संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३४६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३४६ Translation - भाषांतर श्रीनारायण उवाच--शृणु लक्ष्मि-! माथुरे तु मण्डलेऽपरतीर्थकम् ।वत्सक्रीडनकं तीर्थं रक्तप्रस्तरनिर्मितम् ॥१॥तत्र स्नानेन वै यायाद् वायुलोकं तु मानवः ।प्राणत्यागे तु परमा मुक्तिः स्यान्नात्र संशयः ॥२॥अथ भाण्डीरकं तीर्थं दम्पतीत्वप्रदं परम् ।यत्र कृष्णेन राधा वै विवाहिता वनस्थले ॥३॥सालतालार्जुनैर्युक्ते तमालेङ्गुदपीलुकैः ।करीररक्तपुष्पैश्च युक्ते भाण्डीरके स्थले ॥४॥स्नातः पापविनिर्मुक्तश्चन्द्रलोकं प्रयाति सः ।प्राणत्यागे तु गोलोकं प्राप्नोति नात्र संशयः ॥५॥वृन्दावनं मम तीर्थं यत्र गोगोपगोपिकाः ।मया साकं रमिष्यन्ति विचित्रक्रीडनैः सदा ॥६॥सर्वेषां दुर्लभे स्थाने कुण्डे वृन्दावनस्थले ।बहुगुल्मलतारण्ये स्नातः स्वर्गेऽप्सरोगणैः ॥७॥गन्धर्वैः सेवमानश्च मोदते बहुवत्सरान् ।तत्र चेन्मुञ्चति प्राणान् वैकुण्ठे मोदते ध्रुवम् ॥८॥अथ वृन्दावने केशी दैत्यो यत्र निपातितः ।तत्र स्नातः शतगुणं पुण्यमाप्नोत्यसंशयम् ॥९॥हरिविश्रामतीर्थं च ततोऽपि शतपुण्यदम् ।तत्र पिण्डप्रदानेन गयातुल्यफलं भवेत् ॥१०॥स्नानं दानं च हवनं वह्निष्टोमफलप्रदम् ।अथ द्वादशसूर्याणां तीर्थं श्रेष्ठं परं मतम् ॥११॥कालिन्दीसलिले कृष्णः कालीयसर्पमस्तके ।ननर्त दमनार्थं तं तत्राऽऽदित्या दशोज्ज्वलाः ॥१२॥मयैव स्थापिता लक्ष्मि! वरार्थं ज्ञापितास्तदा ।आदित्याश्च तदा प्रोचुर्यदि देयो वरोऽस्ति नः ॥१३॥अस्मत्तीर्थेऽत्र लोकानां स्नानेन मोक्षणं भवेत् ।उत्तरे हरिदेवस्य कालीयस्य तु दक्षिणे ॥१४॥मध्ये ये स्युर्मृतास्तेषां मुक्तिर्गोलोकधामनि ।भवेदित्यर्थितं तैश्च तथास्त्विति मयाऽर्पितम् ॥१५॥अथ यम्याः परे पारे तीर्थं तु मलयार्जुनम् ।पर्यस्तं तत्र शकटं कुण्डं तत्र सुविद्यते ॥१६॥तत्र स्नानोपवासाभ्यामनन्तफलभाग् भवेत् ।द्वादश्यां ज्येष्ठशुक्लस्य स्नानाद् दानाच्च दर्शनात् ॥१७॥अच्युतस्य समर्चनात् प्राप्नोति परमां गतिम् ।उपोषितं जनं साक्षात् कृष्णो नेतुं प्रगच्छति ॥१८॥अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः ।अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥१९॥धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति ।द्वादश्यां ज्येष्ठमासेऽत्र तृप्तिर्न संभविष्यति ॥२०॥इति गायन्ति पितरः परलोकगताः सदा ।अथात्र सुभगं तीर्थं वनं बहुलसंज्ञकम् ॥२१॥स्नातो रुद्रस्य भवनं प्रयाति द्वादशी तिथौ ।चैत्रशुक्लदशम्यां तु स्नातो मत्पदमाप्नुयात् ॥२२॥अथ भाण्डह्रदस्तीर्थं परे पारे सुविद्यते ।दृश्यन्तेऽहरहस्तत्र त्वादित्याः सुपतङ्गकाः ॥२३॥अर्ककुण्डे तत्र तीर्थे स्नानं यः कुरुते जनः ।सर्वपापविनिर्मुक्तः सूर्यलोकं प्रयाति सः ॥२४॥अथात्र विमलः कूपः सप्तसामुद्रनामकः ।तत्र स्नाता यथेष्टः स्यात् स्वेष्टं लोकं प्रयाति सः ॥२५॥तत्र प्राणप्रयाणे तु मम धाम प्रपद्यते ।अथ वीरस्थलं नाम तीर्थक्षेत्रं परं शुभम् ॥२६॥आसन्नसलिलं चैव पद्मोत्पलविभूषितम् ।तत्र स्नाता वीरलोकं प्राप्याऽन्ते धाम याति मे ॥२७॥कुशस्थलं तथा क्षेत्रं पुण्यं परमपावनम् ।स्नात्वा याति ब्रह्मलोकं मृत्वा गोलोकमृच्छति ॥२८॥तत्र पुष्पस्थलतीर्थे शिवक्षेत्रमनुत्तमम् ।तत्र स्नानेन मनुजः शिवलोकं प्रगच्छति ॥२९॥अथ गोपीश्वरमूर्तिर्महापातकनाशिनी ।मातलिस्थापिता मोक्षप्रदा गोपीशतीर्थके ॥३०॥कृष्णस्य रमणार्थं हि गोप्यस्तत्र सहस्रशः ।समागतास्तदा कृष्णो जातः सहस्ररूपधृक् ॥३१॥गोपीं गोपीं प्रति रेमे यथेष्टं सुखदः प्रभुः ।मातलिस्तत्र चागत्य गोपीश्वरं विधाय च ॥३२॥गोपवेषधरं देवमभिषेकं चकार ह ।आनीय सप्तकलशान् रत्नौषधिपरिप्लुतान् ॥३३॥गोप्यो गायन्ति नृत्यन्ति कृष्ण! कृष्ण! वदन्ति च ।तत्र सप्तकलशैश्च स्थापयामास कूपकम् ॥३४॥सप्त सामुद्रिकं नाम तीर्थं गोलोकधामदम् ।तत्र श्राद्धे जलदात्रा पिण्डदात्रा च सर्वथा ॥३५॥पितरस्तारितास्तेन कुलानां सप्तसप्ततिः ।सोमवारे त्वमायां च श्राद्धकर्तुस्तु पूर्वजाः ॥२६॥पितरस्तस्य तृप्यन्ति कोटिवर्षशतानि वै ।गोविन्दस्य च देवस्य तथा गोपीश्वरस्य च ॥३७॥मध्ये मृतो जनो याति महेन्द्रस्य सलोकताम् ।तथा बहुलरुद्रस्य गोविन्दस्य च मध्यतः ॥३८॥तथा वै वेधसश्चापि गोपीशस्य च मध्यतः ।पिण्डदानस्नानकर्तुः कुलानां शतमुद्धरेत् ॥३९॥वसुतीर्थं मथुरादक्षिणे फाल्गुनकं तथा ।तत्र स्नात्वा च पीत्वा च मम लोके महीयते ॥४०॥तत्र फाल्गुनके तीर्थे वृषभांजनकं स्थलम् ।तत्राऽभिषेकमापन्नः सुरैः सह प्रमोदते ॥४१॥अथ तालवनं नाम मथुरापश्चिमस्थितम् ।तत्र कुण्डे स्नानकर्ता दाता वाञ्च्छितमाप्नुयात् ॥४२॥अस्ति संपीठकं तीर्थं स्नाताऽग्निष्टोमपुण्यभाक् ।कृष्णजन्मस्थले लक्ष्मि! सप्तम्यां सोमवासरे ॥४३॥व्रतं कृत्वा पूजयेन्मां सा तु पुत्रवती भवेत् ।विंशतिर्योजनानां तु माथुरं मम मण्डलम् ॥४४॥यत्र तत्र कृतस्नानो मुच्यते घोरपातकैः ।वर्षाकालेऽत्र स्थातव्यं यत्स्थानं सुखदं भवेत् ॥४५॥सप्तद्वीपेषु तीर्थानि पुण्यान्यायतनानि च ।मथुरायां गमिष्यन्ति प्रसुप्ते तु सदा मयि ॥४६॥सुप्तोत्थितं च मां दृष्ट्वा भवन्ति मुक्तिभाजनाः ।यमुनायां कृतस्नानः कृतकेशवदर्शनः ॥५८७॥सर्वपापविहीनः सन्ममलोकं प्रपद्यते ।पदे पदे फलं याति राजसूयाश्वमेधयोः ॥४८॥प्रदक्षिणीकृतो येन मथुरायां तु केशवः ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥४९॥घृतदीपं तथा वस्त्रं दद्यात् कृष्णाय मन्दिरे ।पञ्चयोजनविस्तारं दीर्घं षट्पंचयोजनम् ॥५०॥दीपमालासमाकीर्णं विमानं लभते जनः ।सर्वकामसमृद्धं तदप्सरोगणसेवितम् ॥५१॥सर्वकामप्रदं रम्यं सर्वतेजोविराजितम् ।सिद्धचारणमगन्धर्वा यदिच्छन्ति दिवं गताः ॥५२॥यदि पुण्यं कृतं स्याद्वै लभ्येतैतादृशं गृहम् ।अन्ते मोक्षस्त्वपाय्येत मथुरायाः प्रभावतः ॥५३॥मथुरां रक्षति पूर्वामिन्द्रो यमस्तु दक्षिणाम् ।पश्चिमां रक्षति वारीशः कुबेरस्तथोत्तराम् ॥५४॥मध्यं रक्षति मे भक्तः शंकरः पार्वतीपतिः ।मथुरायां गृहं यो वा प्रासादं कुरुते जनः ॥'९५॥चतुर्भुजस्तु विज्ञेयो जीवन्मुक्तो न संशयः ।मथुरायां महत्कुडं विमलोदकनामकम् ॥५६॥हेमन्ते तु भवेच्चोष्णं शीतलं ग्रीष्मके भवेत् ।न वर्धते च वर्षासु ग्रीष्मे चापि न हीयते ॥५७॥एतत्तु महदाश्चर्यं तस्मिन कुण्डे परं मम ।माथुरे मम क्षेत्रे तु गर्तेषु च नदीषु च ॥५८॥कूपे ह्रदे देवखाते प्रवाहे संगमे तथा ।स्नातव्यं यत्र वा तत्र तेन स्यात्परमा गतिः ॥५९॥कार्तिकस्य तु मासस्य नवम्यां मम भक्तराट् ।कृत्वा प्रदक्षिणं याति पृथ्वीप्रक्रमणवृषम् ॥६०॥न दानैर्न तपोभिश्च न यज्ञैस्तादृशं फलम् ।भूमेः प्रदक्षिणायाः स्याद् यादृशं तीर्थसेवया ॥६१॥भूम्याः परिक्रमे सम्यग् योजनानां प्रमाणकम् ।षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥६२॥तत्र तीर्थानि देवाश्च गणिताः पवनेनवै ।ब्रह्मणा लोमशेनापि नारदेन ध्रुवेण च ॥६३॥पत्नाव्रतेन विप्रेण गरुडेन हनूमता ।एतैरनेकधा देवैः सवार्ध्यावरणा मही ॥६४॥क्रमिता बलिभिः सर्वैर्बाह्यमण्डलरेखया ।योगसिद्धैस्तथा कैश्चिर्न्माकण्डेयमुखैरपि ॥६५॥सप्तद्वीपे च तीर्थानां भ्रमणाद् यत्फलं भवेत् ।प्राप्यते त्वधिकं तस्मान्मथुरायाः परिक्रमे ॥६६॥यथाविधानक्रमणं मथुरायां कृतं भवेत् ।प्रदक्षिणफलं सम्यगनुक्रमविधिं ब्रुवे ॥६७॥सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।सर्वदानेषु यत्पुण्यमिष्टापूर्तेषु यत्फलम् ॥६८॥तत्फलं लभ्यते लक्ष्मि! माथुरस्य प्रदक्षििणे ।देवर्षिमुनिसहिता ब्रह्माद्याः कोटिदेवताः ॥६९॥नवम्यां कार्तिके शुक्ले चक्रूमाथुरप्रक्रमम् ।अष्टम्यां मथुरां प्राप्य स्नात्वा विश्रान्तितीर्थके ॥७०॥कृत्वा पितृसुरर्षीणां पूजन यमुनार्चनम् ।विश्रान्तिदर्शनं कृत्वा दीर्घविष्णुं च केशवम् ॥७१॥उपवासं प्रकृत्वैव स्वल्पमेध्याशनोऽथवा ।ब्रह्मचर्यपरो भूत्वा मौनमास्थाय यत्नत. ॥७२॥तिलाऽक्षतकुशान्नीत्वा विश्रान्तौ दीपमाददेत् ।नवम्यां प्रातरेवाऽस्मात्स्थलाद् यात्रामुपाक्रमेत् ॥७३॥ब्राह्मे काले रवेः पूर्वं स्नायाद् दक्षिणकोटिके ।प्रक्षाल्य पादावाचम्य हनुमन्तं प्रसादयेत् ॥७४॥सर्वमगलदं सिद्धिकर्तारं फलसाक्षिणम् ।प्रदक्षिणस्य यात्रायां यात्रासिद्धिप्रदो भव ॥७१॥इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम् ।दीपपुष्पोपहाराद्यैः पूजयित्वाऽग्रतस्ततः ॥७६॥पूजयेत्पद्मनाभं च दीर्घविष्णुं सुखप्रदम् ।दृष्ट्वा वसुमतीं देवीं तथाऽन्यामपराजिताम् ॥७७॥आयुधागारसंस्थां च नत्वा गच्छेत् ततोऽग्रतः ।कंसवासनिकां तद्वदौग्रसेनां च चर्चिकाम् ॥७८॥वधूटी तत्र नत्वा च दानवक्षयकारिणीम् ।जयदां च ततो नत्वा मातृँश्च देवपूजिताः ॥७९॥गृहदेवीर्वास्तुदेवीर्दृष्ट्वाऽनुज्ञाप्य निःसरेत् ।दक्षिणकोटिकं प्राप्य स्नात्वा सन्तर्प्य पितृकान् ॥८०॥देवं कृष्णं संप्रणम्य चेक्षुवासां सतीं व्रजेत् ।यत्र बालक्रीडनकैस्तीर्थं कृष्णेन वै कृतम् ॥८१॥वत्सपुत्र ततो गच्छेत् ततोऽर्कस्थलमेव च ।वीरस्थलं कुशस्थलं पुण्यस्थलं महास्थलम् ॥८२॥पञ्चस्थलावलोकेन ब्रह्मणा सह मोदते ।शिवं सिद्धमुखं दृष्ट्वा हयमुक्तिं च लोकयेत् ॥८३॥अश्वो मुक्तिं गतश्चात्र सहायसहितो यतः ।राजपुत्रः स्थितस्तत्र यानयात्रां न चाचरेत् ॥८४॥मल्लिकादर्शनं कृत्वा कदम्बखण्डमाव्रजेत् ।चर्चिकां योगिनीं दृष्ट्वा ततो गच्छेत्तु मातरम् ॥८५॥अस्पृश्यां चाऽस्पृशां ते द्वे बालरक्षाकरे ह्युभे ।वर्षखातं ततो गत्वा कुण्डं पितृँश्च तर्पयेत्। ॥८६॥क्षेत्रपालं शिवं भूतेश्वरं गच्छेत् प्रपूजयेत् ।कृष्णक्रीडासेतुबन्धं ततो गच्छेद् बलिह्रदम् ॥८७॥ततः कुक्कटक्रीडाख्यं स्थलं गच्छेद् गतिप्रदम् ।स्तम्भोच्चयं सुशिखरं पूज्येत्तं परिक्रमेत् ॥८८॥मुच्यते सर्वपापेभ्यो विष्णुलोकं व्रजेत्तु सः ।वसुदेवस्य देवक्या एकान्तशयनस्थलम् ॥८९॥गत्वा नारायणस्थानं प्रविशेच्च परिक्रमेत् ।विघ्नविनायकं नत्वा कुब्जिकां वामनां तथा ॥९०॥कृष्णदास्यौ तु विप्राण्यौ नत्वा गर्तेश्वरं व्रजेत् ।महाविद्येश्वरीं दृष्ट्वा यात्रासिद्धिफलं भवेत् ॥९१॥प्रभामल्लीं महाविद्येश्वरीं व्रजेच्च पूजयेत् ।सिद्धेश्वरीं तथा संकेतेश्वरीं च प्रपूजयेत् ॥९२॥यस्याश्चाग्रे दैत्यनाशार्थं संकेतितवान् हरिः ।कुण्डे त्वाचमनं कृत्वा गोकर्णेश्वरमाव्रजेत् ॥९३॥सरस्वतीं नदीं दृष्ट्वा विघ्नराजं समाव्रजेत् ।गंगां दृष्ट्वा तथा स्पृष्ट्वा गच्छेद् रुद्रमहालयम् ॥९४॥क्षेत्रपं तं समानत्वोत्तरकोटिगणाधिपम् ।पूजयेद्यत्र कृष्णेन द्यूतक्रीडा कृताऽभवत् ॥९५॥ततो गच्छेन्महातीर्थं विमलं यमुनाम्भसि ।रुद्रमहालयाख्यं तत् स्नायात् पितॄँश्च तर्पयेत् ॥९६॥गार्ग्यतीर्थं ततो गच्छेद् भद्रेश्वरं च सोमकम् ।सोमेश्वरं प्रपूज्यैव यात्राफलं लभेज्जनः ॥९७॥सरस्वत्याः संगमे च देवर्षिपितृमानवान् ।सन्तर्प्य विधिवद् दत्वा कृष्णसायुज्यमाप्नुयात् ॥९८॥घण्टाभरणकं गत्वा तथा गरुडकेशवे ।धारालोपनकं गत्वा वैकुण्ठं खण्डवेलकम् ॥९९॥मन्दाकिनीसंयमन चासिकुण्डं च गोपकम् ।मुक्तिकेश्वरमेवाऽथ वैलक्षगरुडं स्थलम् ॥१००॥गत्वा सर्वत्र पितॄँश्च देवान्समर्प्य तर्पयेत् ।प्रार्थयेन्मथुरायाश्च यात्रा मे सफलाऽस्त्विति ॥१०१॥इत्येवं देवदेवेशं विज्ञाप्य क्षेत्रपं शिवम् ।विश्रान्तिसंज्ञके स्नात्वा कृत्वा च पितृतर्पणम् ॥१०२॥विश्रान्तिं च परिक्रम्य गुरुं नत्वा हरिं तथा ।सुमंगलां ततो गच्छेद् यात्रासिद्धिं प्रसादयेत् ॥१०३॥यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति ।पिप्पलादेश्वरं गत्वा परिक्रमेदुपालिपेत् ॥१०४॥एकं शिवं स्वस्य नाम्ना स्थापयेद् यात्रिकस्तदा ।यात्राफलं प्रपद्येत पूजयेत्प्रणमेत् तथा ॥१०५॥कर्कोटकं तथा नागं गच्छेद् देवीं च चण्डिकाम् ।वज्राननं ततो ध्यात्वा ततः सूर्यं कुलेश्वरम् ॥१०६॥दृष्ट्वा तत्रैव दानं च दत्वा यात्रां समापयेत् ।प्रतिक्रमं कुलानां वै सूर्यलोके स्थितिर्भवेत् ॥१०७॥प्रदक्षिणप्रकर्ता च विष्णुलोके महीयते ।मम प्रदक्षिणकर्ता गोलोके च महीयते ॥१०८॥ब्रह्मघ्नाश्च सुरापाश्च चौरा भग्नव्रताश्च ये ।प्रसह्य गमका ये च धनक्षेत्रापहारकाः ॥१०९॥हिंसका दुःखदातारो निन्दकाः शठधूर्तकाः ।मथुराक्रमणं कृत्वा निष्पापास्ते भवन्ति वै ॥११०॥अन्यदेशागतो दूराद् यः करोति प्रदक्षिणम् ।तस्य संदर्शनादन्ये पूता भवन्ति मानवाः ॥१११॥यमुनाया वारिकणं पीत्वा दूरनिवासिनः ।सर्वपापविनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥११२॥मथुरावासकर्तारो मधुरातीर्थसेविनः ।मधुरावनद्रष्टारो मोक्षभाजो भवन्ति ते ॥११३॥मधुवनं तालवनं कुन्दवनं तृतीयकम् ।काम्यकवनं च बहुवनं भद्रवनं तथा ॥११४॥खादिरं च महावनं लोहार्गलवनं तथा ।बिल्ववनं च भाण्डीरं वृन्दावनं च द्वादशम् ॥११५॥एतानि ये प्रपश्यन्ति न ते याम्याभिगामिनः ।वनयात्राप्रकर्तार इन्द्रलोकं व्रजन्ति वै ॥११६॥मम भक्ताश्च ये यात्रां मदर्थं त्वाचरन्ति ते ।नरा नार्यश्च गोलोके यान्ति मामेव शाश्वतम् ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेमथुराक्षेत्रमाहात्म्ये वत्सक्रीडनकभाण्डीरकवृन्दावनहरि-विश्रामसूर्यतीर्थमलयार्जुनबहुलभाण्डह्रदार्ककुण्डविमलकूपवीर-स्थलकुशस्थलपुष्पस्थलगोपीश्वरसप्तसामुद्रिकवसुफाल्गुनक-वृषभांजनकतालवनसंपीठकविमलोदककुण्डानां निर्देशः, मथुराप्रदक्षिणे विधिः, तत्रत्यतीर्थानां क्रमनिर्देशो विश्रान्तिघट्टारंभणसमाप्त्यादि, वनानिचेत्यादिप्रदर्शननामा षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४६॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP