संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५५८

कृतयुगसन्तानः - अध्यायः ५५८

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! महादेवेन भाषितम् ।
पार्वत्यै नार्मदं चान्यत् तीर्थं तत् कथयामि ते ॥१॥
.मत्स्यायाश्च तथा ताप्याः संगमो मोक्षदायकः ।
कलहंसाभिधः पूर्वं देवर्षिर्ध्यानतत्परः ॥२॥
तत्र कृत्वाऽऽश्रमं रम्यं तपस्तेपे सुदारुणम् ।
शाकमूलफलाहारो ह्यतिष्ठत्त्वेकपादतः ॥३॥
शिवध्यानपरस्याऽस्य तपसा देवराट् स्वयम् ।
भीतो ब्राह्मणरूपेण वञ्चयितुं समाययौ ॥४॥
उवाच कलहंस! त्वं किमर्थं कुरुषे तपः ।
ऋषिः प्राह कथं चेन्द्र! मां विडम्बयसे द्विजम् ॥५॥
जानामि त्वां तुराषाढं नेन्द्रराज्यं प्रकामये ।
आराधयाम्यहं शंभुं कुरु राज्यं यथेप्सितम् ॥६॥
इन्द्रः प्राह वरं विप्र! वृणु द्रक्ष्यसि शंकरम् ।
कलहंसस्तदोवाच नान्यं वरं वृणोम्यहम् ॥७॥
शंभौ भक्तिः सदा मे स्यादिति शक्तोऽसि देहि चेत् ।
तथाऽस्त्विति सुरेशश्च ययावुक्त्वा त्रिविष्टपम् ॥८॥
शंकरस्तु द्रुतं तत्र साक्षात् हसन् समाययौ ।
कलहंसो नमश्चक्रे स्तोतुं समुपचक्रमे ॥९॥
नमो भक्तकृपायुक्त महादेव नमोऽस्तु ते ।
नमः शिवाय भक्तानामिष्टप्रदाय ते नमः ॥१०॥
भवसागरमग्नानामुद्धारकाय ते नमः ।
परब्रह्मस्वरूपाय वैष्णवाग्र्याय ते नमः ॥११॥
ओं नमः श्रीकृष्णनारायणात्मकाय ते नमः ।
पार्वतीपतये प्रभास्वामिदेवाय ते नमः ॥१२॥
नारायणीशरूपाय जयाध्यक्षाय ते नमः ।
सर्वबीजस्वरूपाय कारणाय नमो नमः ॥१३॥
शंभुः स्तोत्रं शुभं श्रूत्वा वरं वृणु जगाद तम् ।
कलहंसेश्वरं तीर्थं वव्रे च ऋषिसत्तमः ॥१४॥
तत्र प्राणैर्वियुक्तानां मोक्षं वव्रे शुभं वरम् ।
शंभुः प्राह तथैवाऽस्तु चान्ते मुक्तिस्तवाऽस्तु च ॥१५॥
अन्तर्धानं ययावुक्त्वा कलहंसोऽपि सर्वथा ।
भजित्वा नार्मदं तीर्थं चान्ते ब्रह्मपदं ययौ ॥१६॥
मत्स्यातापीसंगमे तत्कलहंसं सुतीर्थकम् ।
पापघ्नं स्वर्गदं मोक्षप्रदं वर्तत ऐश्वरम् ॥१७॥
अन्यत् तीर्थ बृहत्याश्च नर्मदायाश्च संगमः ।
विन्ध्यपर्वतशोभाढ्यं विद्यते तापसाश्रितम् ॥१८॥
रक्तधर्माभिधः कश्चिन्निषादस्तत्र चाययौ ।
भरणायात्मवर्गस्य वन्यकन्दफलादिभिः ॥१९॥
प्रातः स रेवासलिलं शिवाय वै समाहरत् ।
अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ ॥२०॥
अथोत्तरायणे प्राप्ते पुपूज कुसुमैः सदा ।
बिल्वादि चार्पयामास शंकराय स भावतः ॥२१॥
निषादः स ददर्शैकस्मिन् दिने शंकरं गृहे ।
तृतीयमीक्षणं तत्र मूर्तेर्नैव स पश्यति ॥२२॥
तदा तु चिन्तयामास केनाऽप्यपहृतं हि तत् ।
विचार्य वामनेत्रं स्वं तीक्ष्णबाणेन तत्क्षणम् ॥२३॥
ललाटे देवदेवस्य समुत्कृत्य न्यवेदयत् ।
न कम्पो न च कार्पण्यं न विषादो न देवनम् ॥२४॥
तेन तुष्टो महादेवो निषादं प्राह संहसन् ।
वरं वृणु महाभक्त यदिष्टं मनसेप्सितम् ॥२५॥
निषादो वचनं श्रुत्वा साष्टांगं प्रणिपत्य च ।
वरं वव्रे निषादास्तु सर्वे पक्षिगणैः सह ॥२६॥
सपुत्रदारपशवो ये चान्ये पापदेहिनः ।
त्वत्प्रसादाद्वरदानान्मुक्तिलोकं प्रयान्तु ते ॥२७॥
एवं वरं वृणे योग्यं भूतानां मोक्षकाम्यया ।
शंभुः श्रुत्वा प्रसन्नः सन्नुवाचाऽस्तु तथा वरः ॥२८॥
सर्वसंकल्पकामाप्तिं मत्प्रसादात् त्वमाप्स्यसि ।
सर्वे मुक्तिं प्रयास्यन्ति यथा संकल्पितं त्वया ॥२९॥
इत्युक्त्वा स महादेवस्तत्रैवाऽन्तरधीयत ।
ततः काले विमानस्थो निषादोऽनुचरादिभिः ॥३०॥
धृतस्वर्णातपत्रस्तु वीज्यमानोऽप्सरोगणैः ।
दिव्याभरणवस्त्राढ्यो दिव्यचन्दनपूजितः ॥३१॥
पशुपक्षिगणैः साकं ययौ मुक्तिपदं यतः ।
तदिदं कथितं हैमि! शिवनेत्रह्रदात्मकम् ॥३२॥
तीर्थं वै पावनं सर्वस्मृद्धिदं मुक्तिदं तथा ।
अथाऽन्यत्परमं तीर्थं नार्मदे चोत्तरे तटे ॥३३॥
विद्यते क्रतवो यत्र तीर्थयात्रागतेन च ।
जनकेन कृतास्तत्र दक्षिणातोषिता द्विजाः ॥३४॥
धर्मराजस्तथा चाऽन्ये दिशां पालाः समाययुः ।
धर्मराजो जनकं संप्राहार्घादि ददन् नृपम् ॥३५॥
तपसा ध्यानयोगेन दानदेवार्चनैरपि ।
शिवरेवाप्रसादेन जिता लोकास्त्वयाऽखिलाः ॥३६॥
जनको धर्मराजं च पप्रच्छ विनयेन वै ।
के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के ॥३७॥
कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः ।
न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः ॥३८॥
धर्मः प्राह शृणु राजन् शंकरस्य मुखाच्छ्रुतम् ।
कल्माषपादो राजाऽऽसीन्माथुरे मण्डले पुरा ॥३९॥
नाभागाख्यश्च राजाऽऽसीत् साकेतमण्डले पुरा ।
नाभागस्य विमानं तु व्योम्नि चोपरि गच्छति ॥४०॥
कल्माषपादयानं तु भूतले याति नाऽम्बरे ।
इति हेतोः शिवं नत्वा कल्माषपादभूपतिः ॥४१॥
पप्रच्छ शृण्वतां सर्वगणानां संशयं स्वकम् ।
पुष्करे दशयज्ञाश्च विधत्ताश्च मया हर! ॥४२॥
गंगायां नैमिषारण्ये प्रभासे शशिभूषणे ।
प्रयागराजे काश्यां च प्रत्येके शतकं तथा ॥४३॥
इष्टं साग्रं क्रतूनां तु मया तत्र महेश्वर ।
अधो याति विमानं मे नाभागस्याऽम्बरोपरि ॥४४॥
कथमेवं न्यूनता मे पुण्येऽहं येन निम्नगः ।
शंभुः प्राह तदा तं वै कल्माषपादभूपतिम् ॥४५॥
लक्षमेधं नामतीर्थं रेवाया उत्तरे तटे ।
शंकरो लक्षमेधेशो राजते तत्र नित्यशः ॥४६॥
चकार तत्र नाभागो यज्ञमेकं सुवैष्णवम् ।
तेन पुण्येन यानं वै नाभागस्याऽम्बरे स्थितम् ॥४७॥
त्वया रेवातटे नैव यज्ञः कृतो महाफलः ।
तेन निम्नप्रदेशे ते विमानं याति नाऽम्बरे ॥४८॥
नर्मदायाः परं तीर्थं ततो नैव हि विद्यते ।
इति श्रुत्वा च कल्माषचरणो नृपतिस्ततः ॥४९॥
प्रययौ नर्मदातीरं दशयज्ञान् चकार ह ।
वैष्णवं चाथ रौद्रं च वाजिमेधं च वै क्रतुम् ॥५०॥
कारीरिं वाजपेयं च विश्वजितं महाक्रतुम् ।
पुण्डरीकं नरमेधं गोमेधं वैश्वदैवतम् ॥५१॥
एवं यज्ञाँश्चकाराऽयं ज्ञानयज्ञं तथा पुनः ।
लक्ष्मीनारायणसंहितायज्ञं प्रचकार सः ॥५२॥
ततो यानं स्वयं व्योम्नि समुत्थाय समूर्ध्वगम् ।
यथाकामं सत्यलोकं वैकुण्ठं च ययौ ततः ॥५३॥
नाभागस्य विमानाद्वै ह्युपर्युपरि याति तत् ।
एवं कल्माषपादो वै कृत्वा ब्रह्मसमर्पणम् ॥५४॥
जीवद्देहेन वैकुण्ठं गन्तुं योग्योऽभवत्ततः ।
यस्य क्रतौ स्वयं विष्णुर्लक्ष्म्या साकमुपस्थितः ॥५५॥
विष्णुना चार्पिता माला दिव्या कण्ठेऽस्य भूभृतः ।
तेन योगेन वैकुण्ठं यात्यायाति क्वचित् क्वचित् ॥५६॥
एवं राजा समर्थोऽभूत् श्रीविष्णोः सम्प्रसादतः ।
तत्तीर्थं जानकं चान्यत् काल्माषपादिकं तथा ॥५७॥
विद्यते नर्मदाकूले पावनं मोक्षदं परम् ।
अथाऽन्यद् विद्यते रम्यं सप्तसारस्वतं शुभम् ॥५८॥
सप्तसारस्वतो नाम गन्धर्वः शिवकिंकरः ।
कैलासे गायनं कृत्वा प्रययौ रैवताचलम् ॥५९॥
विनाऽऽज्ञां शंकरस्याऽथ त्वाययौ सुचिरेण सः ।
नन्दी शशाप तं कोपाद् व्रज चाण्डालतां क्षितौ ॥६०॥
नर्मदायां व्यतिपाते स्नात्वा यास्यसि मोक्षताम् ।
इत्येवं स तु गान्धर्वश्चाण्डालयोनितां गतः ॥६१॥
जातिस्मरोऽभवत् पृथ्व्यां बभ्राम नार्मदे तटे ।
स्नात्वा रेवाजले शंभुं पूजयित्वा विधानतः ॥६२॥
चाण्डालयोनिसम्मुक्तो गान्धर्वतां ययौ पुनः ।
सप्तसारस्वतं तीर्थं मोक्षदं तत्प्रकीर्तितम् ॥६३॥
नर्मदादक्षिणे तीरे त्वशोकवनिकासु च ।
अशोकजननाख्यं सत्तीर्थं त्वपरमुत्तमम् ॥६४॥
अघमर्षऋषेस्तत्राश्रमो ब्राह्मणशोभितः ।
ऋषयो यत्र ब्रह्मिष्ठा विचिन्वन्ति प्रमोक्षणम् ॥६५॥
अघमर्षाश्रमं धर्मो वैश्यरूपेण चाऽऽगमत् ।
जिज्ञासार्थं कीदृशा वै ऋषयोऽत्र वसन्ति नु ॥६६॥
स वैश्योऽत्र तपश्चक्रे ब्राह्मणातिशयं ततः ।
ब्राह्मणेभ्यः स प्रददौ मृगचर्माणि सर्वशः ॥६७॥
कौपीनानि तथा भिक्षां ततो नाशिकमाययौ ।
वर्षमेकं व्यतीतं च वैश्यस्य तापसैः सह ॥६८॥
न भोगो न च कार्पण्यं न मानो न च मत्सरः ।
न दोषा द्वेषरागाद्या जितं सर्वं विशा ततः ॥६९॥
सप्तसारस्वतं तीर्थं नार्मदं त्वागमद्धि सः ।
स्नात्वा पुपूज विष्णुं श्रीकृष्णनारायणं हरिम् ॥७०॥
तथा शंभुं बाणरूपं पूजयामास सादरम् ।
हरिः प्रत्यक्षतां प्राप्य प्राह त्वं वृष एव यः ॥७१॥
तथापि सिद्धतां प्राप्तस्तपसा च विशेषतः ।
इदं विमानमारुह्य दिव्यभोगसुखं कुरु ॥७२॥
पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज ।
धर्मः प्राह तदा विष्णो! ऋषयो नर्मदातटे ॥७३॥
अत्र दशसहस्राणि विद्यन्ते ये तपोधनाः ।
ते सर्वे मम तपसा विष्णुलोकं प्रयान्तु वै ॥७४॥
इमं वरमहं मन्ये श्रीहरेरेव नान्यतः ।
श्रुत्वैवं ऋषयः सर्वे साऽभिमानाऽहमान्विताः ॥७५॥
तिरश्चक्रुर्हि तं वैश्यं प्रोचुश्चापि परस्परम् ।
महतां भूसुराणां वै वैश्यः करोति लाघवम् ॥७६॥
वैश्यस्य तपसा विप्रा याता वैकुण्ठमित्यपि ।
लोके दर्शयितुं सोऽयं वरं वृणोति शाठ्यतः ॥७७॥
वैश्यस्य श्रेष्ठतां लोके ज्ञापयन् स वृणोति हि ।
न वयं तपसा तस्य गच्छामो वै दिवं प्रति ॥७८॥
ब्राह्मणस्याऽवमानेन वैश्योऽयं व तरिष्यति ।
इत्युक्त्वा ऋषयस्तं च वैश्यं प्राह प्रयाहि भोः ॥७९॥
वैश्यधर्मं गृहाणापि कृषिं कुरु गृहे स्थितः ।
न योग्यस्त्वं तपः कर्तुं जात्यभिमानवानसि ॥८०॥
गच्छ गच्छ गृहं मा चाऽऽयाहि त्वं वै द्विजान्तिकम् ।
इत्युक्तः स द्विजान् दृष्ट्वा साभिमानक्रुधान्वितान् ॥८१॥
विमुक्तनामकं विप्रं प्रजगाद स कर्षुकः ।
ब्राह्मणानां परो धर्मः क्रोधाभावः प्रशान्तता ॥८२॥
अहंममताराहित्यं तद्वान् यः स च भूसुरः ।
क्रोधाहंममतायुक्तो ब्राह्मणो नैव विद्यते ॥८३॥
तादृशस्य तपः सर्वं श्राद्धं वाऽपि च निष्फलम् ।
दैवतैरपि दुर्ज्ञेयो गहनो जातिनिर्णयः ॥८४॥
ब्रह्मकर्मसमाचारं वैश्यं ब्राह्मणमुच्यते ।
व्रह्मकर्मविहीनं च विप्रं वैश्यं समुच्यते ॥८५॥
निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम् ।
द्विजं विवादशूरं च दूरतः परिवर्जयेत् ॥८६॥
इत्युक्त्वा वैश्यवर्यः स विरराम क्षणं ततः ।
विप्राः पप्रच्छुरेनं त्वं कोऽसि वैश्यस्वरूपधृक् ॥८७॥
वैश्यः प्राह च धर्मोऽस्मि परीक्षार्थं समागतः ।
कीदृशा ब्राह्मणा यूयं नर्मदातटवासिनः ॥८८॥
अहंममते विसृज्य तपः कुरुत चोत्तमम् ।
रोषं तु सर्वथा त्यक्त्वा भजध्वं परमेश्वरम् ॥८९॥
एवं व्रह्मव्रतेनाऽत्र यूयं मुक्तिं गमिष्यथ ।
अथ ते शमयामासुर्धर्माद् दोषान्निजाँस्ततः ॥९०॥
धर्मं प्रपूजयामासुर्निर्दोषाः ऋषयोऽभवन् ।
अथ दिव्यविमानानि त्वागतानि वृषान्तिके ॥९१॥
वृषाज्ञया हि ते सर्वे समारुह्याऽघमर्षणः ।
अपि धर्मेण सार्धं च विष्णुना रमया सह ॥९२॥
सप्तसारस्वतं नत्वा ययुर्वैकुण्ठमेव च ।
श्रवणात्पठनाच्चापि भुक्तिमुक्तिप्रदं हि तत् ॥९३॥
इत्युक्त्वा शंकरो देव्यै विरराम च पद्मजे! ।
मया तुभ्यं परं तीर्थं सप्तसारस्वतात्मकम् ॥९४॥
कथितं मुक्तिदं मोक्षप्रदं स्नातुर्विशेषतः ।
अनेकयज्ञफलदं पुत्रदारधनप्रदम् ॥९५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मत्स्यातापी संगम-कलहंसेश बृहतीनर्मदासंगमशिवनेत्रहृद-लक्षमेधःसप्तसारस्वतादितीर्थानि सेतिहासचमत्कारभूतानि निरूपितानीतिनामाऽष्टपञ्चाशदधिकपञ्चशततमोऽध्यायः ॥५५८॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP