संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १९१

कृतयुगसन्तानः - अध्यायः १९१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु प्रिये प्रवक्ष्यामि शंभुः किं किं चकार च ।
कैलासे संस्थितो देवः प्राप्य मंगलपत्रिकाम् ॥१॥
मानं व्यधाद् वाचयित्वा स्वीचकार विधानतः ।
सत्कृत्य पत्रिकावाहं यापयामास चादरात् ॥२॥
विष्णुप्रभृतिदेवान्निमन्त्रयामास शंकरः ।
सर्वे आयान्तु सोत्साहा सस्त्रीपुत्रसुतादयः ॥३॥
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे तु ते ।
स्वकीया नैव मन्तव्या ये केऽपि स्युर्महाजनाः ॥४॥
नारदं प्रेषयामास चतुर्दशसु भूमिषु ।
निमन्त्र्य मानतः सर्वान् त्वाययौ शंकरं मुनिः ॥५॥
अथ प्राघूणिकानां च सन्मानाय तु शंभुना ।
रचितं नगरं दिव्यं कैलासमपरं नवम् ॥६॥
सौधानि यत्र लक्षाणि गृहाश्च कोटिशस्तथा ।
उद्यानानि सहस्राणि वाटिकाः शतशस्तथा ॥७॥
वाप्यश्च दीर्घिकाश्चैव विमानानि च मण्डपाः ।
रसशालाः सूदशाला नृत्यशाला विहारिकाः ॥८॥
भोज्यशाला मोदशालाः प्रदर्शन्यस्तथाऽतुलाः ।
पानशालाः स्नानशालाः कुण्डाः कथासभागृहाः ॥९॥
मण्डपाः कारिता दिव्याः समस्तं निहितं दिवम् ।
न न्यूनं ब्रह्मलोकाद्वा वैकुण्ठाद्वापि नाकतः ॥१०॥
जनवाहास्त्वाययुश्च ब्रह्माण्डस्था निमन्त्रिताः ।
सकुटुम्बपरीवारदासदासीसुहृज्जनाः ॥११॥
प्रथमं तु महाविष्णुर्लक्ष्मीयुक्तः सपार्षदः ।
शृंगारान् रचयित्वा चाऽऽजगाम सपरिच्छदः ॥१रे॥
स्वकुटुम्बानि सर्वाणि चादाय विश्वसृट् तथा ।
तद्दासदासीवर्गैश्चाऽऽययौ चाऽलंकृतोऽभितः ॥१३॥
वैराजा ब्रह्ममुनयो वासुदेवादयस्तथा ।
अवतारा हरेश्चैव रुद्राश्च कोटिशस्तथा ॥१४॥
यमादयश्च पितरः सौर्याश्चान्द्रा गणास्तथा ।
लोकपालाश्च ऋषयो दिक्पाला भिन्नमूर्तयः ॥१५॥
सालंकृताः सशृंगाराः सर्वपरिच्छदैर्युताः ।
सस्त्रीपुत्रसुतात्वसृतत्कुटुम्बादिकान्विताः ॥१६॥
आययुः शिवकैलासं विवाहः शिवयोरिति ।
पितरौ द्यौः समस्ता च यक्षाश्च राक्षसा अपि ॥१७॥
भूताः प्रेताः पिशाचाश्च गणाश्चार्बुदकोटयः ।
कूष्माण्डा भैरवाश्चैव वैताला श्चाग्नयस्तथा ॥१८॥
विद्युतश्च महाकालो जरामृत्युमहालयाः ।
रात्र्यो धूम्रास्तथा देव्यश्चण्डिकाद्याश्च मातरः ॥१९॥
ज्वराश्चापि तथा रोगाः केतवश्च ग्रहास्तथा ।
उपद्रवास्तथाऽऽयाता विवाहः शिवयोरिति ॥२०॥
किंपुरुषा मागधाश्च सूताश्चापि च बन्दिनः ।
चारणाश्च तथा भूस्था दिव्यमानुषयोनयः ॥२१॥
स्थावरा जंगमाश्चैवाऽर्णवा नद्यो नदादयः ।
असुरा दानवा दैत्याः शैवा ये कद्रुजास्तथा ॥२२॥
नागाः सर्पाश्च गरुडा ये चान्ये शैवपक्षगाः ।
देवा देव्यश्चार्बुदाब्जशेवधिसंख्यकास्तदा ॥२३॥
सस्त्रीपुत्रकुटुम्बाश्च पृथ्व्याद्याः शिवमूर्तयः ।
सोत्साहाः सपरिच्छदाः सालंकाराः सवाहनाः ॥२४॥
दुर्वासादिमहायोगिजना योगिन्य इत्यपि ।
साध्व्योऽवधूतवर्याश्चाऽवधूतान्यस्तदाऽऽययुः ॥२५॥
आजग्मुर्ब्रह्मचारिण्यो दुर्गा देव्यस्तथाऽऽययुः ।
शक्तयश्चाययुः सर्वा विवाहः शिवयोरिति ॥२६॥
आगतानां स्वयं शंभुः सत्कारान् बहुधा व्यधात् ।
महोत्सवे सुनृत्यानि चक्रे नर्तकिकागणः ॥२७॥
वरयात्रां कारयितुं कैलासे महीमानकाः ।
न्यूषुः कार्यं स्वकं मत्वा चक्रिरे सुसहायताम् ॥२८॥
चक्रिरे गिष्टकामर्द शंभोवै- सर्वमातरः ।
चक्रिरे च यथायोग्यं शिवभूषाविधिं परम् ॥२९॥
अवाद्यन्त सुवाद्यानि शिवभूषाविधौ तदा ।
भुंजते च महीमाना नृत्यन्ति सुरयोषितः ॥३०॥
शृंगारयन्ति यानानि जनवाहाः पृथक्-पृथक् ।
संस्कारयन्ति गात्राणि देव्यः श्रांगारिकैर्द्रवैः ॥३१॥
महोत्साहाः प्रवर्तन्ते मण्डपे मण्डपे तदा ।
पूर्वसृष्टौ समुत्पन्ना गणेशाः कार्तिकास्तथा ॥३२॥
वैराजधामतो लक्षा आययुर्मंगलार्थकाः ।
शाश्वतस्य पितुः कार्ये सहाया वाहिनीकृते ॥३३॥
शिवस्य तु तदा वेषः कीदृशोऽभूच्छृणु प्रिये ।
तस्य स्वाभाविको वेषो भूषाविधिरभूत् तदा ॥३४॥
स्वाभाविके जटायूथे विद्युतः स्तनयित्नवः ।
शीता भूत्वा स्थिता ह्यासन् प्रोज्ज्वलाः केशराशयः ॥३५॥
गंगा स्वयं वारिरूपा ब्रह्मकिरणमिश्रिता ।
तेजःपरिधिं त्वभितश्चक्रे धाममयं तदा ॥३६॥
गोलोकात्स्वर्णमुकुटो दिव्यो जटासहायकृत् ।
श्रीकृष्णेनार्पितः कल्गिसहितो मूर्ध्नि राजते ॥३७॥
पारीजातकुसुमानां हाराली तत्र लम्बते ।
द्वितीयायाः शशी भाले सकलस्तिलकायते ।, ३८॥
शान्तमुन्निद्रमतिभं चक्षुर्भाले तृतीयकम् ।
सप्रकाशं तदा भाले त्रिपुंड्ररचनायते ॥३९॥
कामरूपधरौ सर्पौ वासुकी कर्णयोस्तदा ।
कुण्डलेऽभवतां शंभोः रत्नमण्यंचिते प्रभे ॥४०॥
कण्ठे तु वासुकिः कण्ठी पौरटी दृश्यते शुभा ।
भुजयोर्वासुकी स्वर्णकटकेऽभवतां तदा ॥४१॥
रुद्राक्षाश्च तदा शंभोः प्रकोष्ठशृङ्खलामयाः ।
पौरटा मणियुक्ताश्च बभूबुः कामरूपगाः ॥४२॥
मालायाः स्फटिकाश्चास्योर्मिकाः स्युस्त्वग्निजाः शुभाः ।
चिताभस्माऽस्य नेत्रेषु कज्जलं चाऽभवत् तदा ॥४३॥
तच्च भस्म मुखे शंभोर्द्रवो जातो हि दुग्धजः ।
धवलं लेपनं चूर्णं भस्माऽभवत्तु वर्ष्मणि ॥४४॥
वल्कलं तु तदा जातं स्वर्णकंचुकमुत्तमम् ।
गजचर्म तदा जातं सुसम्राडुत्तरीयकम् ॥८५॥
मेखला च तदा जाता रशना दिव्यपौरटी ।
सप्तविंशतिरज्ज्वाढ्या नद्धसद्रत्नहीरका ॥४६॥
तदा हिमकणाः शंभोरभवंश्चन्दनार्हणाः ।
कण्ठस्थितं विषं तस्य तदा वै कौस्तुभोऽभवत् ॥४७॥
व्याघ्रचर्माऽभवत् कट्यां दुकूलं पीतवस्त्रकम् ।
त्रिशूलं चाऽभवत्तस्य स्वर्णखड्गो महोज्ज्वलः ॥४८॥
पावटिकाऽभवत्तस्य पौरटी यष्टिका शुभा ।
काष्ठस्य पादुके स्वर्णमखमल्लसुकोमले ॥४९॥
सुस्निग्धेऽभवां पादरक्षिके दिव्यशोभने ।
भंगाऽभवत्तदा चास्य ताम्बूलं सुसुगन्धवत् ॥५०॥
गृंजोऽभवत्तदा तस्योत्तेजिका गूटिका परा ।
कनकाश्च तदा तस्याऽभवत्केयूरनूपुराः ॥ ५१॥
मुण्डमालाऽभवन्महामणिमाला ह्यमूल्यका ।
कपालं च तदा त्वस्याऽभवच्छ्रेष्ठसुशेखरः ॥५२॥
विवृत्य वृषभस्तत्राऽभवत् श्वेतं विमानकम् ।
सहस्रश्वेतहस्त्यश्ववृषवाहादिसंयुतम् ॥५३॥
गजाधिरूढो देवेन्द्रश्छत्रं शुष्कपटं विभोः ।
धारयामास विततं सहेन्द्राण्या सहस्रधृक् ॥५४॥
यमुना सरितांश्रेष्ठा कच्छपे संस्थिता तदा ।
प्रगृह्य वालव्यजन श्वेतं भाति च पार्श्वतः ॥५५॥
सरस्वती द्वितीयं तद्गजारूढा समादधे ।
ऋतवः षट् कुसुमानामंजलीन्दधते हरे ॥५६॥
वह्नयश्च प्रदीपान्संगृह्य वै सर्वतः स्थिताः ।
समुद्रश्चानुलेपस्य पात्रमादाय संस्थितः ॥५७॥
ईदृशं सुन्दरं रूपं कामरूपं धृतं तदा ।
सर्वं परिणतं चेशेऽपरिणामपरात्मनि ॥५८॥
ईशेच्छया क्रूर रूपा योग्यरूपास्तदाऽभवन् ।
वरयोग्यविभूषास्तेऽभवन् श्रीशंकरेच्छया ॥५९॥
एवं यात्राजने सज्जीकृते शंकरपक्षगाः ।
समेत्य प्राहुरस्माभिः सह यानं कुरु प्रभो ॥६०॥
विष्णुः प्राह तदा शंभुं गृह्योक्तविधिनाऽद्य वै ।
स्वविवाहस्य पार्वत्याः कर्म कर्तुमिहाऽर्हसि ॥६१॥
मण्डपस्थापनं नान्दीमुखं कर्म च कारय ।
ब्रह्मा ह्यधिकृतस्तत्राऽभ्युदयोचितकर्मणि ॥६२॥
ब्रह्मणा नोदिताश्चक्रुः ऋषयो विधिवत् क्रियाम् ।
कश्यपोऽत्रिर्गौतमश्च कण्वो ब्रहस्पतिर्गुरुः ॥६३॥
वसिष्ठो भागुरिः शक्तिरगस्त्यश्च्यवनस्तथा ।
गर्गः शिलादोऽकृतश्रमोऽरुणश्च पराशरः ॥६४॥
जमदग्निः शिलापाको मार्कण्डेयोऽकृतवृणः ।
भरद्वाजो दधीचिश्चोपमन्युः कुशिकस्तथा ॥६५॥
पिप्पलादश्च कौत्सश्च श्वेतव्यासः सशिष्यकः ।
वेदोक्तविधिकर्माणो वेदवेदांगपारगाः ॥६६॥
ऋषयो लक्षशस्तत्र त्वाययुर्मंगलाह्वयाः ।
रक्षां चक्रुश्च ते शंभोः कृत्वा कौतुकमंगलम् ॥६७॥
वेदोक्तविधिना चक्रुः ऋग्यजुःसामसूक्तकैः ।
मंगलानि विविधानि शंभुना ग्रहपूजनम् ॥६८॥
मडलस्थसुरपूजां चक्रुश्च विघ्नशान्तये ।
ततः शिवः प्रसन्नः सन्ननाम द्विजपुंगवान् ॥६९॥
विप्रान् देवादिकानग्रे कृत्वा वै निःससार सः ।
कैलासाच्च बहिः सज्जो भूत्वा गत्वा स्थितो हरः ॥७०॥
गानवाद्यसुनृत्यानि जायन्ते च तदोत्सवः ।
ययुश्चापि गणाश्चान्यो कैलासरक्षकान् विना ॥७१॥
अभ्यगाच्छंखकर्णश्च गणकोट्या सुस्मृद्धया ।
दशकोट्या केकराक्षो विकृतश्चाऽष्टकोटिकः ॥७२॥
चतुःकोट्या विशाखः पारिजातो नवकोटिकः ।
सर्वान्तकश्च विकृताननश्च षष्टिकोटिभिः ॥७३॥
दुन्दुभोऽष्टकोटिभिश्च कपालः पञ्चकोटिभिः ।
कन्दुकः कुन्दकश्चोभौ कोटिकोटिगणैर्युतौ ॥७४॥
षड्भिः सन्दारको विष्टंभकोऽष्टकोटिभिर्युतः ।
पिप्पलश्च सनादश्च सहस्रकोटिभिर्युतः ॥७५॥
आवेशनोऽष्टकोटिभिस्तद्वद्वै चन्द्रतापनः ।
सहस्रकोटिभिर्युक्तो महाकेशो गणो ययौ ॥७६॥
कुण्डश्च पर्वतश्चैव द्वादशकोटिसंयुतौ ।
कालश्च कालकश्चाग्निर्महाकालो गणेश्वराः ॥७७॥
शतकोटिगणैर्युक्ताः कोट्याऽग्निमुख इत्यपि ।
आदित्यमूर्धा कोट्या च कोट्या चैव घनावहः ॥७८॥
सन्नाहः कुमुदोऽमोघः कोकिलो गणनायकाः ।
शतकोट्या ययुश्चाथ सुमन्त्रः कोटिकोटिभिः ॥७९॥
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ।
महाबलो मधुपिंगो नवभिः कोटिभिर्युतः ॥८०॥
नीलश्च पूर्णभद्रश्च नवतिकोटिभिर्युतौ ।
चतुर्वक्त्रः सप्तकोट्या करणो विंशकोटियुक् ॥८१॥
यज्वाक्षः शतमन्युश्च मेघमन्युस्तथा परः ।
अहिरोमको नवतिकोटिभिः सहिता ययुः ॥८२॥
काष्ठागूष्टश्चतुःषष्ट्या सहितो गणनायकः ।
विरूपाक्षः सुकेशश्च वृषभश्च सनातनः ॥८३॥
संवर्तको लकुलीशश्चञ्च्वास्यश्च षडाननः ।
संवर्तकस्तालकेतुर्नकुलीशोऽथ चैत्रकः ॥८४॥
लोकान्तकश्च दीप्तात्मा भृंगिदैत्यान्तकस्तथा ।
रिटिर्देवप्रियोऽशनिर्भानुकश्च गणा इमे ॥८५॥
चतुःषष्टिकोटिगणैर्ययुर्विवाहसूत्सवाः ।
साऽलंकाराः शुभवेषा विवाहः शिवयोरिति ॥८६॥
भूतकोटिसहस्रं प्रमथास्त्रिकोटिका ययुः ।
वीरभद्रश्चतुःषष्ट्या रोमजानुस्त्रिकोटिभिः ॥८७॥
नन्याद्या द्विसहस्रेण कोटिकोटिसहस्रकैः ।
कोटिकोटिगणैर्युक्तो भैरवोऽपि ययौ तदा ॥८८॥
अनेकहस्ताः सुरूपा जटामुकुटधारिणः ।
चन्द्रभालाः सुत्रिनेत्रा नीलकण्ठास्त्रिशूलिनः ॥८९॥
रुद्राक्षभस्मसंशोभा दिव्यरूपा महेश्वराः ।
हारकेयूरकुण्डलमुकुटाद्यैरलंकृताः ॥९०॥
अणिमाद्यैः सेविताश्च व्योमभूस्वर्गचारिणः ।
सप्तस्वःसप्तपातालचारिणः के च संययुः ॥९१॥
सर्वे प्रसन्नमनसः कामरूपधरास्तथा ।
देवाः सौम्यास्तदा भूत्वा ययुस्तस्मिन् महोत्सवे ॥९२॥
हर्षो माति न सर्वेषां विवाहः शिवयोरिति ।
रुद्रस्य भगिनी चण्डी सर्पाभरणभूषिता ॥९३॥
प्रेतवाहसमारूढा मूर्ध्नि स्वर्णघटान्विता ।
जलपूर्णकलशा सा सुरूपा हर्षविह्वला ॥९४॥
कुतूहलसमायुक्ता तत्राऽऽजगाम सूत्सवे ।
कोटिभूतगणैर्युक्ता ह्यायाता जयवादिनी ॥९५॥
कोट्यैकादशरुद्रैश्च पृष्ठं यातैरनुसृता ।
डमरूणां महाघोषास्तदा व्याप्ता जगत्त्रये ॥९६॥
दुन्दुभिशंखभेरिणां घोषैश्चापूरितं जगत् ।
गणानां पृष्ठतो देवास्ततः सिद्धा महर्षयः ॥९७॥
ततोऽन्वयुर्लोकपाला मध्ये सगरुडो हरिः ।
लक्ष्मीयुक् पार्षदैर्युक्तः स्वभूषाभूषितैः शुभैः ॥९८॥
कोट्यर्बुदैर्वैष्णवैश्च दासैरब्जाब्जवर्गकैः ।
लक्ष्मीभिश्च रमाभिश्च कमलाभिर्युतो ययौ ॥९९॥
ततो ब्रह्मा वेदशास्त्रसंहिताऽऽगमवित्तिभिः ।
वैराजैर्ब्रह्मचर्यस्थैः सिद्धैश्च सनकादिभिः ॥१००॥
प्रजापतिभिः पुत्रैश्च सावित्रीप्रमदादिभिः ।
ऋषिभिर्मुनिभिश्चैव सालंकृतोऽनुसंययौ ॥१०१॥
हंसयानविमानैश्च वाहनैः समलंकृतैः ।
ततः ससैन्यस्त्विन्द्रश्च ऐरावतकृतासनः ॥१०२॥
नैकदेवगणैर्युक्तो रेजे सालंकृतः कृती ।
ततश्च ऋषयो विप्राः साध्यश्च साधवस्तथा ॥१०३॥
त्यागिनो वानप्रस्थाश्च वैष्णवाः संययुर्मुदा ।
सर्वे निमन्त्रिता हृष्टा विवाहः शिवयोरिति ॥१०४॥
योगिनो यतयश्चैव वीतरागाः शिवायनाः ।
सन्न्यासिनस्तदा जग्मुमुर्विवाहः शिवयोरिति ॥१०५॥
गण्यश्च गणिकाश्चापि कोटिकोटयः शिवायनाः ।
गणदास्यो गणपत्न्यो जग्मुरसंख्यकोटिकाः ॥१०६॥
भूषावेशादिसंशोभाः सर्वालंकृतिशोभनाः ।
सर्वाः कैलासवासास्ता विवाहः शिवयोरिति ॥१०७॥
ततो ययुर्योगिनीनां मण्डलान्यर्बुदानि च ।
सन्यासिनीनां यूथानि कोट्यब्जानि ययुर्मुदा ॥१०८॥
यदर्थमाश्रमाः सर्वे वर्णा यदर्थमादृताः ।
यदर्थं सम्प्रदायास्तद्विवाहः शिवयोरिति ॥१०९॥
डाकिन्यश्चापि शाकिन्यो वेतालिन्यश्च मातरः ।
भैरव्यो यातुधान्यश्च किन्नर्यश्च ययुस्तदा ॥११०॥
तुम्बुरुर्नारदो हाहा हूहूश्च पर्वतादयः ।
गन्धर्वाः किन्नरा जग्मुर्वाद्यान्याध्माय हर्षिताः ॥१११॥
कोटिकन्यापरिवृतो वरः शृंगारशोभितः ।
देवीभिर्वर्धितो गीतैः शंकरश्च ययौ ततः ॥११२॥
शुद्धस्फटिकसूज्ज्वलवृषविमानमारुढः ।
परीभिः पूजितो व्योम्ना ब्रह्मसरोभिरादरात् ॥११३॥
पुष्पवृष्ट्या जयनादैर्वर्धितः शंकरो ययौ ।
हिमशैलसुतापाणिग्रहणार्थं हरो ययौ ॥११४॥
नारदः प्रेषितश्चाग्रे हिमाद्रेर्भवनं प्रति ।
वरवाहिन्यागमादिसूचनार्थं द्रुतं ययौ ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरेण लग्नपत्रिका प्राप्ता, चतुर्दशलोकस्थानिनो निमन्त्रिता आययुः, शिवस्य वरयोग्यंवेषः मण्डपस्थापननान्दीप्रभृतिर्मंगलकर्म, वरयात्राक्रमव्यवस्था, प्रथमं नारदः प्रेषितश्चेत्यादिनिरूपणनामैकनवत्यधिकशततमोऽध्यायः ॥१९१॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP