संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०८९

खण्डः २ - अध्यायः ०८९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत्॥
नान्यत्र धारयेत्प्राज्ञो बहिर्गन्धं न धारयेत् ॥१॥
यश्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव॥
कण्टकिभ्योऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ॥२॥
कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे॥
चन्दनेनानुलिप्तेन कुंकुमागुरुभिस्तथा ॥३॥
कर्पूरेण तथाङ्गानि शुभेन च प्रियङ्गुना॥
वस्त्रं नान्यधृतं धार्यं न रक्तं मलिनं तथा ॥४॥
जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः॥
उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ॥५॥
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः॥
व्यालैरदान्तैर्वाहैश्च न व्रजेच्च कदाचन ॥६
स्नानभोजनपानादि तेषामाद्यो न वाचरेत्॥
नैकः प्रपद्येदध्वानं नाधार्मिकसहायवान् ॥७॥
न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति॥
न चातिविषमे वाते सन्ध्ययोश्च तथा द्विज ॥८॥
नासन्निहितपाने वा न वेगान्न च सन्ततम्॥
सातपत्र पदत्राणः सोष्णीषश्च तथा चरेत् ॥९॥
चतुष्पथं न सः कुर्याद्विख्यातांश्च वनस्पतीन्॥
मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ॥१०॥
अमङ्गल्यानि वामानि कर्तव्यानि विजानता॥
वरस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ॥११॥
भाराक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः॥
व्यालयुद्धं न चेक्षेत विना विषममास्थितः ॥१२॥
न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि॥
तिरस्कृतं तु वस्त्रेण न कुद्धस्य गुरोर्मुखम् ॥१३॥
न स्त्रीं स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम्॥
न पत्नीं भोजनस्वप्नस्नानासक्तां विभूषणाम् ॥१४॥
नाञ्जयन्तीं स्वके नेत्रे नाश्लीलं किञ्चिदेव तु॥
नानास्थानं न पश्येच्च न पश्येच्च महानसम् ॥१५॥
जलाशयतटस्थांश्च न पश्येत्तु कदाचन॥
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥१६॥
व्यालैरदान्तैर्वाहैश्च न व्रजेत्तु कदाचन॥
स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥१७॥
चतुष्पथस्तुषाङ्गारशन्यवेश्माटवीस्तथा ॥१८॥
कार्पासास्थि तथा भस्म नाक्रमेद्यश्च कुत्सितम्॥
अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ॥१९॥
नारोहेद्विषमां नावं न वृक्षं न च पर्वतम्॥
न लोष्टेन न काष्ठेन नाश्मना च फलद्रुमान् ॥२०॥
न पातयेन्न कुर्वीत सर्वत्र च कुतूहलम्॥
अर्थायतनशास्त्रेषु सर्वत्र स्यात्कुतूहली ॥२१॥
दण्डेन करपातैर्वा न कुर्यादम्बुवादनम्॥
तृणच्छेदं न कुर्वीत न च लोष्टाभिमर्दनम् ॥२२॥
नखानां भक्षणं चैव दन्तानां कुट्टनं तथा॥
छेदनं च नखैर्लोम्नां वृथा चेष्टां विवर्जयेत् ॥२३॥
मुखाङ्गवादनं चैव क्ष्वेडोत्क्रुष्टं तथा वृथा॥
अवगुंठ्य शिरो रात्रौ न शयीत कदाचन ॥२४॥
पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम्॥
नाद्वारेण पशुगृहे नाद्वारेण रिपोर्गृहम् ॥२५॥
प्रविशेन्न च तिष्ठेच्च निद्रितं न च बोधयेत्॥
नाक्षिपेत्परवाक्यं तु न च रक्तं विरागयेत् ॥२६॥
कथाभङ्गं न कुर्वीत न च वासोविपर्ययम्॥
नोर्ध्वजानुश्चिरं तिष्ठेदुत्पतन्तीं न लंघयेत् ॥२७॥
परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम्॥
नाचक्षीत तथान्यस्य शक्रचापं न दर्शयेत् ॥२८॥
भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्तयेत्क्वचित्॥
पालाशमासनं वर्ज्यं पादपीठं च पादुके ॥२९॥
सुरार्चा गुरुभूपानां ब्राह्मणानां विशेषतः॥
नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव ॥३०॥
द्विजयोश्चैव दम्पत्योर्भूपयोर्युध्यमानयोः॥
अग्निब्राह्मणयोश्चैव द्विजभूपालयोस्तथा ॥३१॥
शिष्योपाध्याययोश्चैव न च मध्ये न पूज्ययोः॥
तैले जले तथा वक्त्रमादर्शे च मलान्विते ॥३२॥
न पश्येन्न तथा पश्येदुपरक्तं दिवाकरम्॥
नोच्छिष्टस्तारकाराहुः स्तुतिनाशं हुताशनम् ॥३३॥
न तिष्ठेत्प्रतिवातं च तथा च प्रतिभास्करम्॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥३४॥
रोदनं च तथा नग्नः कुर्यात्तोयावगाहनम्॥
निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा ॥३५॥
न प्रशंसेन्नदी तोये नदीमन्यां कथंचन॥
न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम् ॥३६॥
असंतर्प्य पितुर्देयं नदीपारं न च व्रजेत्॥
भोजनं वर्जयेन्नावि ष्ठीवनं च तथांभसि ॥३७॥
नैवाप्सु प्रक्षिपेद्विद्वानमेध्यं रुधिरं विषम्॥
समाल्यो नाचरेत्स्नानं न द्विवासा विकारणम् ॥३८॥
आत्मनश्च तथा राम नैव त्वपनयेत्स्रजम्॥
स्नातः शिरो नावधुनेन्नांगेभ्यस्तोयमुद्धरेत् ॥३९॥
तद्दिने चानुलिप्तांगं तथा स्नानं विवर्जयेत्॥
शिरःस्नातश्च तैलेन स्पृशेदंगं न किञ्चन ॥४०॥
वाससा वामभागस्य रजसा पूर्ववाससा॥
संमार्जनं रजोवर्ज्यः खराश्वादेस्तथैव च ॥४१॥
मेध्यानि च तथा राम गोगजाश्वरजांसि च॥
नाधः कुर्वीत दहनं न च पादौ प्रतापयेत् ॥४२॥
दर्भैर्न मार्जयेत्पादौ न च कांस्ये प्रधापयेत्॥
गोगजाश्वाजपुच्छेषु खरस्य च विशेषतः ॥४३॥
यल्लग्नमुदकं तस्माद्विप्रुषो दूरतस्त्यजेत्॥
अकस्मादप्यशस्तास्ताः खञ्जांगस्पर्शनं तथा ॥४४॥
हीनं वा न वहेद्राम श्रुतरूपधनादिभिः॥
हीनैर्न च वसेत्सार्धं न देशे वैद्यवर्जिते ॥४५॥
न भूपालविहीने च न सांवत्सरवर्जिते॥
दुष्टकूपान्विते राम तथा च बहुनायके ॥४६॥
स्त्रीनायके बालपतौ शूद्रराज्ये तथैव च॥
म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च ॥४७॥
चण्डालैः पतितैर्म्लेच्छैर्भाषणं न कदाचन॥
नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम् ॥४८॥
नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम्॥
गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम् ॥४९॥
प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत्॥
नानुकूल्यं तथा कार्यमिन्द्रियाणां सुखेप्सुना ॥५०॥
युक्त्या च कामसेवी स्यान्नाकस्मान्निःसुखी भवेत्॥
वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः ॥५१॥
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि भार्गव॥
स्नात्वा भुक्त्वा च धर्मज्ञ भक्तिकामः सुरार्चने ॥५२॥
मलायनानां संस्पर्शे मलानां चैव भार्गव॥
वाससश्च परीधाने रथ्याचंक्रमणे तथा ॥५३॥
आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः॥
न हुंकुर्याच्छिवं पूज्यं बिभृयान्नाग्निचारिणीम् ॥५४॥
न भुक्तमात्रं प्रायस्येन्नीचसेवां विवर्जयेत्॥
पादेन नाक्रमेत्पादं न कण्डूयेन्न शौचयेत् ॥५५॥
वर्जयेच्छवधूमं च गिरं चाश्लीलसंयुताम्॥
प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत् ॥५६॥
वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत्॥
नास्तिक्यमनृतं चैव चेतसो दूषणं तथा ॥५७॥
स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत्॥
लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ॥५८॥
सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा॥
नमस्कारं च देवानां सर्वेषामेव कारयेत् ॥५९॥
सर्वेषां चरितं राम धर्मतो न विकुत्सयेत्॥
न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः ॥६०॥
धर्मस्यार्थस्य कामस्य पीडावर्ज्या परस्परम्॥
देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च ॥६१॥
आचरेत्सदृशं वेषं व्यवसायानुरूपतः॥
स्नात एवाशु बिभृयात्सोष्णीषे धौतवाससी ॥६२॥
अनुलिप्येत्तथांगानि सितं माल्यं च धारयेत्॥
नासंस्कृतं च बिभृयात्काञ्चनं पुरुषोत्तम ॥६३॥
निराशनस्य सुप्तस्य शयानस्य तथैव च॥
तथा भुक्तवतो राम स्नातस्य भाषितस्य च ॥६४॥
यात्रायुद्धोत्सुकस्यापि श्मश्रुकर्म विवर्जयेत्॥
वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा ॥६५॥
वायव्यमिन्द्रिकं पौष्णं शाक्रमाश्विनमेव च॥
मैत्रादित्ये तथा पुष्यः शंखचक्रगणं भवेत् ॥६६॥
नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः॥
अर्कार्किभौमवाराश्च रिक्ताश्च तिथयस्तथा ॥६७॥
प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि॥
वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च ॥६८॥
जन्मनक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः॥
पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥६९॥
श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम्॥
वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः ॥७०॥
सुराणामर्चनं कार्यं केशवस्य विशेषतः॥
समं स्वलंकृतस्तिष्ठेच्छिरस्नातश्च मानवः ॥७१॥
निर्मलानि च कार्याणि दन्तकेशनखानि च॥
अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ॥७२॥
शिरोभ्यङ्गं न कुर्वीत पर्वसन्धौ तथैव च॥
तथैवामलकस्नानं सप्तमीषु विवर्जयेत् ॥७३॥
विना तु सततं स्नानं न स्नायाद्दशमीषु च॥
अमावस्यां सुरार्चासु नववस्त्रं न धारयेत् ॥७४॥
न च भौमदिने राम तेष्वनक्तेषु चाप्यथ॥
सावित्र रौहिणं मैत्रमादित्यं तिष्यमाश्विनम् ॥७५॥
उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम्॥
इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दिशेत् ॥७६॥
नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः॥
परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ॥७७॥
केशग्रहान्प्रहारांश्च शिरस्येतां तथैव च॥
दूरादावसन्थामूत्रं पूरीषं च समुत्सजेत् ॥७८॥
पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत्॥
सर्वमेतत्त्यजेत्प्राज्ञो येन स्यादरिमर्दनम् ॥७९ ॥
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत्॥
तथैकमनसा कार्यं देवतानां च पूजनम् ॥८०॥
वह्निसंपूजनं चैव न चास्नातेन भार्गव॥
माल्यानुलेपनादीनि न प्रपद्यात्तु कस्यचित् ॥८१॥
अन्ये च देवताविप्रगुरूणां भृगुनन्दन॥
कोविदारगणाशाकं चतुर्थी पिप्पली तथा ॥८२॥
वर्जये --न्मांसं सुखार्थी सर्वमेव तु॥
राजद्विष्टं न कर्तव्यं विरोधं च महाजनैः॥८३॥
शुष्कवैरं विवादं च प्रयत्नेन विवर्जयेत्॥
न वसेच्च तथा वासं वास्तुविद्याविगर्हितम्॥८४॥
आगाराद्याखुघातां च परोच्छिष्टां तथैव च॥
ऊषराच्चैव वल्मीकान्मृदं शौचे विवर्जयेत्॥८५॥
येनेच्छेद्विपुलां प्रीतिं तेन सार्धमरिन्दम॥
न कुर्यादर्थसंबन्धं दारसंदर्शनं तथा॥८६॥
आत्माभिष्टवनं निन्दां परस्य च विवर्जयेत्॥
दृढभक्तो भवेन्नित्यं कृतज्ञश्च विशेषतः॥८७॥
इन्द्रियाणां जये योगमातिष्ठेच्च सदा नरः॥
इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात्॥८८॥
अभिगत्वा तु धर्मज्ञो योगक्षेमार्थमीश्वरम्॥
गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः॥८९॥
अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत्॥
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥९०॥
यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः॥
ऋचमेकां च योध्येति समौ स्यातां न चाधिकः॥
स्वाध्यायाऽनन्तरं स्नातः कृतजप्यः समाहितः॥९१॥
संपूजनं देववरस्य कुर्यात्तस्याप्रमेयस्य जनार्दनस्य॥
संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रमवाप्नुवन्ति ॥९२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोध्यायः ॥८९

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP