संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १४६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि ममाश्चर्यकरं वामनदर्शनम् ।विलक्षणं तु सर्वेभ्यो दृष्ट्वा जातं कुतूहलम् ॥१॥महान् कोलाहलो जातः कश्चिद्ध्रस्वः समागतः ।रूपेण तेजसा विष्णुसमो देहेन छद्मकृत् ॥२॥ब्राह्मणैर्बहुभिः सार्धं वेदानुच्चारयन् स्थितः ।प्रविष्टैर्दैत्यबालैः स दैत्याय विनिवेदितः ॥३॥द्रष्टुं समागतोऽयं वै ब्राह्मणो वामनोऽध्वरम् ।बलिर्हृष्टोऽब्रव्रीद्वाक्यं मम भाग्योदयो ह्ययम् ॥४॥निरीहो वामनो देवो याचते नैव किंचन ।पूजयिष्यामि विप्रेन्द्रं दास्ये चास्य यदीप्सितम् ॥५॥अभ्यागतः स्वयं विष्णुस्तस्मै देयं यदिच्छति ।किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् ॥६॥पात्रं सत्यं समागत्य बलिमुद्धारयिष्यति ।यज्ञे प्रवर्तमाने तु दातव्या दक्षिणा मया ॥७॥सहस्रपूरकश्चायं यज्ञो मेऽन्तिम एव वै ।सर्वस्वमत्र दातव्यं याचकेभ्योऽविचार्य यत् ॥८॥इन्द्रपदप्रलाभाय शतं तु क्रतवो मताः ।पारमेष्ठिपदलाभः सहस्रक्रतुभिर्भवेत् ॥९॥तस्मादयं महायज्ञो मा भून्नकारसंकरः ।दातव्यमेव दातव्यं दातव्यं सर्वथैव हि ॥१०॥नकारो नैव वक्तव्यो देहस्त्र्यपत्यवस्तुषु ।धन्योऽस्मि कृतकृत्योऽस्मि सफलं मम जीवितम् ॥११॥पूजयामास विधिना निवेश्य कुसुमासने ।प्रणिपत्य नमस्कृत्वा प्राह गद्गदया गिरा ॥१२॥त्वां समभ्यर्च्य विप्रेन्द्र किं करोमि तव प्रियम् ।आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तम ॥१३॥तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ।ह्रस्वः प्रहृष्टमनसा तमुवाच महीपतिम् ॥१४॥अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।मम त्रिविक्रममितां पृथ्वीं त्वं दातुमर्हसि ॥१५॥सर्वेषामेव दानानां भूमिदानं महोत्तमम् ।यो ददाति महीं राजन् विप्रायाऽकिंचनाय वै ॥१६॥अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः ।न भूमिदानसदृशं पोषकं चेह विद्यते ॥१७॥भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥१८॥तस्माद् भूमिं महाराज प्रयच्छ त्रिपदीं मम ।एतामल्पां महीं दातुं मा विशंक महीपते ॥१९॥जगत्त्रयप्रदानेन नाम भूप भविष्यति ।ततः प्रहृष्टहृदयस्तथेत्याह महीपतिः ॥२०॥तस्मै महीप्रदानं तु कर्तुं मेने विधानतः ।तावत्तस्य गुरुः शुक्रो वारयामास तं बलिम् ॥२१॥अन्यद्वै दीयतां दान मा राजन् दीयतां मही ।किन्त्वन्यच्छ्रूयतां राजन्नकार्यं क्रियते त्वया ॥२२॥बहिः पूज्या द्विजा ये स्युर्दीनान्धकृपणादयः ।बधिरा वामनाः कुब्जा वृक्णा रुग्णाश्च निष्ठुराः ॥२२॥क्रतुकुण्डान्तिके नैव खाण्डास्तेऽर्हन्ति पूजनम् ।सुवर्णरजतैर्वस्त्रैर्वामनः पूज्यता बहिः ॥२४॥चतुर्णां तु वृथा जन्म वृथा दानानि षोडश ।अपुत्राणां वृथा जन्म ह्यधर्मिणां वृथा जनिः ॥२५॥पराऽन्निनां वृथा जन्म परस्त्रैणी वृथाजनिः ।व्यर्थमब्राह्मणे दानमनूढे पतिते तथा ॥२६॥सन्ध्याहीननामविप्रे कुटिले तस्करे तथा ।गुरोश्चाऽप्रीतिजनके पितृमातृपराङ्मुखे ॥२७॥ब्रह्मबन्धौ कृतघ्ने च वेदविक्रयिणि तथा ।स्वग्रामयाचके स्त्रीनिर्जिते च वृषलीपतौ ॥२८॥व्यालग्राहे निन्दके च वृथादानानि षोडश ।अत्रान्तरे बलिर्ब्रूते नैवं वाच्यं त्वया गुरो ॥२९॥वेदानधीते यः कश्चित् स मे विष्णुसमो मतः ।न विलम्बस्तु कर्तव्यः श्रोत्रिये गृहमागते ॥३०॥अभ्युत्थानेन वचसा पादप्रक्षालनेन च ।यथाशक्त्या प्रदातव्यं भोजनं गृहमेधिना ॥३१॥अपूजितो यदा याति वामनो यज्ञमण्डपात् ।तदाऽयं व्यर्थतां याति यज्ञः सर्वस्वदक्षिणः ॥३२॥तस्मादेनं द्विजं छन्नं वामनं विष्णुरूपिणम् ।प्रकाशमानं वपुषा पिंगलं सूर्यसन्निभम् ॥३३॥यथेष्टं तस्य दास्ये वै राज्यं किं न समिच्छति ।धन्योऽहं यस्य मे यज्ञे प्राप्तो विष्णुसमो द्विजः ॥३४॥इति कृत्वा ददौ तस्मै षोडशोपचराणि वै ।मधुपर्कं च गां तस्मै सत्वरं स न्यवेदयत् ॥३५॥आघ्राय मधुपर्कं च गौर्ह्रस्वेन नमस्कृता ।यज्ञं यज्ञगतान् सर्वान्नमस्कृत्य च वामनः ॥३६॥अहमर्थी समायातो दीयतां वद किं बले ।वासार्थं मम दैत्येन्द्र दयितां मे क्रमत्रयम् ॥३७॥विधाय कुटिकां दिव्यां शिष्यानध्यापयाम्यहम् ।दत्तं क्रमत्रयं तुभ्यं गृहीतं वामनोऽब्रवीत् ॥३८॥मा देहीत्यवदच्छुक्रो विष्णुरेषः सनातनः ।बलिः प्राह तदा शुक्रं पात्रं स्यात् किमतः परम् ॥३९॥सव्यं कृत्वा बलिर्दर्भान् साक्षतान् दक्षिणे करे ।प्रयोगं न गुरुश्चक्रे न मुंचति जलं करे ॥४०॥सभासदश्च होतारो विस्मिता ऋषयस्तथा ।विप्राः सुरास्तथा लोका दैत्यास्तस्य कुटुम्बिनः ॥४१॥दत्तं गृहीतमित्युक्ते कस्मात्तोयं न मुञ्चति ।वामनाय करे तोयं कल्याणाय प्रदीयते ॥४२॥यद् दानं वचसा दत्तं कर्मणा नोपपद्यते ।दातारं निरये क्षिप्त्वा तत्कुटुम्बं निकृन्तति ॥४३॥उशनाः प्राह दैत्येन्द्रं वामनो हरिरित्ययम् ।एष विष्णुः परेशोऽथ देवैः सम्प्रार्थितो हरिः ॥४४॥केनापि दैवयोगेन त्वां द्रष्टुं समुपागतः ।वञ्चयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः ॥४५॥अप्रियं वा प्रियं वापि न जाने किं करिष्यति ।तस्मान्मही न दातव्या तस्मै राजन्महात्मने ॥४६॥अन्यमर्थं समादत्स्व वचनान्मम भूपते ।ततः प्रहस्य राजाऽसौ तं गुरुं प्राह धैर्यतः ॥४७॥जानाम्यहं दैवबलाद् विष्णोरनुग्रहात्तथा ।यज्ञस्तु पूर्णतां चेयाद् द्विजैः पूर्णो भवत्यपि ॥४८॥अहमिन्द्रो द्विजो विष्णुर्द्रव्यमादित्यदेवता ।तत्कथं न मया देयं विष्णवे प्रीयतामिति ॥४९॥इत्युक्त्वा स ददौ तोयं वामनाय करे बलिः ।हां हां हां किमिदं राजन् क्रियते योग्यमेव न ॥५०॥इत्युच्चार्य तदा शुक्रः संस्थितो मण्डपाद्बहिः ।प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया ॥५१॥अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवाऽऽगतो यदि ।तस्य प्रदेयमेवाऽद्य जीवितं च महासुखम् ॥५२॥तस्मादस्मै प्रयच्छामि त्रिलोकीमपि च ध्रुवम् ।परिणीय नमस्कृत्य पादौ प्रक्षाल्य भक्तितः ॥५३॥चरणामृतमेवाऽऽस्ये बलिना मूर्ध्नि च धृतम् ।प्रहृष्टेनात्मना तेन दत्वा वै दक्षिणं वसु ॥५४॥धन्योऽस्मि कृतकृत्योऽस्मि प्राह दत्वा महीं तदा ।यथेष्टं तव विप्रेन्द्र तद्गृहाण महीमिमाम् ॥५५॥अपि चेदिच्छसि राज्यं स्वर्णं वा हीरकादिकम् ।नैकधानि च रत्नानि दासदासीशतानि च ॥५६॥गोधनं च तदन्यच्च प्रासादा भवनानि च ।साधनानि विमानानि ददामीच्छसि चेद् यदि ॥५७॥अहं वा राजपत्नी मे पुत्रपौत्रादिकं च यत् ।सर्वं ददामि देवेश त्वदर्थं मम यद् भवेत् ॥५८॥अनन्तजन्मतपसा नाऽऽप्यतेऽपि परः पुमान् ।कृपया स यदि प्राप्तः किं मे दाराधनादिभिः ॥५९॥इत्युच्चार्य बलिर्भक्तोऽलुंठद् वामनपादयोः ।वामनः प्राह भक्तेन्द्र सर्वं पदत्रये स्थितम् ॥६०॥तव भक्त्या प्रसन्नोऽस्मि राजँस्तव समीपतः ।मापयामि पदेनाऽद्य पृथिवीं तव पश्यतः ॥६१॥इत्युक्त्वा बटुरूपं तद् विहाय परमेश्वरः ।ववृधे वामनोऽतीव कृत्वा रूपं चतुर्भुजम् ॥६२॥वर्धमानं हरिं दृष्ट्वा ब्राह्मणाः ऋषयः सुराः ।तुष्टुवुर्गगने जातं भगवन्तं जनार्दनम् ॥६३॥जय विष्णो जय विष्णो जय भक्तकृपाकर ।जय ह्रस्व जय दीर्घ जय भिक्षुक वामन ॥६४॥जय देवकृपाकर्तृ जय भक्तस्य गोचर ।जय यज्ञ जय हव्य जय वह्ने जयाऽच्युत ॥६५॥जयाऽर्थिन् दातृ नेतृ त्वं जय ब्रह्माण्डकृद्वपुः ।जय मत्स्य नमस्तुभ्यं जय कूर्म धराधर ॥६६॥जय वाराहरूपधृक् नृसिंहाय नमोऽस्तु ते ।जय कृष्ण जय श्रीमन्नारायण नमोऽस्तु ते ॥६७॥नमः कृष्णाय कम्भरागोपालाय नमो नमः ।नमः पत्नीव्रताख्याय लक्ष्मीनाथाय ते नमः ॥६८॥वर्णितं बहुधा शास्त्रे दृष्टं नैव कदापि यत् ।दृश्यतेऽद्य कृपालेशाच्चतुर्दशधरास्थितैः ॥६९॥वैराजं ते महद्रूपं दृष्ट्वा हृष्टाः स्म तारिताः ।योगिनः सनकाद्या ये ते स्तुवन्ति जनार्दनम् ॥७०॥गगनार्धं गते कृष्णे वर्धमाने बलेः पुरः ।ऊर्ध्ववक्त्राः स्थिताः सर्वे निरीक्षन्ते दिवं गतम् ॥७१॥छत्रं यष्टिर्मृगचर्म कमण्डलुश्च पादुके ।यद् यदभूद्धरेरग्रे सर्वं वै ववृधे सह ॥७२॥दृष्टच्छत्राकृतिस्तावत् पश्चादूर्ध्वगतो हरिः ।चूडामणिरिवाऽऽभाति भास्करो हरिमस्तके ॥७३॥ततः पुनर्ववृधेऽथ ललाटे तिलकायते ।अथापि वर्धितो हरिः सूर्यः स कुण्डलायते ॥७४॥उच्चैर्गतो हरिस्तस्मात् सूर्यः स कौस्तुभायते ।अग्रे गत्वा महेन्द्रेण वनमाला गलेऽर्पिता ॥७५॥पृथिवी कम्पते भारात् स्वर्गस्थं ग्रहमण्डलम् ।नाशमेष्यति दैत्यास्ते भीताः पश्यन्ति वामनम् ॥७६॥अथापि ववृधे कृष्णो नाभौ पद्मायते रविः ।पञ्चाशत्कोटिविस्तीर्णां ससमुद्रमहीधराम् ॥७७॥ससागरां सद्वीपां च सदेवासुरमानुषाम् ।पादेनैकेन पुरुषो जग्राह मधुसूदनः ॥७८॥तत्पदं पृथिवीं सर्वामाक्रम्य पद्मजे शुभे ।अतिरिक्तं समभवच्छतयोजनमायतम् ॥७९॥दिव्यं चक्षुर्ददौ तस्मै दैत्येशाय सनातनः ।तद्विश्वरूपं देवस्य दृष्ट्वा दैत्योश्वरो बलिः ॥८०॥प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः ।दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥८१॥प्राह गद्गदया वाचा प्रहृष्टेनाऽन्तरात्मना ।धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम् ॥८२॥लोकत्रयं त्वमेवैतद् गृहाण परमेश्वर ।अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमच्युतम् ॥८३॥ऊर्ध्वं प्रसारयामास ब्रह्मलोकान्तमच्युतः ।पादो न परिपूर्णोऽभूदच्युतस्य शुभानने ॥८४॥वेगेनोत्क्षिप्य हरिणा नीतो ब्रह्माण्डमस्तके ।ब्रह्माण्डं जर्जरं जातं पादांगुष्ठाभिधातनात् ॥८५॥भिन्नं चास्मिन् समायातं बाह्यं तोयं जगत्त्रये ।विष्णुपादोद्भवा गंगा तत्स्थानात् प्रसृता तदा ॥८६॥पितामहो हरेः पादं चक्रपद्मादिचिह्नितम् ।ज्ञात्वा कमण्डलुं भृत्वा ततस्तज्जलवारिभिः ॥८७॥मुहुः प्रक्षालयामास श्रीहरेश्चरणाम्बुजम् ।तत् तोयमक्षय्यमेव जातं कृष्णप्रभावतः ॥८८॥तत्तीर्थं मेरुशिखरे पपात सलिलं शुभम् ।जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम् ॥८९॥पूर्वे सीता दक्षिणे साऽलकनन्देति कीर्तिता ।पश्चिमे चक्षुरित्याख्या भद्राख्या चोत्तरे मता ॥९०॥तत्र चालकनन्दापि त्रिधा नाम्नाऽभवत् तदा ।ऊर्ध्वे मन्दाकिनी प्रोक्ता मध्ये गंगा प्रकीर्तिता ॥९१॥पाताले सा यदा प्राप्ता ह्यजो भोगवती मता ।स्वर्धुनी प्रोच्यते स्वर्गे गंगा तु गां गता सती ॥९२॥पाताले तु गता साऽभून्नाम्ना त्रिपथगाऽपि च ।सेविता पूजिता दृष्टा स्पष्टा पीताऽवगाहिता ॥९३॥प्रज्वाल्य सर्वपापानि मुक्तिं ददाति देहिने ।तां दृष्ट्वा मेरुमध्यात्तु प्रस्रवन्तीं शुभानने ॥९४॥अतिवेगप्रवाहैश्च पतन्तीं धारयेत्तु कः ।महाप्रवाहवेगं भूर्दृष्ट्वा भीता विदारणात् ॥९५॥प्रार्थयामास शंभुं तां धारयितुं जटावने ।आत्मनः पावनार्थाय मूर्ध्ना शंभुरधारयत् ॥९६॥दिव्यवर्षसहस्रं सा जटायामेव संस्थिता ।ततो भागीरथी राजा गौतमश्च महातपाः ॥९७॥प्रसाद्य तपसया शंभुं गंगार्थं समयाचत ।सर्वलोकहितार्थाय ताभ्यां दत्ता तु शंभुना ॥९८॥गौतमेन समानीता गौतमीति प्रकीर्तिता ।भगीरथेन चायाता भागीरथीति चोच्यते ॥९९॥जह्नुना पीयमाना सा जानोश्च प्रकटीकृता ।जाह्नवीति समाख्याता समुद्रान्ता हि पावनी ॥१००॥कपिलस्याऽऽश्रमे दग्धान् सगरस्यात्मजान् बहून् ।उद्धारयित्वा षष्टिसाहस्रानब्धाववापतत् ॥१०१॥एवं वृद्धिं गतो विष्णुर्जगृहे च पदद्वयम् ।स्थानं नास्ति तृतीयस्य ब्रह्माण्डं सकलं हृतम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वामनस्य यज्ञस्थले प्रवेशः, भूमियाचना, शुक्रकृन्निषेधेऽपि त्रिपदभूमिदानं, वामनवर्धनं, द्वितीयपदेनाऽण्डकटाहाद् गंगोद्भव इत्यादिनिरूपणनामा षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP