संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३७४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७४ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! तथा शच्याः पातिव्रत्यं दृढं यथा ।चतुर्दशसु चेन्द्रेषु ह्यागतेषु गतेषु च ॥१॥तेष्वेव पातिव्रत्यं वै त्विन्द्राण्या आस सर्वथा ।एकदा तु समायातो बृहस्पतिर्हि संसदि ॥२॥महेन्द्रस्य च देवानामाशीर्वादपरायणः ।इन्द्रो दर्पात् सभायां तु रत्नसिंहासनद्वरात् ॥३॥नोत्तस्थौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठं वै बृहस्पतिम् ।अन्ये सभासदाः सर्वे समुत्तस्थुर्ववन्दिरे ॥४॥तानाशिषः संप्रयुज्य महेन्द्रं समुपेक्ष्य च ।गुरुर्जगामाऽतिरुष्टः स्वाऽपमाने समत्सरः ॥५॥न शशाप महाज्ञानी धैर्यमालम्ब्य धार्मिकः ।विना शापेनेन्द्रगर्वश्चूर्णीभूतो बभूव ह ॥६॥सकिल्बिषं सापराधं न शपेच्चेन्महाजनः ।अपराधस्तं फलति धर्मो हन्त्यपराधिनम् ॥७॥यदि हिंस्रं सापराधे शपेत् कोपेन धार्मिकः ।सापराधो विनश्येत्तु धार्मिकः क्रोधवान् भवेत् ॥८॥क्रोधितस्य कृतं सर्वं पुण्यं नश्यति मूलतः ।तस्मात् क्रोधो न कर्तव्यः कुत्रचिच्छ्रेय इच्छता ॥९॥सापराधेऽपि वै जन्तौ क्षमा रक्ष्या सुपुण्यदा ।क्षमाशीलस्य सद्धर्मः स्वयं करोति रक्षणम् ॥१०॥अवमानाद् गुरोरेव ब्राह्मणस्य तपस्विनः ।ब्रह्महत्यासमं पापं जायते त्वपराधिनः ॥११॥प्रतिष्ठितस्य हननं त्वपमानं प्रकीर्त्यते ।तेनाऽधर्मेण शक्रस्य ब्रह्महत्या बभूव ह ॥१२॥सा तु पापात्मिका चेन्द्रं ववल्गे मस्तके तदा ।प्रमत्त इव संजात उन्मत्त इव भान्तिमान् ॥१२॥भीतश्चेन्द्रपदं त्यक्त्वा प्रययौ पुष्करं सरः ।तत्र वै कामले सूत्रे चक्रे वासं निगूढवत् ॥१४॥राज्यं रिक्तं तदा ज्ञात्वा देवाश्च मुनयोऽखिलाः ।नहुषं नाम राजर्षिं चक्रुस्त्विन्द्रप्रधानकम् ॥१५॥इन्द्रासनस्य पार्श्वस्थो नहुषो नाम भूपतिः ।इन्द्रसत्ताप्रतिरूपां सत्तामासाद्य चेन्द्रवत् ॥१६॥राज्यं संचालयत्येव चतुर्दशभुवां तदा ।क्वचित्कदाचिदिन्द्रस्य त्वर्धासनेऽपि तिष्ठति ॥१७॥इन्द्रस्य भवने चापि याने वाट्यां च वाहने ।उद्याने याति नहुषो विहरप्यपि गर्वतः ॥१८॥दृष्ट्वा शचीं वरारोहामनपत्यां च सुन्दरीम् ।नवयौवनशोभाढ्यां बहुरूपसमन्विताम् ॥१९॥सुकोमलां च सुदतीमनिन्द्रे शोकवासिताम् ।महासतीं महाराज्ञीं पतिशून्यां मनोहराम् ॥२०॥मूर्छा सम्प्राप नहुषः कामेन यौवनेन च ।उवाच तां पुरः स्थित्वा विनयेन स्वकामिव ॥२१॥धातुर्गतिर्विचित्राऽहो न बोध्या सा सतामपि ।पारमेष्ठ्यं क्षणं चैन्द्रं क्षणं सर्वत्र बुद्ध्यते ॥२२॥यौवनं च क्षणं राज्ञि! भज मामिन्द्रसन्निभम् ।त्वादृशीं स्त्रीं परित्यज्य कथमिन्द्रो महेश्वरः ॥२३॥नराणां योषिति गन्ताऽहल्यायां चेटिकास्त्रियाम् ।ईदृशी सुन्दरी यस्य परभार्यासु तन्मनः ॥२४॥नैतदाश्चर्यमत्राऽस्ति कामो वाञ्च्छति नूतनाम् ।अस्या अग्रे तु का रंभा कोर्वशी का तिलोत्तमा ॥२५॥का वा मेना घृताची वा रत्नमाला कलावती ।एताश्चाप्सरसश्चान्या नैतत्तुल्या भवन्ति वै ॥२६॥इति प्रशंस्य नहुषो मां भजस्वाऽऽह भावतः ।अहमिन्द्रपदं प्राप्तः पूर्वेन्द्रोऽदृश्यतां गतः ॥२७॥ततो भव त्वं सौभाग्या मे वक्षसि सुखालया ।लीलया च सहस्रेन्द्रान् जेतुं शक्तोऽहमीश्वरः ॥२८॥मां गृहीत्वा कुरु रतिं पुष्पचन्दनचर्चितम् ।ब्रह्मणस्तु वरैर्देवि! जरामृत्युविवर्जितम् ॥२९॥मां कुरुष्व पतिं भद्रे नित्यसुस्थिरयौवनम् ।न मे स्पृहा परस्त्रीषु त्वां दृष्ट्वा लोलुपं मनः ॥३०॥तत्रापीन्द्रो भवाम्यद्य त्वं च पत्नी निसर्गतः ।भाविनी मे भव चाद्य प्रार्थिता न प्रसह्य वै ॥३१॥इत्येवमुक्त्वा नहुषो जिज्ञासति तदुत्तरम् ।उवाच तं शची साध्वी दासं नृपं तु मानवम् ॥३२॥शृणु राजन्! न्याययुक्तं पातिव्रत्यं सदा मम ।ब्रह्मणा निर्मिता चाहं यावदिन्द्राश्चतुर्दश ॥३३॥चतुर्दशानामिन्द्राणां पत्नी भवामि वै क्रमात् ।चतुर्दशसु मध्ये त्वं नाऽसि वै गणितः खलु ॥३४॥तस्मान्न त्वं पतित्वे मे योग्यश्चासि कथंचन ।मानवोऽसि महाराज! देव्यहं च ततोऽपि वै ॥३५॥नाऽहं योग्या तव पत्नी न देवी मानुषं भजेत् ।शृणु त्वन्यन्महाराज! महेन्द्रपदमेव यत् ॥३६॥भवते नाऽर्पितं देवैः कार्यमात्रं समर्पितम् ।न त्विन्द्रत्वं चार्पितं ते भृत्यत्वं ते समर्पितम् ॥३७॥इन्द्रानुपस्थितौ कार्यमिन्द्रस्य कुरु तद्यथा ।प्रधानसत्तया कार्यमात्रं तुभ्यं समर्पितम् ॥३८॥नेन्द्राणी नाऽऽसनं नैव भवनं नेन्द्रता तथा ।मुनिभिस्त्वर्पिता तुभ्यं मा वृथा गर्वमावह ॥३९॥शृणु त्वन्यन्महाराज! प्रजापालनधर्मवान् ।गण्यते तु पितातुल्यस्त्वं यातः पितृतुल्यताम् ॥४०॥देवानां पितृता त्विन्द्रे राजत्वेन विराजते ।तथा त्वयि समापन्ना पितृता मादृशीं प्रति ॥४१॥नाऽहं विवाहिता तेऽस्मि न त्वदर्थं प्रकल्पिता ।न हि तस्मात् तव भोग्या वृथा मां माऽऽग्रहं कुरु ॥४२॥किं च राजन्! शृणु तत्त्वं पूर्वेन्द्रे विगते सति ।पूर्वं देहं सतीरूपं दग्ध्वा दधामि नूतनम् ॥४३॥एवं त्रयोदशकृत्वः करोमि नूतनां तनूम् ।गृह्णामि त्वपरं चेन्द्रं तेनाऽस्मि संपतिव्रता ॥४४॥त्वं राजँश्चेत् समर्थोऽसि त्यज देहं हि मानुषम् ।गृहाण नूतनं दैवं ततश्चैन्द्रपदं पुनः ॥४५॥चतुर्दशसु गणनां लभ देवर्षिसंसदि ।पश्चाद् ब्रह्मादिभिर्दत्ता स्यां भवामि तव प्रिया ॥४६॥नान्यथा भामिनी तेऽस्मि नाऽस्मि भोग्या कथंचन ।यावदिन्द्रः सासुरस्ति प्रोषितः पुष्करेऽब्जके ॥४७॥त्वं चासि कर्मभूमेर्वै राजा न तु दिवः पुनः ।भयत्राता भवेद् राजा सर्वोषां पालकः पिता ॥४८॥भ्रष्टश्रीश्च महेन्द्रोऽद्य गुरोः कोपाद् भुवं गतः ।त्वं तु कार्ये योजितोऽसि प्रजानां हि पिता यथा ॥४९॥कार्यभारे योजितोऽसि नेन्द्राणी योजिता त्वयि ।पूर्वराज्ञः पृथिव्यां वै योऽन्यः राजाऽभिषिच्यते ॥५०॥स तत्पुत्रस्तस्य शिष्य इति पृथ्व्यां प्रसिद्ध्यति ।पूर्वभूपस्य या पत्नी राजमाता हि गण्यते ॥५१॥नूतनस्य तु राज्ञश्च पत्नी राज्ञीति गण्यते ।इति रीत्या महाराज! राजमाता भवामि ते ॥५२॥न राज्ञी ते भवाम्येवं ज्ञात्वा मा लालसां कुरु ।गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः ॥५३॥पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली ।पितृपत्नी भ्रातृपत्नी श्वश्रूश्च भगिनी सुता ॥५४॥गर्भधात्रीष्टदेवी च पुंसः षोडशमातरः ।त्वं नरो देवभार्याऽहं माता ते सर्वथाऽस्मि वै ॥५५॥गच्छ वत्साऽदितिं रन्तुं यदि चेच्छसि मातरम् ।सर्वोषां निष्कृतिस्त्वस्ति न वत्स मातृगामिनाम् ॥५६॥कुंभीपाके प्रपच्यन्ते यावत्ते ब्रह्मणो वयः ।ततो भवन्ति कृमयः कल्पाः सप्त ततः परम् ॥५७॥कुष्ठिम्लेच्छाः सप्तजनौ ततः पाप प्रणश्यति ।किं राजँस्ते मनो याति मातृयोनौ वदाऽत्र मे ॥५८॥सन्त्येहाऽप्सरसो बह्व्यो यदि देवीः प्रवाञ्छसि ।क्लेदेषु च मलाढ्येषु दुर्गन्धिनिलयेषु च ॥५९॥सुबहुष्वनुभूतेषु तथापि हृदि वासना ।सदृशेषु कथं तेऽस्ति स्त्रीभगेष्वत्र मां वद ॥६०॥कुलप्रदीपे स्वर्गेशे त्वयि जाते सुधर्मिणि ।कथमिच्छसि राजेन्द्र! मूत्रगूह्यं परस्त्रियाः ॥६१॥स्वर्गं प्राप्तं तथाऽप्यत्र तृष्णा किं न निवर्तते ।साधूनां किं सुखं साधो! स्त्रीणां योनिषु मां वद् ॥६२॥व्रतं पतिव्रतानां च पत्युः सेवापरं तपः ।यथा पुत्रः परपतिरेष धर्मश्च योषिताम् ॥६३॥पालयन्ति यथा भूपाः प्रजाः पुत्रानिवौरसान् ।प्रजास्त्रियं च पश्यन्ति राजानो मातरं यथा ॥६४॥यज्ञं कुर्वन्ति राजानो देवब्राह्मणरक्षकाः ।निवारणं च दुष्टानां शिष्टानां परिपालनम् ॥६५॥सतीनां रक्षणं चापि कुर्वन्ति भूभृतः खलु ।विपरीतं कथं राजन्! गृह्णासि वर्तनं त्विह ॥६६॥इत्युक्त्वा तु महेन्द्राणी विरराम पतिव्रता ।उवाच नहुषो राजा शचीं गर्विष्ठवाक्यवान् ॥६७॥शृणु शचि! न्याययुक्तं ग्राह्यं ते यदि रोचते ।भूमौ शुभाऽशुभं कर्म कृत्वा त्वादाय तत्फलम् ॥६८॥अन्यत्र मानवो भुंक्ते स्वर्गादौ वेदबोधितम् ।भूमौ कृत्वा महत्पुण्यं स्वर्गं गच्छति पुण्यवान् ॥६९॥गृहीत्वा सर्वकन्याश्च चिरं स्वर्गे प्रमोदते ।स्वर्गमायाति मनुजो विहाय मानवीं तनुम् ॥७०॥स्वशरीरेणाऽऽगातोऽहं मत्पुण्यं पश्य सुन्दरि! ।अनेकजन्मपुण्येन त्वागतः स्वर्गमीप्सितम् ॥७१॥ततोऽप्यधिकपुण्येन महेन्द्रपदमाप्तवान् ।तदिदं मे महत्पुण्यं दर्शनं मे त्वया सह ॥७२॥नहि कर्मस्थलं चेदं स्वर्भोगस्थलमेव यत् ।भोगस्थले भोग्यवस्तु नहि त्यक्तुं प्रशक्यते ॥७३॥त्वं तु भोग्या महेन्द्रस्य स्थितोऽस्म्यहं तदासने ।अस्वामिकाऽधुना त्वं च मम भोग्या प्रजायसे ॥७४॥निर्मिता त्वं मम भोग्ये येनाऽहमैन्द्रमास्थितः ।तव भाग्ये लिखितोऽहं यतश्चैन्द्रपदे स्थितः ॥७५॥त्वं च कान्ते! मम योग्या यावदिन्द्रो भवाम्यहम् ।त्यक्ते त्विन्द्रपदे त्वां न लोकयिष्यामि वै पुनः ॥७६॥एहि कान्ते! भवनाऽन्तर्गृहे रंस्ये त्वया सह ।त्यज द्वैधं तु मनसो मोदस्व मानवे सुरे ॥७७॥इत्युक्त्वा विररामाऽसौ शची श्रुत्वा शुशोच ह ।अचेतनस्य मूढस्य कार्याऽकार्यमजानतः ॥७८॥श्रोष्याम्यद्य कथां कतिविधां कामातुरस्य च ।वायुमत्तः सुरामत्तः काममत्तो विचेतनः ॥७९॥मृत्युं न गणयेत् कामी कामेन हृतमानसः ।प्राह वै नहुषं तत्र न्याय्यं प्रत्युत्तरं पुनः ॥८०॥स्वर्गं भोगस्थलं त्वस्ति कर्मफलं हि भुज्यते ।त्वया नास्ति कृतं तादृग् भोग्या भवामि येन ते ॥८१॥पृच्छ वै धर्मराजाय पृच्छाऽन्यगुरवे तथा ।तिष्ठन्तीन्द्रासने रिक्ते मक्षिका जन्तवोऽपि च ॥८२॥न ते भवन्ति चेन्द्रा वै भोग्या तेषां भवामि न ।इन्द्र एव पतिर्मेऽस्ति मक्षिका जन्तवो नहि ॥८३॥त्वं तु राजँस्तथाभूतो माऽऽग्रहं कुरु वै मृषा ।शृणु राजँस्तथा गोप्यं यदस्म्यद्य रजस्वला ॥८४॥ऋतोः प्रथमो दिवसो ह्यद्य मे वर्तते नृप! ।प्रथमे दिवसे नारी चाण्डालीवत् त्वशुद्धिगा ॥८५॥द्वितीये दिवसे म्लेच्छासमाऽतो रजकीसमा ।तृतीयेऽथ चतुर्थे सा शुद्धा भर्त्रर्थमेव वै ॥८६॥ततः सा दैवपैत्र्यादिकार्ययोग्या भवत्यपि ।आद्ये रजस्वलागन्ता ब्रह्महत्यांशपापवान् ॥८७॥द्वितीये दिवसे भोक्ता गोहत्यापापको भवेत् ।तृतीये दिवसे भोक्ता भ्रूणहत्याघवान् भवेत् ॥८८॥चतुर्थे पतियोग्या सा स्नात्वा संजायते सती ।ऋतुदानं पतिर्दद्याद् विधिर्वेदैर्निरूपितः ॥८९॥अयुगलासु रात्रिषु दाने कन्या प्रजायते ।युगलासु तु रात्रिषु दाने पुत्रः प्रजायते ॥९०॥आषोडशरात्र्यन्तँ शक्तिर्गर्भधृतेर्भवेत् ।तदुत्तरं प्रशान्तिस्तु गर्भधृतिर्न वै भवेत् ॥९१॥तत्र पत्नी न गन्तव्या बीजहत्याऽभिदूषणात ।एवं धर्मः रचितोऽस्ति त्वं तु धर्मं विहाय वै ॥९५॥कामातुरो भवत्यद्य गच्छ राज्ञीं निजां भुवि ।शान्तिं लभ महाराज! व्रतं दीर्घं चराम्यहम् ॥९३॥शच्यास्तद्वचनं श्रुत्वा प्रहस्य नहुषस्तदा ।उवाच धर्मविधुरं कल्पितं भोगकांक्षया ॥९४॥देवपत्नी सदा शुद्धा राजस्वल्यं न विद्यते ।रजस्वलाकृतं पापं भूलोके नात्र वै दिवि ॥९५॥चन्द्रवंश्यो भवाम्यत्र महेन्द्रो देवपंक्तिगः ।राजस्वल्येन मे नास्ति बाधस्त्वायाहि सुन्दरि! ॥९६॥ऋतुपापं मयि स्याच्चेत्! तव किं रम शोभने! ।रमणार्थं कुरु शय्यां भवत्वद्य समागमः ॥९७॥इत्युक्त्वा विररामाऽसौ राजा कुर्वन् प्रतीक्षणम् ।शची प्राह शृणु राजन्! बुद्धिस्ते विलयं गता ॥९८॥पातिव्रत्यमप्रधृष्यं धृष्ये धृष्टुर्विनाशकम् ।इतिज्ञात्वा वद चाग्रे प्रवृत्तोऽभूर्विचार्य वै ॥९९॥त्वां शपामि चेत् त्वत्र रक्षकः कोऽपि नास्ति ते ।पातिव्रत्यं महान् धर्मो नारायणस्वरूपवान् ॥१००॥नारायणो हरो ब्रह्मा विष्णुर्वैराज ईश्वराः ।बिभ्यत्येव पराद्धर्मात् पातिव्रत्याद्धि कंपिताः ॥१०१॥सूर्यश्चन्द्रो वरुणश्च यमो मृत्युर्जरादयः ।कालः संकर्षणो रुद्रो बिभ्यत्येव पतिव्रतात् ॥१०२॥मेघः शनिश्चरो राहुर्दानवा राक्षसा अपि ।दैत्या देवा वह्नयश्च वार्धयः पर्वतास्तथा ॥१०३॥कम्पन्ते पातिव्रत्याद् वै विचारं कुरु मानसे ।पतिव्रता सुभार्या वै पतिं जीवयति मृतम् ॥१०४॥जलानां प्रलयं सैव शमयत्येव साध्विका ।अग्नीनामुष्णतां शीतां करोत्येव पतिव्रता ॥१०५॥महाकालं परावृत्य जीवत्येव पतिव्रता ।सूर्यचन्द्रगतिरोधौ करोत्येव पतिव्रता ॥१०६॥वृक्षपुष्पफलस्मृद्धिं करोत्येव पतिव्रता ।विष्णोः सुदर्शनं शस्त्रं ब्रह्मास्त्रं लोकनाशकम् ।शमयत्येव संकल्पाद् द्रागेव तु पतिव्रता ॥१०७॥सापराधस्य पुण्यानां नाशं करोति साध्विका ।ब्रह्माण्डप्रलयं चापि कर्तुं शक्ता पतिव्रता ॥१०८॥जले स्थलं स्थले वारि व्योम्नि भूमिं भुवोऽम्बरम् ।नारीं नरं नरं नारीं कर्तुं शक्ता पतिव्रता ॥१०९॥किं न जानासि राजेन्द्र! का ते बुद्धिरूपस्थिता ।यमपाशान् सुविच्छेतुं शक्ता नारी पतिव्रता ॥११०॥तस्माद् राजन् भुवं याहि मा मनः कलुषं कुरु ।इति जाते विवादेऽत्र वृहस्पतिरुपागतः ॥१११॥राजात्विन्द्रस्वरूपत्वात् सत्कारं सुसमाचरत् ।शची ययौ सलज्जा स्वभवनान्तरमेव यत् ॥११२॥नहुषात् सत्कृतिं लब्ध्वा दत्त्वाऽऽशीर्वादमित्यथ ।ययौ शचीगृहं तत्र शच्या दत्ते शुभासने ॥११३॥निषसाद गुरुः शच्या विवादार्थो निवेदितः ।प्रार्थितोऽपि गुरुः सम्यक् शच्या तु दीनया तदा ॥११४॥रक्ष रक्ष महाभाग! निमग्नां शोकसागरे ।दूरीकृतो मम पतिस्त्वया शिष्यः स्वराज्यतः ॥११५॥सम्पच्छून्यमाश्रमं मे नहुषश्चेन्द्रतां वहन् ।स्वपत्नीं मां विधातुं स करोत्याग्रहमुल्बणम् ॥११६॥अहं पतिव्रता नारी नेच्छाम्यन्यं पतिं गुरो! ।पातिव्रत्यं परं धर्ममुत्स्रष्टुं नोत्सहे गुरो ॥११७॥राजा तथा गुरुश्चोभौ मान्यौ पूज्यौ सदा मतौ ।साम्ना यावद्विरोधस्य शान्तिः स्यात्तावदेव तु ॥११८॥साध्व्या शापो न वै देयः सर्वथाऽपि समर्थया ।इति विचार्य च मया शप्तो न .नहुषो नृपः ॥११९॥पत्युर्विप्रकरस्त्वं च शप्तो नाऽसि तु गौरवात् ।यदि चोक्तं मया सम्यङ् न भविष्यति वै गुरो ॥१२०॥शपामि त्वां च नहुषं सर्वनाशो भविष्यति ।तथापि महतां नाशे मास्तु मे मानसे त्वरा ॥१२१॥इति कृत्वाऽऽवेदयामि शान्तिं कुरु गुरो! सुखम् ।यथा पतिर्महेन्द्रो मे समायात् स्वगृहं प्रति ॥१२२ ॥नहुषस्तु भवेद् भ्रष्टस्तथा कार्यं विधीयताम् ।दत्वा चरणरेणूँ स्तं महेन्द्रं देहि चाशिषः ॥१२३॥सर्वेषां तु गुरूणां च जन्मदाता परो गुरुः ।पितुः शतगुणा माता पूज्या वन्द्या गरीयसी ॥१२४॥विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणो गुरुः ॥१२५॥अज्ञानतिमिरान्धस्य ज्ञानांऽजनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥१२६॥जन्मदाताऽन्नदाता च तथाऽन्ये गुरुवो मताः ।आरोपिताश्च गुरवः प्रसह्य गुरुवस्तथा ॥१२७॥तथोपगुरवः सन्ति शिक्षका गुरुवोऽपि च ।पारं कर्तुं न शक्तास्ते घोरसंसारसागरे ॥१२८॥विद्यामन्त्रज्ञातदाता निपुणः पारकर्मणि ।स शक्तः शिष्यमुद्धर्तुमीश्वरश्चेश्वरेश्वरः ॥१२९॥गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।गुरुर्धर्मो गुरुः शेषः सर्वात्मा केशवो गुरुः ॥१३०॥सर्वतीर्थाधिवासश्च सर्वदेवाधिवासितः ।सर्वदेवात्मको दिव्यो गुरुरूपी हरिः स्वयम् ॥१३१॥अभीष्टदेवे वै रुष्टे गुरुः शक्तो हि रक्षितुम् ।गुरौ रुष्टेऽभीष्टदेवो न वै शक्तश्च रक्षितुम् ॥१३२ ॥गुरौ रुष्टे ग्रहा रुष्टा रुष्टा देवाश्च सर्वथा ।भाग्यान्यपि च रुष्टानि गुरुं रुष्टं न कारयेत् ॥१३३॥न गुरोरधिकश्चात्मा प्रियः पुत्रः प्रियोऽपि न ।धनं पत्नी तपो धर्मः पुण्यं सत्यं न वै प्रियम् ॥१३४ ॥गुरोः परो न वै शास्ता राजा बन्धुर्न वै परः ।मन्त्रो विद्यागुरुर्देवः पूर्वलब्धः पतिस्तथा ॥१३५॥परात्परः स विज्ञेयः सर्वेषामुपरि स्थितः ।माता वन्द्या पिता वन्द्यो वन्द्यश्च त्वादृशो गुरुः ॥१३६॥विप्राणां त्वं वरिष्ठोऽसि गरिष्ठश्च तपस्विनाम् ।ब्रह्मिष्ठोऽसि ब्रह्मवित्सु धर्मिष्ठः सर्वधर्मिणाम् ॥१३७॥देवानां सर्वथा पूज्य इति जानामि सर्वदा ।ततः क्षमां ययाचेऽहं शपामि नैव मद्गुरुम् ॥१३८॥तुष्टो भव मुनिश्रेष्ठ! शक्रमानय मा चिरम् ।नहुषं त्विन्द्रभवनाच्छीघ्रं प्रक्षिप भूतले ॥१३९॥इत्युक्त्वा त्वान्तरे तृप्ता बहिः सौम्या शची तदा ।मौनमालम्ब्य धैर्येण फलं चेयेष सत्त्वरम् ॥१४०॥वृहस्पतिस्तदा प्राह धन्याऽसि त्वं पतिव्रते! ।शप्तुं त्वं वै समर्थाऽसि रक्षितोऽहं नृपोऽपि च ॥१४१॥नार्यो भवन्तु तादृश्यो यथा रक्षाकरी शची ।इत्युक्त्वा प्राह चेन्द्राण्यै सर्वं भद्रं भविष्यति ॥१४२ ॥सद्यः प्राप्स्यसि भर्तारं महेन्द्रं त्वं ममाशिषा ।यथा कचस्य पत्नी मे तथा त्वमपि शोभने! ॥१४३॥यथा पुत्रस्तथा शिष्या न भेदः पुत्रशिष्ययोः ।तर्पणे पिण्डदाने च पालने परितोषणे ॥१४४॥यथाऽग्निदाता पुत्रश्च तथा शिष्योऽपि निश्चितः ।पिता माता गुरुर्भार्या शिशुश्चऽनाथबान्धवाः ॥१४५॥एते पुंसां नित्यपोष्या एष धर्मः सनातनः ।कुरुते मानवीं बुद्धिं मातापित्रोस्तथा गुरौ ॥१४६॥अयशस्तस्य सर्वत्र विघ्न एव पदे पदे ।करोति सम्पन्मत्तो यः स्वगुरोस्तु पराभवम् ॥१४७॥अचिरात्सर्वनाशोऽस्य भवेत् स्वस्यापि निश्चितम् ।मां तु दृष्ट्वा सभामध्ये नोत्तस्थौ पाकशासनः ॥१४८॥भुनक्ति तत्फलं त्विन्द्रः पश्य साध्वि तु साम्प्रतम् ।अहं करोमि मोक्षं च समर्थोऽस्मि पतिव्रते! ॥१४९॥पातिव्रत्यबलात्ते च नहुषोऽपि विनंक्ष्यति ।इन्द्रस्त्वायास्यति शीघ्रं सर्वं युक्तं भविष्यति ॥१५०॥भविष्यति प्रभावस्ते दुर्गायाश्च समः सति! ।लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा समम् ॥१५१॥सौभाग्यं राधिकातुल्यं तत्समं प्रेम भर्तरि ।तत्तुल्यं गौरवं मान्यं प्रीतिप्राधान्यमुच्यते ॥१५२॥रोहिण्यास्तु समा हृद्या पूज्या सरस्वतीसमा ।शुद्धा भविष्यसि शश्वत्सावित्रीसदृशी सदा ॥१५३॥इत्युक्त्वा तां गुरुस्तत्र शिक्षयामास रक्षणम् ।वद् साध्वि! नहुषं तं शचीं चेद् भोक्तुमिच्छति ॥१५४॥अपूर्वं यानमारुह्य निशायामागमिष्यसि ।सप्तर्षीणां यदि स्कन्धे दत्त्वा स्वशिबिकां शुभाम् ॥१५५॥तामारुह्य समायाहि शचीं भोक्तुं तदाऽर्हसि ।शच्यावाक्यानि तान्येवाऽऽवेदितानि तु भूभृते ॥१५६॥प्रहस्य नहुषश्चापि किंकरं प्राह सत्वरम् ।गच्छ गच्छ त्वरन् गच्छ सप्तर्षीन् शीघ्रमानय ॥१५७॥इत्युक्तः प्रययौ दूतः सप्तर्षींस्त्वानयद् द्रुतम् ।राजा दृष्ट्वा तु तान्सर्वान्ननामोवाच सादरम् ॥१५८॥यूयं तु ब्रह्मणः पुत्राः परोपकरणे रताः ।मोहमात्सर्यहीनाश्च दर्पाऽहंकारवर्जिताः ॥१५९॥नारायणसमाः सर्वे ज्वलन्तो ब्रह्मतेजसा ।मम कार्यकरणार्थं कृपावन्तो भवन्तु वै ॥१६०॥प्राहुस्तं मुनयः श्रुत्वा वृणीष्व मनसि स्थितम् ।सर्वे दातुं वयं शक्तास्त्वदर्थं मा चिरं कुरु ॥१६१॥नहुषः प्राह ताँस्तत्र यूयं वै भक्तवत्सलाः ।अधुना दत्त मे तूर्णं शचीदानमभीप्सितम् ॥१६२॥सप्तर्षिवाहनं कान्तं शचीच्छति महासती ।एनमेव वरं मेऽद्य निष्पन्नं कुरुताऽचिरम् ॥१६३॥इति श्रुत्वा तु मुनयो जहसुर्मोहितं नृपम् ।चक्रुः स्कन्धेऽस्य शिबिकां ययौ राजा शचीं प्रति ॥१६४॥जर्जरितास्तु मुनयः शनैर्यान्ति तदा नृपः ।शीघ्रं सर्पन्तु मुनयः समाः प्राह मुनीन् मुहुः ॥१६५॥श्रुत्वा क्रोधं समापन्नो दुर्वासास्त्वग्रगोऽवदत् ।सर्पन्त्विति प्रवक्ता त्वं सर्पस्त्वजगरो भव ॥१६६॥एवमुक्तो द्रुतं राजा महानजगरोऽभवत् ।पतितः शिबिकातश्च स्तुतिं चक्रे तपस्विनाम् ॥१६७॥ऋषयस्तु नृपं प्राहुर्धर्मपुत्रस्य दर्शनात् ।मोक्षो भविष्यति सर्पाद् वैकुण्ठं च गमिष्यसि ॥१६८॥इत्युक्त्वा प्रययुः सत्यं ऋषयस्तु दयालवः ।शची जगाम तच्छ्रत्वा गुरुं नमाम चादरात् ॥१६९॥ययौ ब्रहस्पतिः शीघ्रं पुष्करे पद्मतन्तुषु ।यत्र वै राजते त्विन्द्रश्चाजुहाव सुरेश्वरम् ॥१७०॥अयि वत्स त्वमागच्छ गुरुस्तेऽहं बृहस्पतिः ।श्रुत्वा गुरुस्वरं सौक्ष्म्यं हित्वा त्विन्द्रः समाययौ ॥१७१॥पपात दण्डवत् तं च मुदोरसि चकार सः ।नीत्वा यज्ञं कारयित्वा सोमं तं त्वमरावतीम् ॥१७२॥प्रददौ परमैश्वर्यं पूर्वस्मात्तु चतुर्गुणम् ।शची सम्प्राप भर्तारं पातिव्रत्यप्रभावतः ॥१७३॥इत्येवं कथितं लक्ष्मि! शच्याः सतीत्वमत्र ते ।ब्रह्महत्याप्रशमनं सोमयागफलप्रदम् ॥१७४॥वर्षं सोमलतापानं यजमानश्चकार सन् ।वर्षमेकं फलाहारं जलपानं तु वत्सरम् ॥१७५॥त्रैवार्षिकं व्रतं चेन्द्रश्चकाराऽऽस पुनः प्रभुः ।सर्वसाध्यो न यज्ञोऽयं बह्वन्नो बहुदक्षिणः ॥१७६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये बृहस्पत्यवमानेन भ्रष्टेन्द्रस्यपुष्करनालवासे नहुषेणेन्द्रप्रतिनिधिनाऽर्थितायां शच्यां सप्तर्षियानमारुह्य गच्छता सर्पता प्राप्तेत्यादिगर्भकपातिव्रत्यबलकथननामा चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥३७४॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP