संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३२३

कृतयुगसन्तानः - अध्यायः ३२३

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
नारायण हरे स्वामिन् परमात्मन् परात्पर ।
कृष्णनारायण विष्णोऽन्तर्यामिन् परमेश्वर ॥१॥
पुरुषोत्तम चात्मेश प्राणेश प्रिय मानद ।
यदुक्ता भवता धर्मपत्न्यः सन्ति त्रयोदश ॥२॥
कास्ताः कस्मात् कदा कुत्र समुत्पन्नाश्च हेतुना ।
केन कार्यं च किं तासां वद वक्तव्यमेव चेत् ॥३॥
तारिता पाविता कीर्तिं गमिताऽहं कृपालुना ।
श्रावयित्वा कथां देव्यां पुरुषोत्तमयोगिनीम् ॥४॥
धर्मपत्नीस्मरणार्थं विस्तराद् वद नाथ मे ।
स्वर्गमोक्षप्रदा दिव्यां कथां वै धर्मयोषिताम् ॥५॥
श्रीनारायण उवाच---
शृणु लक्ष्मि! धर्मपत्नीनां कथां मोक्षदां शुभाम् ।
सृष्ट्यादौ खलु संजातां कथयामि निबोध मे ॥६॥
अक्षरे तु परे धाम्नि वर्तते पुरुषोत्तमः ।
तस्मिन् दिव्या शक्तयश्च सन्ति शतसहस्रशः ॥७॥
तदैकोऽहं बहु प्रजायेयेति कल्पना व्यधात् ।
नित्यो दिव्यगुणाः शक्त्यात्मका मूर्तास्तदाऽभवन् ॥८॥
श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः समुन्नतिः ।
क्रिया बुद्धिश्च मेधा च तितिक्षा ह्रीश्च द्वादश ॥९॥
मूर्तिश्चेत्यधिका भक्तिनाम्ना तत्र सदोच्यते ।
एता हरेः स्वरूपाद्वै जज्ञिरे शक्तयः स्त्रियः ॥१०॥
नित्या हरावपि छाया भवन्ति लोकमुक्तये ।
द्वितीयरूपमाधाय वसन्ति जीवजातिषु ॥११॥
यदा ता रूपयुक्ताश्च संभूता ब्रह्मरूपतः ।
तदा ताः प्रार्थयत् कृष्णनारायणं पुमुत्तमम् ॥१२॥
वयं भवतः संकल्पाद् यतो हुताः स्म केशव ।
समूर्ताश्च भवन्मूर्तिमय्य स्मो नान्यगा यतः ॥१३॥
आज्ञापय यथायोग्यं कार्यमस्मादृश प्रभो ।
इति चाभ्यर्थितः कृष्णनारायणः परेश्वरः ॥१४॥
विचार्य प्राह ताः सर्वाः छायारूपा भवन्तु वै ।
छायात्मकानि यान्यत्र रूपाणि वो भवन्ति वै ॥१५॥
तानि सर्वाणि सृष्टौ तु देहिषु विचरन्त्विति ।
इत्याशां श्रीहरेः प्राप्य सृष्टौ जाता गुणात्मिका ॥१६॥
व्यापिकाः शक्तयस्तास्तु श्रोहरेरिच्छयाऽभवन् ।
किन्त्वसुरेषु दैत्येषु दानवेषु च सर्वथा ॥१७॥
सुखं तासामभवन्न तामसानां गृहेषु च ।
ततः सर्वा मिलित्वैव ययुः श्रीबदरीवनम् ॥१८॥
तपस्तेपुरतिरौद्रं परमेश्वरवाञ्च्छया ।
गंगातीरं समासाद्य निर्जलाहारतः स्थिताः ॥१९॥
सहस्रवर्षपर्यन्तं पुरुषोत्तममानसाः ।
आविरासीत्तदा कृष्णनारायणः स्वः प्रभुः ॥२०॥
प्राह ताः किं कथं चेदृक् तप्यते दारुणं तपः ।
भवतीनां तपश्चर्याप्रभावेणाऽस्मि वर्धितः ॥२१॥
मद्गुणाः शक्तयो मे च मम वृद्धिपरायणाः ।
मत्पुष्टिदाः सुखदाश्च भवत्यः सन्ति सर्वथा ॥२२॥
साहाय्यार्थं भवतीनां समायातोऽस्मि वै यतः ।
निवेदयन्त्वभिमतं तपोभिश्च किमिष्यते ॥२३॥
इत्यावेद्य हरिस्तत्र क्षणं मौनं स्थितस्ततः ।
ऊचुस्ताः शक्तयः सर्वाः प्रभो! दानवदैत्यके ॥२४॥
आसुरेषु सुखं नैव भवत्यस्माकमीश्वर! ।
अधर्मस्य निवासेन वयं तत्र हि दुःखिताः ॥२५॥
तत आकृष्य भगवन् कुरु नः सुखिता सदा ।
हरिः प्राह तदा तास्तु विचिन्त्य क्षणमात्रतः ॥२ ६॥
पुरुषोत्तममासान्तदिवसस्य व्रतं महत् ।
कुरुताऽत्र देवनदीतीरे स्वेष्टं भविष्यति ॥२७॥
इत्युक्त्वाऽन्तर्हितो देवः तापस्यश्च यदा पुनः ।
समयोऽधिकमासस्य ह्यायातस्तास्तदन्तिमे ॥२८॥
दिवसे पूजनं कृष्णनारायणस्य वस्तुभिः ।
भावैश्च विविधैः सर्वाश्चक्रुः पुष्पाक्षतादिभिः ॥२९॥
सायं प्राविर्बभूवात्र भगवान् पुरुषोत्तमः ।
वरं वृणुत वो देव्यो यथेष्टं दातुमागतः ॥३०॥
चकिताश्च तदा ताश्च वव्रिरे धर्मरक्षणम् ।
धर्माश्रिता वयं कृष्ण रक्षिताः स्याम सर्वथा ॥३१॥
त्वया रक्षा प्रकर्तव्या सदा श्रीपुरुषोत्तम ।
इति श्रुत्वा हरिः प्राह तथास्त्विति पुनस्ततः ॥३२॥
प्राह ताः शक्तयः सर्वा यान्तु दक्षगृहं शुभाः ।
असिक्नी पुत्रिकाः सन्तु भवतीनां ततः पिता ॥३३॥
दक्षो दास्यति धर्माय पत्न्यर्थं वै त्रयोदश ।
तैरेव नामभिः ख्याता भविष्यथ यथायथम् ॥३४॥
ततोऽहं मूर्तितो ब्रह्मचर्यधर्मो हरिः स्वयम् ।
नारायणो नरसखा चोत्पत्स्ये बदरीवने ॥३५॥
भवतीनां अधर्माणां करिष्ये रक्षणं सदा ।
इत्युक्त्वा प्रययौ कृष्णनारायणो विलीनताम् ॥३६॥
ताश्च तपः परित्यज्याऽसिक्न्यां प्रविविशुस्तदा ।
दक्षसंकल्पमात्रात् ताः कन्यका अभवँस्तदा ॥३७॥
जातमात्रा युवत्यश्च सुन्दर्यो वरणाऽर्हणाः ।
जातिस्मराः सुरूपाश्च धर्मार्थं कृतविग्रहाः ॥३८॥
धर्मकांक्षावतीर्दृष्ट्वा धर्मार्थं कृतनिश्चयः ।
दक्षः प्रतीक्षते धर्मयोगस्य समयं शुभम् ॥३९॥
तावत् तीर्थनिमित्तेन बदर्याश्रममार्गगम् ।
दक्षगृहं समालोक्य धर्मो विश्रान्तये क्षणम् ॥४०॥
ययौ दक्षगृहं ज्ञात्वाऽतिथिसत्कारशोभितम् ।
ब्रह्मपुत्रं भ्रातरं च ज्ञात्वा स्मृत्वा विशेषतः ॥४१॥
दक्षो दृष्ट्वाऽतिसन्तुष्टश्चातिथ्यं विदधे बहु ।
ददौ सम्पूज्य ताः सर्वा धर्माय तु त्रयोदश ॥४२॥
पुत्र्यो विवाहविधिना कृतकृत्योऽभवत्तदा ।
धर्मोऽपि ताः समादाय ययौ बदरिकाश्रमम् ॥४३॥
गंगा पीत्वा जले स्नात्वा धर्मारण्यं जगाम ह ।
नारायणो नरसखा धर्मे संप्रविवेश ह ॥४४॥
पत्नीभिः सहितो धर्मो जगाम वत्सरान्तरे ।
तीर्थानि संविधायैव सर्वाणि बदरीवनम् ॥४५॥
तत्र कृष्णेच्छया साक्षात् नरनारायणावुभौ ।
मूर्तेस्तु तपसा जातौ पुरुषोत्तमसद्व्रतात् ॥४६॥
धर्मपुत्रौ मूर्तिपुत्रौ जातमात्रौ महत्तमौ ।
युवानौ भगवन्तौ तौ ब्रह्मचर्यपरौ सदा ॥४७॥
तापसौ लोककल्याणकरौ प्राविर्बभूवतुः ।
श्रद्धायामथ धर्मस्य कामः पुत्रो बभूव ह ॥४८॥
कामः संकल्प इत्युक्तो धर्मपुण्यप्रभाववान् ।
संकल्पस्य सुतो जातो व्यवसायाऽभिधानकः ॥४९॥
मैत्री स्नेहं विजज्ञे चोपकारं सुषुवे दया ।
शान्तिः क्षेमं सुतं जज्ञे सन्तोषस्तुष्टिजः सुतः ॥५०॥
पुष्ट्या लाभः सुतो ह्युन्नतेस्तु चाभ्युदयः सुतः ।
क्रियायां तु नयः पुत्रो दण्डः समय इत्यपि ॥५१॥
बुद्धेर्बोधः सुतश्चापि ह्यप्रमादश्च तावुभौ ।
मेधापुत्रौ शुभश्रुतौ तितिक्षाया विरामकः ॥५२॥
ह्रियाः पुत्रो नियमश्च मूर्तेर्नरनरायणौ ।
कृष्णहरीति चत्वारो धर्मवंशो हि बद्रिके ॥५३॥
वर्तते स्म सुखं लक्ष्मि! सेवानुसेवने रतम् ।
अथ वै वेधसो लोके सत्ये ब्रह्मसभास्थले ॥५४॥
पुरुषोत्तममासान्ते पुरुषोत्तमपूजनम् ।
उत्सवेन च महता संभारैर्बहुकोटिभिः ॥५५॥
कृतं देवर्षिमुनिभिर्मानवैश्चान्यजातिभिः ।
बहुभक्त्याऽति भावैश्च सर्वस्वार्पणपूर्वकम् ॥५६॥
तेन धर्मश्च तत्पत्न्यः पुत्राश्च पुरुषोत्तमः ।
प्रसन्नाः संबभूवुश्चासीम तोषमुपागताः ॥५७॥
निशीथेऽमादिवसान्ते पूजा नीरोजनोत्तरम् ।
तद्भक्तेभ्यो व्रतिभ्यश्च दर्शनं दातुमिच्छवः ॥५८॥
समाजग्मुरदृश्यास्ते व्योम्नि गीत्युपलक्षिताः ।
पुरुषोत्तमभक्तानां मध्ये त्वाविर्बभूव ह ॥५९॥
सहसा तेजसां पुंजः स च द्राग्व्याप चाम्बरे ।
कोटिकोटीन्दुसदृशं घनीभूतं च तन्महः ॥६०॥
प्रादुर्भूतमथ स्थैर्यं प्राप विद्योतयद् दिशः ।
स्वरा ग्रामा मूर्छनाश्च नादाश्चासन्मनोहराः ॥६१॥
तदा तत्र च पश्यत्सु सुराद्येषु मनोहरा ।
युवत्यदृश्यतैका स्त्री दिव्यरूपा मनःप्रिया ॥६२॥
दिव्यकौसुंभवसना दिव्यालंकारशोभिता ।
रूपानुरूपसौन्दर्या प्रसन्ना स्वर्णसूज्ज्वला ॥६३॥
सर्वशृंगारशोभाढ्या सर्वाऽऽभरणभूषिता ।
केशभारधृतपुष्पा सुस्मितभ्रूविलासिनी ॥६४॥
निर्मलाऽम्बरसंवीता काञ्चीनूपुरभूषिता ।
मनांसि मोहयमाना लावण्येनापि योषिताम् ॥६५॥
विपञ्चीं वादयमाना सख्याऽनुपूरितस्वरा ।
गीत्यैव मानहन्त्री च गन्धर्वाप्सरसामपि ॥६६॥
अन्याश्च द्वादश नार्यो गानं नारायणस्य ह ।
चक्रुः सतालमानं वै हरन्त्यो मानसान्यपि ॥६७॥
तासां पुत्राश्च सुदिव्याः प्रसन्नाः कृतगायनाः ।
सवादित्राश्च तन्मध्ये कृष्णनारायणो हरिः ॥६८॥
अधिमासस्तथा राधालक्ष्म्याद्या दिव्ययोषितः ।
सर्वेऽदृश्यन्त तत्रैव सभायां वेधसो गृहे ॥६९॥
अक्षराधिपतिः कृष्णोऽनादिः श्रीपुरुषोत्तमः ।
आशीर्वादान् वदन् देवोऽदृश्यत पद्मलोचनः ॥७०॥
चतुर्हस्तो धर्मदेवोऽदृश्यत श्वेतभास्वरः ।
वेदवाक्यैर्वदन् भक्तान् दर्शयँश्च प्रसन्नताम् ॥७१॥
ब्रह्मादयश्च तान् दृष्ट्वा चात्यद्भुतं तदा विदुः ।
मुग्धास्तु क्षणमात्रं ते हृष्टाश्चातिमुदा च तान् ॥७२॥
नेमुः कृष्णं विदित्वैव तथा श्रीपुरुषोत्तमम् ।
राधालक्ष्म्यादिकाश्चापि धर्मं मूर्तिं सुताँस्तथा ॥७३॥
श्रद्धादिकास्तथा नत्वा तुष्टुवुः परमादरात् ।
नारायण! नमस्तुभ्यं नारायण्यै नमोनमः ॥७४॥
धर्मदेव नमस्तुभ्यं धार्मिकेभ्यो नमोनमः ।
श्रद्धादिभ्यो नमश्चास्तु नमोऽस्तु भक्तिमूर्तये ॥७५॥
राधारमादिशक्तिभ्यो नमः पुमुत्तमाय च ।
उद्धरणाय लोकानामस्माकं तु विशेषतः ॥७६॥
दर्शनं दत्तवन्तः स्थ यूयं वै परमेश्वराः ।
कृतार्थाः स्म कृता देवा अथ युष्माभिरत्र वै ॥७७॥
कृपां कृत्वा निदेशश्चेज्ज्ञातव्यश्चोपदिश्यताम् ।
श्रुत्वोवाच तदा देवान् ब्रह्मादीन् पुरुषोत्तमः ॥७८॥
पुरुषोत्तममासेऽत्र भवद्भिर्लोकनायकैः ।
प्रजाभिश्च मम भक्तिः कृताऽस्मिन्पुरुषोत्तमे ॥७९॥
धर्मः कृतस्तथाऽत्यर्थे श्रद्धाद्याः पोषितास्तथा ।
सकुटुम्बः पोषितोऽहं भूत्वा दातुं स्वदर्शनम् ॥८०॥
समागतोऽस्मि कृपया भद्रं वोऽस्तु महत्तमम् ।
नान्यथा दर्शनं मे स्यात्प्रत्यक्षं योगिनामपि ॥८१॥
वरं वृणुत तुष्टोऽस्मि यूयं मत्स्वाभिवाञ्च्छितम् ।
इति कृपावचः श्रुत्वा प्रणेमुश्चक्रुरर्चनम् ॥८२॥
वव्रुश्चास्मद्धृदयेषु वसन्तु सर्वदा तथा ।
रक्षन्त्वस्मान् निदेशस्थान् पाहि कार्ये गुरो सदा ॥८३॥
भक्तान् स्वधामं दिव्यं त्वं निष्कामान्नय माधव ।
सकामान् पूरय स्वेष्टं कृपां वर्षय वर्षय ॥८४॥
इति स्तुत्वा विरेमुस्ते तथास्त्वित्याह केशवः ।
सकुटुम्बो वरं दत्वा ब्रह्मादिभ्यः पुमुत्तमः ॥८५॥
तिरोबभूव सहसा त्वाश्चर्यं जनयद्धरिः ।
एवं भगवता तेन स्वभक्तानां मनोरथाः ॥८६॥
पूर्यन्ते सकला लक्ष्मि! रक्ष्यन्ते तु क्षणे क्षणे ।
पुरुषोत्तमभक्तानां नानवाप्यं हि विद्यते ॥८७॥
यः पठेच्छृणुयाच्चैतत्पुरुषोत्तमतोषणम् ।
तस्य सर्वमनःकामान् पूरयिष्यति वै हरिः ॥८८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मदेवस्य तत्पत्नीनां तत्पुत्राणां च प्राविर्भावस्ततो ब्रह्मादिकृतपुरुषोत्तममासव्रतेन प्रसन्नश्रीहरिणा सकुटुम्बेन ब्रह्मादिभ्यो दर्शनं वरदानं च दत्तमित्यादिनिरूपणनामा त्रयो-विंशत्यधिकत्रिशततमोऽध्यायः ॥३२३॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP