नवमोंशः पापसन्ध्यायां चन्द्रहोरा च चत्वार्यपि च केन्द्राणि यमार्कचन्द्रभौमसौरावेतरे भचक्र पूर्वार्धे पापाः पश्चार्धे सौम्याः कर्कटवृश्चिकान्यतमोदये च केन्द्राष्टमेनेति ।
पापैः क्षीणचन्द्रोदये च लग्नान्यधर्माष्टमस्थैः चन्द्रशनैश्चरार्कभौमैः जीवे च बलहीने चन्द्रग्रहेण कालः सक्रूरे चन्द्रे लग्नगे भौमेष्टमे मात्रा सह म्रियते ऐवंविधेर्के शस्त्रेण ।
एवमरिष्टान्यष्टवर्षान्तरे विद्यात् ।
अथ तात्कालिकस्य ग्रहस्य राशिभागलिप्ता अष्टाधिकशतार्द्धगणना कार्या भगणानां द्वादशावशेषे वर्पमासदिनघटिका भवन्ति ।
लग्नाद्द्वादशस्थः सर्वमपहरति एकादशगो अर्द्धम् दशमस्थस्त्र्यांशं नवमस्थश्च चतुर्थमष्टमस्थः पञ्चमम् । सप्तमस्थः षष्ठमेवं पापः सौम्यस्तदर्द्धं बहुष्वेकर्क्षगेषु बल वानेवैकोङ्गारकवर्जं शत्रुक्षेत्रस्थस्त्र्यांशं हरति शुक्रसौरवर्जितावस्तमिताश्च सर्वेश्वरीमवेधम् ।
वर्गोत्तमस्वराशिद्रेष्काणांशगतश्च द्विगुणं हानिवृद्धी वा ।
एकामेव महतीं प्रयच्छति एवं निर्णीतमायुर्यावद्येन ग्रहेण दत्तं तावत्कालं दंशा ज्ञेया लग्राद्दशा च ग्रहवद्बलवांश्च लग्नो भक्तराशितुल्यानि ,वर्षाण्यन्यानि प्रयच्छति ।
दशा च लग्नार्कचन्द्राणां बलवतः प्रथमा भवति ततस्तत्कण्टकस्थानां बलवत्क्रमेणैव ततः पणफरगतानां तत आपो क्लिमगतानामिति ।
तत्रोच्चत्रिकोणस्वक्षेत्रवर्गोत्तमगतस्य शुभा विपरीतस्य चाशुभा लग्नदशा लग्नपग्रहवशेनागतस्यैकराशिगोग्रहोवमाननिदस्यस्व गुणानसापतिनवमपञ्चमगस्तृतीयेन चतुर्थगश्चतुर्थेन सप्तमगः सप्तमगेन बहुष्वेकोऽवयवो अथान्त्यदशायामष्टमग्रहवशेन म्रियते तत्रार्केणाग्निना, चन्द्रमसा सलिलेन, भौमेन शस्त्रेण, बुधेन ज्वरेण, जीवेनामयेन, शुक्रेण तृष्णया, सौरेण क्षुधा, अष्टमं ग्रहरहितं यो ग्रहो बलवान्पश्यति
तद्धातुकायेन म्रियते अष्टमे ग्रहयोगदृग्रहिते द्वाविंशः द्रेष्काणाधिपतिकथितमृत्युना म्रियते ।
जन्मकाले यत्र स्थानेऽर्को व्यवस्थितस्तस्मात्स्थानात्तृतीयषष्ठदशमैकादशेषु भौमस्थानात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु बुधात्तृतीयपञ्चमषष्ठनवमदशैकादशद्वादशेषु जीवात्पञ्चमषष्ठ नवमैकादशेषु शुक्रात्षट्सप्तद्वादशेषु शनैश्चरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशैकादशेषु लग्नात्तृतीयचतुर्थषष्ठदशमैकादशद्वादशेषु चन्द्रार्क स्थानात्तृतीयसप्तमाष्टमदशमैकादशेषु स्वात्प्रथमतृतीयषष्ठसप्तमदशमैकादशेषु शुक्रात्तृतीयचतुर्थपञ्चमसप्तमनवमैकादशेषु भौमार्कात्तृतीयपञ्चमषष्ठ दशमैकादशेषु स्वात्प्रथमद्वितीयचतुर्थसप्तमाष्टमदशमैकादशेषु बुधात्तृतीयपञ्चमषष्ठदशमैकादशद्वादशेषु शुक्रात्षष्ठाष्टमैकादशद्वादशेषु सौरात्प्रथमचतुर्थसप्तमाष्टमदशमैकादशेषु लग्नात्प्रथमतृतीयषष्ठदशमैकादशेषु बुधार्कात्पञ्चमषष्ठाष्टमनवमैकादशेषु चन्द्राद्द्वितीयचतुर्थषष्ठाष्टमदशमैकादशेषु भौमात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमैकादशेषु स्वात्प्रथमतृतीयपञ्चमषष्ठनवमैकादशद्वादशेषु शुभः ।
जीवात्षष्ठाष्टमैकादशद्वादशेषु शुभः ।
शुक्रात्प्रथमतृतीयचतुर्थपञ्चमाष्टमनवमैकादशेषु सौरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु लग्नात्प्रथमद्वितीयचतुर्थषष्ठाष्टमदशमैकादशेषु जीवोऽर्कात्प्रथमद्वित्रिचतुर्थसप्तमाष्टमदशमैकादशेषु धर्माद्द्वितीयपञ्चमसप्तमनवमैकादशेषु भौमात्प्रथमद्वित्रिचतुःसप्ताष्टदशमैकादशेषु बुधात् प्रथमद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात् प्रथमद्वित्रिचतुःसप्ताष्टदशमैकादशेषु॥
शुक्राद्द्विपञ्चषण्णवदशैकादशेषु सौरात्त्रिपञ्चसप्तदशैकादशेषु लग्नात्प्रथमद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात्पञ्चाष्टनवमैकादशेषु स्वात्प्रथमद्विचतुःपंचाष्टनवमैकादशेषु सौरात्त्रिचतुःपञ्चाष्टनवमैकादशेषु लग्नात्प्रथम द्वित्रिचतुःपञ्चाष्टनवमैकादशेषु सौरोऽर्कात्प्रथमद्विचतुःसप्ताष्टदशमैकादशेषु चन्द्राद्द्विषडेकादशेषु भौमात्त्रिपञ्चषड्दशैकादशेषु बुधात्षष्ठनवदशैकादश द्वादशेषु जीवात्पञ्चषष्ठैकादशद्वादशेषु शुक्रात्षडेकादशद्वादशेषु स्वात्त्रिपञ्चषडेकादशेषु लग्नात्प्रथमद्विचतुर्दशमेषु येषु नोक्तः शुभस्तेषु सर्व एवाशुभो भवति ।
शुभाशुभविशेषश्च चारवशात्फलं प्रयच्छति दशाफलमव्यभिचारि अष्टवर्गफलमशुभं शान्त्यादिभिरुपहतं भवति चात्र-अनफासु नफास्थाने न शस्ते ग्रहवर्जिते॥
सर्वेषां चैव केन्द्राणां शून्यता न प्रशस्यते॥
कर्किणी च झषाणां च चरमोंऽशस्तथैव च॥
शत्रुक्षेत्रस्तथा नीचो ग्रहाणां गर्हणा स्थितिः॥
सूर्यमण्डलगाश्चैव न प्रशस्तास्तथा ग्रहाः॥
जन्मपो लग्नपश्चैव श्रेष्ठौ बलसमन्वितौ॥
तावेतौ विबलौ यस्य तमधन्यं विनिर्दिशेत्॥
एकोऽपि परमोच्चस्थो मित्रदृष्टस्तथा ग्रहः॥
जनयत्यवनीशत्वं शत्रुपक्षक्षयङ्करम्॥
अतीव स्वस्थो विज्ञेयः स्वोच्चे लग्नगते ग्रहः॥
भावमानं न प्रशस्तं तथा जन्मनि कीर्तितम्॥
चन्द्रः शस्तो हि विज्ञेयो दृष्टे क्षेत्राधिपेन तु॥
तं मित्रेण तथा ब्रह्मन् प्रशस्तं तदरातिभिः॥
चत्वारोऽपि यदा केन्द्रा युक्ताः स्वोच्चगतैर्ग्रहैः॥
तदा जातो विनिर्दिष्टः समस्तवसुधाधिपः॥
त्रयो वा तस्य यस्य स्युर्वशे पृथ्वी ससागरा॥
द्वौ तु केन्द्रगतौ यस्य ग्रहौ कर्किणि चन्द्रमाः॥
सोऽपि राजा विनिर्दिष्ट एकेनापि तथा द्विज॥
सर्वैस्तु परमोच्चस्थैस्त्रैलोक्याधिपतिर्भवेत्॥
मित्रक्षेत्रे तथात्मीये तथा वर्गोत्तमेष्वपि॥
स्वोच्चे वा स्वत्रिकोणे वा ग्रहाणां शस्यते स्थितिः॥
ग्रहाणां चतुरादीनां तथा योगो विगर्हितः॥
राजवंशे तथा भूपास्त्र्याद्यैः स्वस्वग्रहोपगैः॥
अन्यवंशभवा भूपाः पञ्चाढ्यैरपि च द्विज॥
त्रिकोणोच्चगतैरेव विशेषेण द्विजोत्तम॥
भावे विकारकाः सौम्याः पापा भावविनाशनाः॥
तृतीये च तथा षष्ठे दशमैकादशेऽपि च॥
स्थितिः पापग्रहाणां च प्रशस्ता परिकीर्तिता॥
षष्ठाः सर्वग्रहाः शस्ता न शस्ता द्वादशाष्टमाः॥
चन्द्रे लग्नगते मूर्खा विना वृषकुलीरके॥
सूर्ये लग्नगते ज्ञेयास्तथा जयबलाननाः॥
बलवद्ग्रहयुक्तैश्च विज्ञेया ईश(रूप)चेष्टितैः॥
चन्द्रद्युग्रा (पुष्पा) विशीलाश्च विज्ञातव्यास्तथैव च॥
पापाः पापबला ज्ञेयाः सौम्याः सौम्यबलास्तथा॥
चन्द्रादुपचयर्क्षस्थैर्ग्रहा ज्ञेया धनान्विताः॥
एतावदुक्तं सारं ते होरासंग्रहमुत्तमम्॥
इति श्रीवि० मा० व० सं० द्वि० ख० रामं प्रति पुष्करोपाख्याने जातकाध्यायो नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥१६७॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP