संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १५९

कृतयुगसन्तानः - अध्यायः १५९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
नारायणह्रदो लक्ष्मि! यत्र नारायणः स्वयम् ।
लक्ष्म्या साकं गरुडेनाऽऽगत्य संस्नातवान् हरिः ॥१॥
पुरा कृतयुगे लक्ष्मि! भक्तिधर्मपरायणः ।
कुंकुमवापीवास्तव्यो विप्रो नारायणांशजः ॥२॥
पत्नीव्रतो ब्रह्मदेवः कार्तिक्यामागतः स्वयम् ।
यात्रार्थं रेवताद्रेश्च स्नातो दामोदरे ह्रदे ॥३॥
श्राद्धं दामोदरे कृत्वा महापूजाविधानतः ।
दामोदरं पूजयित्वा नृत्योत्सवमकारयत् ॥४॥
भक्त्या संभोजयामास द्वादश्यां भूसुरान् सतः ।
दामोदरः प्रसन्नोऽभूदैच्छद्दातुं स्वदर्शनम् ॥५॥
दामोदरं प्रणम्यैव यावदग्रे प्रवर्तते ।
तावद्दामोदरो देवो विप्ररूपेण चाऽग्रगः ॥६॥
तैर्थिकस्य स्वरूपेण मिलितः प्राह ओं नमः ।
परस्परं नमस्कृत्य विप्रौ तौ पर्वतं प्रति ॥७॥
यावदग्रे प्रयातश्च तावत्तैर्थिकयात्रिणा ।
उक्तं ब्रह्मन्नुपर्यत्र ह्रदोऽस्ति सुभगो महान् ॥८॥
जलं पातालझरणं स्वर्णरेखानदीमयम् ।
पर्वतोदरसम्बद्धमक्षयं चामृतोपमम् ॥९॥
जलं पीत्वा गमिष्यावो भवस्य भवनं प्रति ।
इत्यामन्त्र्य गतौ विप्रौ ह्रदे नारायणे जलम् ॥१०॥
अगाधं वै समालोक्याऽरण्यं गाढं च शाखिनाम् ।
प्रसन्नमनसौ जातौ विश्रामं क्षणमापतुः ॥११॥
तैर्थिकर्षेर्दर्शनेन चित्तं पत्नीव्रतस्य तु ।
योगाभ्यासगतौ शान्तं यथा तद्वदजायत ॥१२॥
तैर्थिकस्तु जलं तस्माद् ह्रदात् स्वस्य कमण्डलौ ।
भृत्वा तीरे ततो गत्वा पत्नीव्रतमपाययत् ॥१३॥
तावत्पत्नीव्रतस्यैतज्जलपानेन तत्क्षणात् ।
इन्द्रियव्रत्तयः शान्ता उपाजग्मुः परावृतिम् ॥१४॥
कर्मज्ञानेन्द्रियाणां वै वृत्तयो मानसं प्रति ।
लीनास्तन्मानसी वृत्तिरहंभावे लयं गता ॥१५॥
अहंभावस्तदा तस्य बुद्धौ तु लीनतां गतः ।
बुद्धिर्जीवात्मतत्त्वे तु लीनभावं गता यदा ॥१६॥
तावत्तेनात्मना स्वस्य ब्रह्मत्वं चावलोकितम् ।
रूपं तेजोमयं दिव्यं व्यापकं सीमशून्यकम् ॥१७॥
कोटिकोट्यर्कसंकाशं स्वात्मरूपं विलोकितम् ।
आत्मना चक्षुषा चात्मा स्वेनैव स्वो विलोकितः ॥१८॥
अनन्ताऽऽनन्दसन्दोहो ह्यनन्तसुखशेवधिः ।
अनन्ताश्चर्यसम्पूर्णो ह्यप्रसंख्यचमत्कृतिः ॥१९॥
अनन्तैश्वर्यसम्पन्नो ह्यनन्तधामदर्शनः ।
अनन्ताऽब्जाणुसदृशब्रह्माण्डकोटिरोमकः ॥२०॥
आत्मा स्वं दृष्टवान् विप्रः पत्नीव्रतस्तदन्तरे ।
तदा तत्राऽक्षरं ब्रह्म धाम तेजोमयं महत् ॥२१॥
ददर्शाऽसीमतैजस्वि परब्रह्मनिवासवत् ।
तत्राऽयं तैर्थिको विप्रो नारायणस्वरूपवान् ॥२२॥
संस्थितो दिव्यसौवर्णमणिसिंहासने शुभे ।
अनन्ताऽनन्तमुक्तैः संसेवितो धर्मभक्तिभिः ॥२३॥
असंख्यस्वप्रियादिव्यतन्वीभिः परिवारितः ।
तत्रत्यैः सत्कृतां पूजामादायाऽऽगच्छतामुभौ ॥२४॥
ब्रह्मधाम्नि सभा दिव्या कथा यत्र प्रवर्तते ।
तत्रागतौ च तौ देवौ सदस्यैः सत्कृतौ स्थितौ ॥२५॥
उपविष्टौ तदर्थं संक्लृप्ताऽऽसनवरेण्ययोः ।
कथायां वाच्यमानायां नारायणह्रदाप्लवम् ॥२६॥
कृतं तेन च तेषां वै धाम्न्यत्र मुक्तिरिष्यते ।
तत्राऽस्मान् ब्रह्मधामस्थान् मुक्तान् स्मरन्ति ये जनाः ॥२७॥
ये भक्तास्तद्ध्रदे स्नान्ति पिबन्ति सलिलं च ये ।
तेषां फलं सदाऽक्षय्यं धाम्न्यत्र संप्रजायते ॥२८॥
अस्मान् संस्मृत्य संस्मृत्य जलं पास्यन्ति ये पितॄन् ।
तेषां ते पितरस्तत्र मुक्तिं यास्यन्ति धामनि ॥२९॥
नारायणमनुस्मृत्य जलं पास्यन्ति ये जनाः ।
तेषां सत्कार्यतश्चात्र स्वयं नारायणो हरिः ॥३०॥
प्रसन्नो भवति तृप्तस्तेन तृप्ता वयं सदा ।
इत्यादिकीं वरां गाथां श्रुतवन्तावुभौ सुरौ ॥३१॥
तत्रत्यैः सत्कृतां पूजां गृहीत्वा ययतुस्ततः ।
गोलोकं धाम परमं कृष्णगोपीजनावृतम् ॥३२॥
कोटीनां गोपगोपीनां मध्ये कृष्णस्वरूपतः ।
संस्थितस्तैर्थिको विप्रो दृष्टः पत्नीव्रतेन वै ॥३३॥
तत्रत्यैः पूजितः कृष्णः शुश्राव रसकीर्तनम् ।
नारायणह्रदस्नानबलाद्वै कृष्णमन्दिरम् ॥३४॥
आयान्ति बहवो मुक्तास्तृप्यन्ति कणयोगतः ।
तत्र स्नानोत्सवादिभ्यः कृष्णो याति प्रसन्नताम् ॥३५॥
कृष्णे प्रसन्ने गोलोकः सर्वस्तृप्तः सदास्ति यत् ।
श्रुत्वैतत् तौ गतौ देवौ वैकुण्ठं धाम यन्महत् ॥३६॥
तत्रत्यैर्वन्दितौ तद्वत् स्वासने सन्निषादितौ ।
तत्र तौ द्वौ दिव्यविप्रौ नारायणौ बभूवतुः ॥३७॥
नाण्वपि न्यूनता तत्र द्वयोर्नारायणात्मनोः ।
चतुर्भुजौ च तौ जातौ नैकलक्ष्मीनिषेवितौ ॥३८॥
सत्कृतौ सेवितौ तौ द्वौ दृष्ट्वा रूपं परस्परम् ।
श्रुतवन्तौ स्तुतिं दिव्यां लक्ष्यादिगदितां शुभाम् ॥३९॥
नारायणह्रदे स्नानं पानं तथा च तर्पणम् ।
कृतं येन यदर्थे वै ते स्युर्वैकुण्ठवासिनः ॥४०॥
तत्कृतां महतीं पूजां गृह्णात्येव हरिः स्वयम् ।
नारायणः सदा श्रीमान् प्रसन्नो भवति ध्रुवम् ॥४१॥
तस्य प्रसन्नतालाभे वयं तृप्ताः सदा स्म ओम्' ।
इत्यानन्दमयीं वाचं श्रुत्वाऽमृतं तु जग्मतुः ॥४२॥
धाम्न्यमृते तन्निवासिप्रदत्ते ह्यासने वरे ।
समुपतिष्ठतस्तौ द्वौ सत्कृतौ मानितौ मुहुः ॥४३॥
श्रुतवन्तौ च तत्रत्यां कथां लक्ष्मीनिवेदिताम् ।
रैवताख्ये महादिव्ये स्वर्णरेखानदीजले ॥४४॥
नारायणह्रदे स्नानात्पानात्तद्वच्च तर्पणात् ।
भूमानारायणस्तृप्तः प्रसन्नो भवति ध्रुवम् ॥४५॥
तस्य प्रसन्नतातृप्त्या वयं तृप्ताः सदा मताः ।
श्रुत्वा नारायणौ तौ द्वौ लोके प्राकृतपौरुषे ॥४६॥
प्राधानपौरुषे लोके गत्वा चाऽव्याकृते ततः ।
लोके हैरण्यकोशाख्ये वैराजे च तथा गतौ ॥४७॥
श्वेतद्वीपे बदर्यां च क्षैरे धामनि वैष्णवे ।
सादाशैवे तथा मायालोके चावरणेषु च ॥४८॥
गतौ चैश्वरलोकेषु तत्रत्यैः पूजितौ तथा ।
वन्दितौ सत्कृतौ तत्र श्रुतवन्तौ कथां शुभाम् ॥४९॥
नारायणह्रदे स्नानात् दानात् पानाच्च तर्पणात्॥
नारायणः प्रसन्नो वै जायते तत्कृपावशात् ॥५०॥
वयं तृप्ताः सदा स्मोऽत्राऽमृतमैश्वरमेव तत् ।
नारायणह्रदो ब्रह्मधाम चाऽक्षरमेव तत् ॥५१॥
तज्जलं तद्धाम तृप्तिरानन्दद्रव एव सः ।
तद्वै नारायणमूर्तेः सुखमानन्दमेव यत् ॥५२॥
तेन तृप्ताः सदा स्मोऽत्र वयं हरेः प्रसादतः ।
इति तौ ब्राह्मणौ नारायणावीश्वरभूमिकाः ॥५३॥
दृष्ट्वाऽऽयातौ सत्यलोके वैराजाख्ये स्तरे तदा ।
तत्रत्यैर्बहुभिस्तत्रर्षिपितृमुनिभिस्तथा ॥५४॥
ब्रह्मणश्च सभायां वै सरस्वत्यादिभिस्तथा ।
गायत्र्या चैव सावित्र्याऽसिक्न्या च सन्ध्यया तथा ॥५५॥
पलिक्न्या च विरिण्या च शतरूपादिभिस्तथा ।
रत्या सृष्ट्या च मोहिन्या कद्रूवा तापसिकाजनैः ॥५६॥
वन्दितौ पूजितौ देवौ सत्कृतौ विष्टरंगतौ ।
श्रुतवन्तौ कथां दिव्या धन्यो नारायणो ह्रदः ॥५७॥
यत्र वै तर्पणादस्मान् पोषयन्ति च भूसुराः ।
कार्तिक्यां तर्पणं तत्रैकवारं येन संकृतम् ॥५८॥
अब्जवर्षाऽर्बुदान्यस्मत्तृप्तिर्भवति शाश्वती ।
अथापि ये द्विजाः पत्नीव्रतप्रख्या भुवि स्थिताः ॥५९॥
श्राद्धं तत्रार्चनं तद्वत् करिष्यन्ति च तर्पणम् ।
तेनाऽक्षय्या पुनस्तृप्तिर्भवितैव सुखं सुखम्' ॥६०॥
श्रुत्वैतत्तौ तदाऽऽयातौ कैलासे शिवसन्निधौ ।
तत्र स पार्वतीशंभुगणैः संपूजितौ च तौ ॥६१॥
स्थापितावासने श्रेष्ठे श्रुतवन्तौ च तत्कथाम् ।
नारायणह्रदे दिव्ये भवेश्वरसुसन्निधौ ॥६२॥
स्वर्णरेखाजले पूर्वे युगे सत्ये तु भूसुरैः ।
तर्पितास्तु वयं तृप्ता इदानीं यावदत्र वै ॥६३॥
अथेमौ ब्राह्मणौ गत्वा तर्पणं प्रकरिष्यतः ।
तदा पुनर्महातृप्तिं गमिष्याम इति ध्रुवम् ॥६४॥
अथ ध्रुवोपरि विष्णुलोके च सौर्यमण्डले ।
वाह्नेयमण्डले महर्जनयोस्तपसि स्तरे ॥६५॥
स्वर्गे च दिक्प्रपालानां लोकेषु च गतावुभौ ।
भुवर्लोके गतौ तत्र शुश्रवतुः सुतर्पणम् ॥६६॥
नारायणह्रदे पूर्वे तर्पणेन कृतेन वै ।
इदानीं यावत्। तृप्ताः स्म पुनश्चेमौ करिष्यतः ॥६७॥
तर्पणं तेन तृप्तिं वै प्राप्स्यामः शाश्वतीः समाः ।
श्रुत्वैतद्दक्षिणं मार्गं जग्मतुस्तौ दयालयौ ॥६८॥
श्रावणाः पितरो दृष्टा दृष्टाश्च प्रेतपितृकाः ।
याम्याश्च पितरो दृष्टा दृष्टाश्च यमभूमयः ॥६९॥
तत्र तत्र च ते जीवा नारायणांगसंगमात् ।
वायोः संस्पर्शनेनात्र सुखिनो ह्यभवन् क्षणात् ॥७०॥
अत्यार्ताश्चाऽब्रुवँस्तौ ते ह्युद्धारं कुरुतं प्रभू ।
भवन्तौ द्वौ द्विजौ पुण्यौ पुण्यदौ दृष्टिगोचरौ ॥७१॥
नारायणह्रदेऽस्माकं तृप्त्यर्थं कुरुतं शुभौ ।
श्राद्धं च तर्पणं स्नानं तृप्तिं यास्याम ऐश्वरीम् ॥७२॥
ततस्तौ चागतौ भूमौ तत्र चतुःखनिष्वपि ।
स्थितैर्जीवैः प्रार्थितौ तौ तर्पणार्थं दयालयौ ॥७३॥
एवं पातालपर्यन्तं नारायणेन सर्वथा ।
पत्नीव्रताय सर्वं तत् दर्शितं सुसमाधिना ॥७४॥
तत्रत्यवासिभिस्तत्र प्रार्थितं दुःखनाशनम् ।
नारायणह्रदे दिव्ये स्वर्णरेखाजले तु यौ ॥७५॥
अस्माकं च कृते देवौ तर्पणं संकरिष्यथः ।
तेनाऽस्माकं शाश्वती वै तृप्तिर्भाव्याऽथ मोक्षणम्' ॥७६॥
इत्यर्थनां च तौ श्रुत्वा ह्यागता तु क्षणान्तरे ।
नारायणह्रदो यत्र तत्र पत्नीव्रतो द्विजः ॥७७॥
समाधेर्बहिरागच्छत् तावदाश्चर्यमाप्तवान् ।
अहो किंकिं मया दृष्टं क्वाऽहं क्व च गता नु ते ॥७८॥
कोऽयं च यात्रिको विप्रः किमेतत् स्वप्नमागतम् ।
तावन्नारायणस्तत्र जातश्चतुर्भुजो हरिः ॥७९॥
गरुडांऽसंस्थितो देवो लक्ष्मीकृतांऽकसंस्थितिः ।
पार्षदैर्वर्धितो जयप्रभतिमांगलैः पदैः ॥८०॥
दृष्ट्वा देवं तदा लक्ष्मीनारायणं तुतोष सः ।
नमस्कृत्याऽर्हणं कृत्वा पादयोरपतत् सुरः ॥८१॥
प्रह्वीभूतहृदा विप्रः प्राह गद्गदया गिरा ।
किमेतद्दर्शितं देव! कथं विप्रस्तु तैर्थिकः ॥८२॥
किमत्र कारणं कृष्ण! तारितोऽहं कृपालुना ।
अहो मे भाग्यसौभाग्यं यद्धरेर्दर्शनं गतः ॥८३॥
किमस्मादधिकं मन्ये तीर्थयात्राफलं मम ।
स्वयं नारायणो दामोदरोऽस्ति भगवान् भवान् ॥८४॥
मदुद्धाराय जग्राह भवाँस्तैर्थिकरूपणाम् ।
नतोऽस्म्यनुगृहीतोऽस्म्यर्थितोऽस्म्यभिमतोऽस्मि च ॥८५॥
नास्ति मे मोक्षणे न्यूनं यत्र सार्थो भवान्मतः ।
साक्षान्नारायणो मह्यं मिलितो रैवते स्थले ॥८६॥
दर्शिता च समाधौ वै ब्रह्मसृष्टिस्तथाऽपरा ।
ईशसृष्टिश्च धामानि लोकसृष्टिस्तथेतरा ॥८७॥
यमसृष्टिर्नागसृष्टिर्द्रष्टुं यन्नावशिष्यते ।
सर्वं वै दर्शितं मह्यं शाधि किं करवाणि ते ॥८८॥
नारायणस्तदा प्राह द्विजं पत्नीव्रतं तदा ।
शृणु ब्राह्मण ते गाथां को भवानिति वर्णये ॥८९॥
गोलोके यः स्वयं कृष्णो रुक्मिणी चापि तत्प्रिया ।
कुंकुमवाप्यां तौ देवौ जनकल्याणहेतवे ॥९०॥
प्रकटितौ मानसौ कम्भरागोपालसंज्ञकौ ।
रुक्मिणी कम्भरा जाता कृष्णो गोपालसंज्ञकः ॥९१॥
अश्वपट्टमहत्तीर्थे तत्रोषितौ कृते युगे ।
त्वं वै नारायणः साक्षाद्वैकुण्ठाधिपतिः प्रभुः ॥९२॥
पतिव्रताख्यां पत्नीं तां लक्ष्मीं नीत्वा च तत्स्थले ।
लक्ष्मीनारायणस्त्वं वै प्रादुर्भूतोऽत्र भूतले ॥९३॥
मया पूर्वमुभौ तौ वै भवन्तौ ब्राह्मणौ कृतौ ।
यदा भूमौ सृष्टिमूलं भवानेकस्तु मानसः ॥९४॥
प्रकटीऽभूत्ततस्ते वै वंशप्रवंशविस्तरः ।
अक्षरे च गवां लोके वैकुण्ठेऽव्याकृते तथा ॥९५॥
अमृते श्वेतविभवे क्षीरे चाऽब्धौ विराजके ।
चतुर्दशसु लोकेषु तव वंश्या भवन्ति वै ॥९६॥
ते मया दर्शिता तुभ्यं त्वं तु नारायणः स्वयम् ।
शाश्वतः सृष्टिजीवानां तर्पणात् तृप्तिदो विभुः ॥९७॥
इति ते दर्शितं मुख्यं यद्भवान् पितरौ च यौ ।
अथाऽऽगत्य च मे पूजा तर्पणादिकमत्र वै ॥९८॥
दामोदरे कृतं तेन प्रसन्नोऽहं हरिः स्वयम् ।
इयेष दर्शनं दातुं ततोऽहं नीतवानितः ॥९९॥
रम्ये नारायणहृदे मम तीर्थे सुशोभने ।
निर्जनेऽहं त्वया दृष्टो ह्येषोऽनुग्रहसागरः ॥१००॥
मम बोध्यस्त्वया विप्रनान्यस्त्वं त्वहमेव हि ।
अहं कृष्णो भवान् विष्णुर्द्वावपि लोकपोषकौ ॥१०१॥
जगतां तृप्तिदौ तस्मादत्र नारायणे ह्रदे ।
सर्वेषां तृप्तये श्राद्धं तर्पणं कार्यमित्यपि ॥१०२॥
भवान् गुरुरहं चात्र यजमानो भवामि वै ।
गावः सन्ति च मे पार्श्वे गोलोके दुग्धदास्तथा ॥१०३॥
वृक्षा वल्ल्यश्च फलदा धान्यदा पृथिवी मता ।
सर्वं दाक्षिणकं द्रव्यं मदग्रे बहु वर्तते ॥१०४॥
कारयाऽत्र महच्छ्राद्धं तर्पणं सार्वभौमिकम् ।
इत्याज्ञप्य च तौ देवौ स्नातौ तत्र ह्रदे शुभे ॥१०५॥
तावत्तत्र तदा देवा देव्यश्चापि समागताः ।
लोकपाला दिशांपाला नद्यश्च पर्वतास्तथा ॥१०६॥
कामधेनवोऽसंख्याता गोलोकात्समुपागताः ।
वैकुण्ठाच्च रमाः सर्वास्तथाऽन्ये साधवोऽखिलाः ॥१०७॥
महर्षयश्च मुनयो वृक्षा वल्ल्यश्च वार्धयः ।
श्राद्धोपकरणान्यादायात्र सर्वे ह्युपस्थिताः ॥१०८॥
श्रीकृष्णस्तु स्वयं दामोदरो वै यजमानकः ।
पत्नीव्रतः स्वयं नारायणः श्राद्धकरोऽभवत् ॥१०९॥
श्रद्धया दीयते यत्तच्छ्राद्धं वै पूजनं मतम् ।
नारायणात्समारभ्य सर्वेषां तद्भवेत्खलु ॥११०॥
सर्वसमर्पणा भक्तिः श्राद्धं नारायणादिके ।
तृप्त्यर्पणात्मिका भक्तिः श्राद्धं प्रेतादिके मतम् ॥१११॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पत्नीव्रताख्यविप्रस्य रैवताचले तीर्थयात्रायां दामोदरपूजनादिना साक्षाद्दर्शनं समाधौ सर्वधामसर्वलोकदर्शनं स्वस्य नारायणावतारप्रदर्शनं नारायणह्रदे श्राद्धार्थमागमश्चेत्यादिनिरूपणनामैकोनषष्ठ्यधिकशततमोऽध्यायः ॥१५९॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP