संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३७२ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३७२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७२ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! च पद्मायाश्चरित्रं पापनाशकम् ।अनरण्यस्य पुत्र्यास्तद्धर्मशापात्मकं शुभम् ॥१॥पातिव्रत्यं पालयन्त्या पित्राज्ञावर्तमानया ।पद्मया युगभेदेन धर्मह्रासः कृतः पुरा ॥२॥जातमात्रं यौवनं च तयैव विफलीकृतम् ।बाल्यं कुमारता पश्चाद् यौवनं वृद्धता ततः ॥३॥इत्यादिकं तया लोके कृतं लक्ष्मि! क्रमागतम् ।मनुवंशोद्भवो राजा सोऽनरण्यो महायशाः ॥४॥चिरंजीवी धर्मशीलो वैष्णवो विजितेन्द्रियः ।मंगलाऽरण्यपुत्रः स इन्द्रसावर्णिवंशजः ॥५॥धरारण्यस्य पुत्रोऽभून्मंगलारण्य एव ह ।अपुत्रको धरारण्यस्तपसे पुष्करं गतः ॥६॥सुचिरं च तपस्तप्त्वा वरं लब्ध्वा परेश्वरात् ।सम्प्राप्तो वैष्णवं पुत्रमनरण्यं जितेन्द्रियम् ॥७॥दत्वा तस्मै स राज्यं स्वं जगाम तपसे वनम् ।अनरण्यस्ततश्चक्रे भृगुणा तु पुरोधसा ॥८॥यज्ञानां शतकं श्रेष्ठं तस्थौ वैराग्यवृत्तिकः ।तुच्छं मत्वा च शक्रत्वं न लेभे नश्वरं पदम् ॥९॥बभूवुः शतपुत्राश्च सर्वे पितृसमा गुणे ।कन्यैका सुन्दरी रम्या पद्मा पद्मालयासमा ॥१०॥तस्या योग्यवराऽन्वेषणार्थं यत्नं चकार सः ।तावत् तपोवने पिप्पलादर्षिस्तत्र निर्जने ॥११॥स्त्रीभिः रमन्तं गन्धर्वं दृष्ट्वा वै कामुकोऽभवत् ।अथाऽयं पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥१२॥ददर्श पद्मां युवतीं पद्मावताररूपिणीम् ।मनोरमां विलोक्यैव दारसंग्रहभावनः ॥१३॥केयं कस्येति पप्रच्छ समीपस्थाँस्तपस्विनः ।ते च निवेदनं चक्रुः पद्माऽनरण्यजा त्विति ॥१४॥मुनिः स्नात्वाऽभीष्टदेवं सम्पूज्य पुरुषोत्तमम् ।जगाम कामी भिक्षार्थमनरण्यसभाऽजिरे ॥१५॥राजा दृष्ट्वा मुनिं शीघ्रं प्रणनामाऽतिभक्तितः ।मधुपर्कादिकं दत्वा पूजयामास सादरम् ॥१६॥मुनिर्विज्ञापितो राज्ञा यथेष्टं वरणाय वै ।पिप्पलादस्तदा पद्मां ययाचे कन्यकां शुभाम् ॥१७॥श्रुत्वा मौनी नृपो जातः किञ्चिन्निर्वक्तुमक्षमः ।मुनिः प्राह तदा तं वै देहि कन्यां नृपोत्तम! ॥१८॥अथवा भस्मसात् सर्वं करिष्यामि क्षणेन वै ।सर्वे बभूवुराच्छन्ना भृत्याश्च मुनितेजसा ॥१९॥शुशोच राजा राज्ञी च दृष्ट्वा वृद्धं ज्वरान्वितम् ।महिष्यः शुशुचुः सर्वा इतिकर्तव्यताऽक्षमाः ॥२०॥कन्यामाता विललाप कन्यादुःखं विचिन्त्य वै ।तद्विलोक्य पिप्पलादो बोधयामास भूमिपम् ॥२१॥महिषीं नृपपुत्राँश्च भृत्याँश्च कन्यकां तथा ।अद्य वाऽन्यदिवसे वा दातव्या कन्यका भवेत् ॥२२॥यस्मै कस्मै प्रदातव्या देहि विप्राय मे नृप! ।सत्पात्रं ब्राह्मणादन्यन्न पश्यामि जगत्त्रये ॥२३॥पराय विप्रादन्यस्मै नैव त्वं दातुमर्हसि ।सुतां दत्वा च मे राजन् रक्षस्व सर्वसम्पदः ॥२४॥कन्यानिमित्तं सर्वस्वं मा ते भस्मगतं भवेत् ।इत्येतद्वाक्यमत्युग्रं श्रुत्वा कन्यापि शोभना ॥२५॥पितुर्हितं चिन्तयाना गौरवं तपसामृषेः ।सर्वसम्पदविघ्नत्वं प्राह राज्ञे प्रदेहि माम् ॥२६॥ततः सालंकृतां पद्मां राजा राज्ञी ददौ मुदा ।कान्तां प्राप्य पिप्पलादो मुदितस्तपसा ज्वलन् ॥२७॥दर्शयामास रूपं स्वं यौवनं योगकृद्बलात् ।अष्टादशसमायोग्यं कन्यायोग्यं हि कामदम् ॥२८॥राजादयोऽतिसंहृष्टाः कन्या तुतोष चान्तरे ।यौतकं च तथा कान्तां गृहीत्वा मुनिराड् ययौ ॥२९॥अनरण्यः पूर्णमना जगाम तपसे ततः ।मनो मोक्षे दधौ तत्र चिन्तयन् राधिकेश्वरम् ॥३०॥कृष्णनारायणं प्राप्य गोलोकं संजगाम ह ।कीर्त्यरण्यो ज्येष्ठपुत्रो राज्यं तस्य चकार वै ॥३१॥अथाऽनरण्यस्य कन्या सिषेवे भक्तितः ऋषिम् ।कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ॥३२॥पातिव्रत्यपरा नित्यं सेवते श्रीहरिं यथा ।अंगसंमर्दनं मुनेः पादसंवाहनं मुहुः ॥३३॥कामेच्छापूरणं शश्वच्चक्रेऽनुवृत्तिमाश्रिता ।स्नात्वा स्नापयति भुंक्ते भोजयित्वा द्विजं पतिम् ॥३४स्वापयित्वा स्वपित्येव चानुतिष्ठति कर्मसु ।यथा वै तापसो वृद्धो राजसोऽथ युवा मुनिः ॥३५प्रसन्नः स्यात्तथा सेवां करोत्यहर्निशं सती ।मन्यमाना स्वकं भाग्यं श्रेष्ठाच्छ्रेष्ठतमं सदा ॥३६यदहं ब्राह्मणं प्राप्तास्तत्रापि मुनितापसम् ।पवित्रं पुण्यरूपं च नारायणस्वरूपिणम् ॥३७योगिनं चात्मवेत्तारं काऽन्या धन्या मया समा ।पवित्राऽहं सदा जाता ह्यर्थिता ऋषिणा स्वयम् ॥३८मम भाग्यस्य पारं न पुण्यपारं न विद्यते ।अनेकजन्मपुण्यैश्च प्राप्यते भगवान्पतिः ॥३९सोऽयं साक्षात् कृष्णनारायणो लब्धः पतिर्मया ।तस्यैव सेवया मुक्तिस्तस्य तोषेऽक्षरं पदम् ॥४०तस्यैव हृदये ब्रह्म ब्रह्म लब्धं मया ततः ।नाऽत्र मे मोक्षणे त्वन्यत्साधनं परिशिष्यते ॥४१।मम पित्रा शुभं दत्ता स्वस्त्यस्तु जनकस्य मे ।स्वस्त्यस्तु मम मानुश्च याऽहं जाता सुखाऽन्विता ॥४२।सर्वं लब्धं मया त्वत्र पिप्पलादे ऋषीश्वरे ।ज्ञानतृप्ती रतितृप्तिर्भोगतृप्तिश्च लभ्यते ॥४३।यशस्तृप्तिः ख्यातितृप्तिः पूजातृप्तिश्च लभ्यते ।राज्यभारो दुःखदोऽति महिषीत्वं ततोऽधिकम् ॥४४।महिषीणां न वै शान्तिः पञ्जरपक्षिणां यथा ।धर्मोऽर्थः कामनाऽत्रैव भुज्यते सुखतो मया ॥४५।न तथा तप्तचित्ताभिर्महिषीभिः प्रभुज्यते ।शुभं जातं तु यज्जातं सर्वं दैवं मयाऽर्जितम् ॥४६।मद्यमांसादनृपतिकरे न पतिताऽस्म्यहम् ।तदेव पुण्यं मे चात्र प्रहृष्टं रक्षकं मम ॥४७॥कुमारिका न जानन्ति राजस्यो राजपीडनम् ।पश्चात् पतित्वा शोचन्ति वयं क्व निरये गताः ॥४८॥साधुशीलो देवगुणः पतिः सर्वत्र दुर्लभः ।भोगको मारकः श्वेव पतिः सर्वत्र चाप्यते ॥४९॥भोगैर्देहं क्षपयति पुण्यं नाशयति त्वघैः ।यमलोकं प्रापयति सुलभस्तादृशः पतिः ॥५०॥स्वार्थमात्रपरो यश्च परलोकाऽसहायकृत् ।न पतिः स यथार्थोऽस्ति यद्योगान्नरकं ध्रुवम् ॥५१॥तस्मादत्र परत्रैव चाऽर्धांगमिव रक्षति ।सृष्टौ मोक्षे सुखे दुःखे सहगामी पतिः पतिः ॥५२॥एतादृशं पतिं प्राप्य या न प्रसेवते तु तम् ।कर्मणा मनसा वाचा सा भवेद् वञ्चिता सदा ॥५३॥कुलस्य गुणजालस्य रूपस्य बुद्धिधर्मयोः ।मानं न सर्वथा रक्ष्यं पत्यग्रे कुलयोषिता ॥५४॥देहं पतिर्मनः स्वामी त्वभिमानं पतिर्मम ।कार्यकारणसंघातं सुखं दुःखं पतिर्मम ॥५५॥भोज्यं भोगोभोक्तृवृत्तिर्भोग्यं सर्वं पतिर्मम ।विश्वासो वरदानं च न्यासश्चापि पतिर्मम ॥५६॥दीनता श्रेष्ठिता स्थैर्यं चानुकूल्यं पतिर्मम ।व्रतं धर्मस्तथा पुण्यं तीर्थं दानं पतिर्मम ॥५७॥स्वाध्यायपाठपूजाश्च सन्ध्याधर्मः पतिर्मम ।उत्सवश्च समाजश्च प्रदर्शनं पतिर्मम ॥५८॥यानं च नाटकं रम्यं नृत्यं गानं पतिर्मम ।भवनं राज्यसमृद्धिर्गजवाजं पतिर्मम ॥५९॥गुरुर्ब्रह्मा हरो विष्णुः सर्वे देवाः पतिर्मम ।वैश्वदेवोऽतिथेः पूजा प्राघूर्णिकः पतिर्मम ॥६०॥गर्भः पुत्रो रतिः प्रीतिर्नैःश्रेयसं पतिर्मम ।धाम क्षेत्रं धरा राज्यं यत्सर्वस्वं पतिर्मम ॥६१॥निषेधश्च विधिश्चापि स्वैरिणीत्वं पतिर्मम ।इति तृप्तिं परां मत्वा सेवां करोमि वै ऋषेः ॥६२॥एवं नित्यानन्दतृप्ता लक्ष्मि! सा राजकन्यका ।सिषेवे तमृषिश्रेष्ठं साक्षान्नारायणं यथा ॥६३॥तस्या धर्मपरीक्षार्थं धर्मदेवो ह्यचिन्तयत्॥कीदृशीयं पातिव्रत्यपरा वर्तत एव नु? ॥६४॥एकदा स्वर्णदीं स्नातुं प्रयातां सस्मितां सतीम् ।ददर्श पथि धर्मस्तु मायया नृपलिंगकः ॥६५॥स्वर्णरत्नरथारूढः स्वर्णरत्नादिभूषितः ।नवयौवनरूपाढ्यः कामदेव इवाऽपरः ॥६६॥सुरूपां सुन्दरीं दृष्ट्वा पद्मामुवाच मायया ।अहो सुरूपा कान्तेयं क्व च क्व जर्जरो मुनिः ॥६७॥अयि! सुन्दरि! लक्ष्मीव राजयोग्येऽति सूज्ज्वले! ।प्रकृष्टयौवनस्थे! च कामगर्वहरे! शुभे! ॥६८॥जरादग्धस्य वृद्धस्य समीपे किं विराजसे? ।काष्ठपाषाणतुल्यस्याऽस्थिमात्रशेषितस्य च ॥६९॥राजयोग्याऽसि राजेन्द्रि! राजसे राजवक्षसि ।चन्दनागुरुलिप्तांगा स्वर्णरत्नादिभूषिता ॥७०॥दासदासीशतैर्युक्ता सुखिनी भव सुन्दरि! ।विप्रं तपःकृशं शुष्कं ब्रह्मोन्मुखं क्षिणायुषम् ॥७१॥विहाय पश्य राजेन्द्रं रतौ शूरं भुवां पतिम् ।स्वर्गसुखस्मृद्धं समावस्थं च मादृशम् ॥७२॥किं पर्णकुट्यां सुखमस्ति किंचित्,किं कंधरे पक्षिजटेऽस्ति सौख्यम् ।किं चाऽस्थिभस्त्रामवलम्बसे त्वम्,आयाहि चिन्तामणिरच्युतेऽत्र ॥७३॥प्राप्नुहि चिन्मणिमच्युते मयि,त्वं कल्पवल्ली भवसीति संवृणे ।रत्नं पिनद्धं कनके प्रशोभते,न शंखयोग्ये खलु पाशवे गले ॥७४॥प्राप्नोति सुन्दरं पुण्यात् सौन्दर्यं पूर्वजन्मतः ।सफलं तद्भवेत् सर्वं रसिकाऽऽलिंगनेन तु ॥७५॥यथा कान्ता तथा कान्तं कामकार्यविशारदम् ।किंकरं कुरु मां कान्ते! सर्वं दास्यामि तेऽनघे ॥७६॥सजलो निर्जने रम्ये वनेऽरण्ये च पर्वते ।नद्यां नदे समुद्याने पुष्पिते गन्धशालिनि ॥७७॥याने विमाने साम्राज्ये मलये रैवते गिरौ ।अन्ये चन्दनवृक्षाढ्ये विहरिष्यामि वै त्वया ॥७८॥कामज्वरप्रदग्धायाः शान्तिं कर्तुमहं क्षमः ।विहरस्व मया सार्धं जन्मेदं सफलं कुरु ॥७९॥इत्युक्तवन्तं राजानं करे गृहीतुमुत्सुकम् ।निकटं तु समायान्तं धर्मं प्राह पतिव्रता ॥८०॥दूरं गच्छ गच्छ दूरं पापचिन्तापरो ह्यसि ।मां चेत् स्पृशसि कामेन सद्यो भस्म भविष्यसि ॥८१॥अहं विवाहिता नारी पिप्पलादर्षिभामिनी ।पतिव्रता न पश्यामि हृदाऽपि वै नरान्तरम् ॥८२॥कथं स्पृशामि पापांशं स्त्रीजितं लम्पटं नृपम् ।अधर्मिस्पर्शमात्रेण सर्वं पुण्यं विनश्यति ॥८३॥परनारीं प्रसह्यात्र धर्षितुं त्वं समुद्यतः ।न भूमौ पातकी त्वादृगन्यो भवति भूपतिः ॥८४॥अहं ब्राह्मणपत्न्यस्मि तत्र वृद्धतपस्विनः ।तां मातरं स्त्रीभावं कृत्वा येन ब्रवीषि माम् ॥८५॥भविष्यति क्षयस्तेऽत्र धर्षितुर्मम शापतः ।क्षयं याहि ध्रुवं राजन् हृदा पापेन कर्मणा ॥८६॥श्रुत्वा धर्मः सतीशापं नृपरूपं विहाय तु ।धर्मदेवः स्वयं भूत्वाऽदृश्यत प्राह तां च सः ॥८७॥मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ।परस्त्रीमातृबुद्धिं च कुर्वन्तं लोकरक्षकम् ॥८८॥अहं तवाऽन्तर्विज्ञातुं समागतोऽस्मि पद्मिके! ।परीक्षितुं राजरूपं धृतवानस्मि धार्मिके! ॥८९॥तथापि स्वकृतं किञ्चिदकर्मं भुंजते जनाः ।मया कृतं चाऽवमानं तव वाक्यैस्तु निष्ठुरैः ॥९०॥तत्फलं संप्रभोक्तव्यं मया नास्त्यत्र संशयः ।कृतं मे दमनं त्वत्र न विरुद्धं यथोचितम् ॥९१॥सर्वथा मे मृतिर्मास्तु सति! तत्प्रार्थये सदा ।शास्तिः समुत्पथस्यानामीश्वरेण विनिर्मिता ॥९२॥शासनं त्वत्कृतं चास्तु यथासह्यं तु मे सति! ।पद्मोवाच तदा धर्म साक्षी त्वमेव देहिनाम् ॥९३॥कथं परीक्षितुं त्वेतद्राजरूप धृतं त्वया ।यन्निमित्तं मया शप्तश्चापराधोऽभवन्नु मे ॥९४॥साध्वीशापो न वै मिथ्या जायते तु कदाचन ।तव नाशे सृष्टिनाशो भवेदेव न संशयः ॥९५॥तस्माद् यथा जीवनं ते शापश्च सार्थको भवेत् ।तथा वदामि धर्मेन्द्र! शृणु मानवभेदतः ॥९६॥सत्ये जने चतुष्पादो भव त्वं धर्म! सर्वथा ।त्रेताव्याप्तजने त्वं त्रिपाद् भव वृष सर्वथा ॥९७॥द्वापरव्याप्तमनुजे द्विपादो धर्म! संभव ।कलिव्याप्तजने त्वेकपादः शेषेऽस्तु ते लयः ॥९८॥पशुप्राये जडे धर्म! त्वमाच्छन्नो भविष्यसि ।सात्त्विके पूर्णता तेऽस्तु राजसादावपूर्णता ॥९९॥यद्यत् स्थलं तवाधारं श्रूयतां वृष! वच्मि तत् ।हरिभक्तेषु सर्वेषु वैष्णवेषु विशेषतः ॥१००॥साध्वीषु साधुषु यतिमुनिषु ब्रह्मचारिषु ।पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ॥१०१॥धर्मशीलेषु सर्वेषु वैश्यक्षत्रियजातिषु ।द्विजसेविषु शूद्रेषु सतां संगे स्थितेषु च ॥१०२॥अश्वःवटबिल्वेषु तुलसीचन्दनेषु च ।दीक्षापरीक्षाशपथगोष्ठगोपदभूमिषु ॥१०३॥विवाहेषु च सर्वत्र पुष्पेषु वृक्षजातिषु ।देवालयेषु तीर्थेषु सतां गेहेषु सर्वदा ॥१०४॥वेदाऽऽम्नायविचारेषु कृष्णकीर्तनकारिषु ।व्रतपूजातथोन्याययज्ञसाक्षिस्थलेषु च ॥१०५॥गोप्राणिष्वथ हंसेषु गरुडेषु सतीषु च ।कृशता तेन भविता सत्यस्थलेषु सर्वथा ॥१०६॥कृशता तु तदन्येषु स्थलेषु भविता शृणु ।पुंश्चलीषु तु सर्वासु नरघातिगृहेषु च ॥१०७॥नीचमूर्खखलनिन्दापरेषु च शठेषु च ।देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ॥१०८।धूर्तेष्वसत्सु दुष्टेषु चौरेषु व्यवायिषु ।दुरोदरसुरामांसकलहाऽतिक्रमेषु च ॥१०९॥शालग्रामसाधुतीर्थक्षेत्रसेवाप्रघातिषु ।दस्युकर्मणि गर्विष्टे मषीजीव्यसिजीविषु ॥११०॥भर्तृनिन्दितनारीषु जीवहिंसोपजीविषु ।दीक्षासन्ध्याधर्मभक्तिहीनेषु च कलंकिषु ॥१११॥कन्यायोषित्सुरग्रन्थविद्याविक्रयिषु नृषु ।मित्रद्रोहिकृतघ्नेषु सत्यविश्वासघातिषु ॥११२।शरणागतदीनाऽन्धाश्रितघ्नेषु मृषोक्तिषु ।शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ॥११३॥मिथ्यासाक्षिषु च मिथ्यान्यायदेषु च राजसु ।पुण्यरोधिषु सर्वेषु न स्थातुं शक्यते त्वया ॥११४॥शुद्धसात्त्विकशान्तेषु चतुष्पात् त्वं सदा वस ।सत्त्वमिश्ररजोवृद्धौ त्रिपात् त्वं त्रितको वस ॥११५॥रजोमिश्रतमोवृद्धौ द्विपात् त्वं द्वापरो वस ।तमोमात्रहृदयेषु त्वेकपात् त्वं कलिर्वस ॥११६॥सत्यंं मखस्तपो दानं चतुष्पादाः पुरा तव ।अहिंसादमनाऽऽस्तिक्यदानान्यद्य पदानि ते ॥११७॥भाविकाले भविष्यन्ति शीलं शौचं च सेवनम् ।कीर्तनं चेति पादास्ते क्रमात् ह्रासे तथा वस ॥११८॥इत्युक्त्वा विररामैनां धर्म आशिष आददौ ।धन्यासि पतिभक्तासि स्वस्ति तेऽस्तु हि सन्ततम् ॥११९॥युवा भवतु भर्ता ते रूपवान् स्थिरयौवनः ।चिरजीवी भवत्वेव मार्कण्डेयादतोऽधिकम् ॥१२०॥धनैश्वर्यवती त्वं च संभव स्थिरयौवना ।माता त्वं दशपुत्राणां भव संचिरजीविनाम् ॥१२१॥श्रुत्वा पद्मा वृषं प्रदक्षिणं कृत्वा प्रणम्य च ।ययौ स्वं मन्दिरं साध्वी धर्मोऽपि स्वस्थलं ययौ ॥१२२॥प्रतिव्रतां प्रशशंस प्रतिसंसदि संसदि ।पतिव्रतापि सा पद्मा पातिव्रत्यबलात् खलु ॥१२३॥शतपुत्रवती जाता सर्वसौभाग्यसंभृता ।एवं पतिव्रता नारी धर्मं हन्तुं च रक्षितुम् ॥१२४॥स्वयमेव समर्थाऽस्ति कोऽन्यस्तां धर्षयेज्जनः ।इति ते कथितं लक्ष्मि! पद्माया वै कथानकम् ॥१२५॥धर्मपुष्टिकरं शश्वत्पातिव्रत्यबलप्रदम् ।स्वर्गमोक्षप्रदं चापि सर्वधर्मप्रदं तथा ॥१२६॥पतिसेवाप्रदं चैतत्संसारशमनं परम् ।भक्त्या शृणुयान्नारी पातिव्रत्ये दृढा भवेत् ॥१२७॥श्रोतुर्वक्तुस्तथा रक्षां ध्रुवं धर्मो विधास्यति ।पातिव्रत्यं प्रपत्तिश्च समानो द्वौ वृषौ सदा ॥१२८॥एकेनैवाऽऽप्नुयात्सर्वं द्वितीयाऽपेक्षणं नहि ।यत्रोभौ तत्र वै लक्ष्मि! किमु वक्तव्यमात्मना ॥१२९॥पातिव्रत्यं दासधर्मः प्रपत्तिः स्नेहधर्मिणी ।दास्यं स्नैह्यं परं लब्ध्वा भुक्तिं मुक्तिमवाप्नुयात् ॥१३०॥इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽनरण्यपुत्र्याः पतिव्रतायाः पद्मायाः पिप्पलादेन लग्नं, धर्मकृतपरीक्षायां धर्मस्य शापश्चतुष्पादानां कालक्रमेण ह्रास इत्यादिनिरूपणनामा द्वासप्तत्यधिकत्रिशततमोऽध्यायः ॥३७२॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP