संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०८

कृतयुगसन्तानः - अध्यायः ४०८

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पातिव्रत्यमहाबलम् ।
उपबर्हणपत्न्या वै मालावत्या प्रदर्शितम् ॥१॥
ब्रह्माऽसृजद् यदा सृष्टिं विनिर्माय तु नारदम् ।
प्राह सृष्टिप्रवाहार्थं नारदस्तन्न्यषेधयत् ॥२॥
मुक्तिदाता पिता प्रोक्तो मोक्षगामी सुतो मतः ।
भ्राता माता पतिः पत्नी भक्तिप्रदाः शुभाः सदा ॥३॥
मायाबन्धनदातारो न बोध्यास्ते कुटुम्बिनः ।
त्व च ब्रह्मा स्वयं ज्ञानी नियोजयसि मायिके ॥४॥
नाहं मायां ग्रहीष्यामि न च सृष्टिं करोम्यपि ।
भजिष्ये ब्रह्म परमं तारयिष्ये त्वदादिकान् ॥५॥
सार्थकयिष्ये पुत्रत्वं मा खेदं वह विश्वसृट् ।
इत्युक्तो रोषताम्राक्षो ब्रह्मा शशाप नारदम् ॥६॥
मृत्युं प्राप्य दारयुक्तो भव दासस्ततः परम् ।
ज्ञानहीनः कर्मभारो भव नारद वै मुहुः ॥७॥
तदा तं नारदः प्राह पिता मैवं कुरु प्रभो! ।
त्वमप्यत्र हि संसारे पूज्यतां मा लभ क्वचित् ॥८॥
इत्युक्तः स तदा ब्रह्मा सनकादिभिरर्थितः ।
पुत्रं प्राह पुनस्त्वं वै चतुर्थे मामवाप्स्यसि ॥९॥
ब्रह्मचर्यपरस्तत्र सदा पुत्र भविष्यसि ।
तावद् दारगृहव्याप्तो भविष्यसि न संशयः ॥१०॥
इत्युतो नारदो नष्टो मारीचो ह्यभवत् ततः ।
गन्धर्वराजस्य विश्वावसोः पुत्रत्वमाप्तवान् ॥११॥
उपबर्हणनामाऽसौ गन्धर्वोऽभूच्च वैष्णवः ।
शृणु लक्ष्मि! कथयामि विश्वावसुः पुरा किल ॥१२॥
तपश्चचार शंभोश्च पुत्रहीनो हि कर्मणा ।
वशिष्ठः प्रददौ तस्मै मन्त्रं तु द्वादशाक्षरम् ॥१३॥
वर्षशतं जजापैनं पुष्करे तावदेव च ।
प्रसन्नास्यं वृषभस्थं ददर्श पुरतः शिवम् ॥१४॥
वरं वृणुष्वेति शिवस्तमुवाच ततो ह्ययम् ।
ययाचे श्रीहरेर्भक्तिं पुत्र परमवैष्णवम् ॥१५॥
शिवः प्राह प्रसन्नोऽस्मि तथाऽस्तु तव मंगलम् ।
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ॥१६॥
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमंगला ।
स समर्थः सर्वविश्वं पातुं कर्तुं च लीलया ॥१७॥
भवेद् यस्य सुकृतिनः पुत्रः परमवैष्णवः ।
कुलकोटिं तस्य ते वै ह्युद्धारयन्ति लीलया ॥१८॥
चरितार्थः पुमानेकाद् वरमिरछुर्वरादहो ।
किं वरेण द्वितीयेन पुंसा तृप्तिर्न मंगले ॥१९॥
हरेर्भक्तिं हरेर्दास्यं पुत्रं परमवैष्णवम् ।
चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम् ॥२०॥
ज्ञानिनं सुन्दरं श्रेष्ठं गुरुभक्तं जितेन्द्रियम् ।
लभस्वेमं वरं चेति ह्युक्त्वा शंभुस्तिरोदधे ॥२१॥
विश्वावसुर्गृहं यातः पर्वते गन्धमादने ।
नारदस्तस्य भार्यायां लेभे जन्म शुभावहम् ॥२२॥
गुरुर्वशिष्ठस्तन्नाम चकार चोपबर्हणम् ।
उपशब्दोऽधिकार्थोऽत्र पूज्ये तु बर्हणः पुमान् ॥२३॥
पूज्यानामधिको बालस्तेनोपबर्हणाभिधः ।
उपबर्हणः कालेन तेपे च दुष्करं तपः ॥२४॥
गण्डकीतीरमासाद्य तं तदा स्थिरयौवनम् ।
गान्धर्व्यो ददृशुस्तं च पञ्चाशद् वव्रिरे पतिम् ॥२५॥
गृहीत्वा ता युवा रेमे द्विलक्षवर्ष कामुकः ।
एकदा स ययौ ब्रह्मसभायां च जगौ कथाम् ॥ २६॥
तदा रंभां स चालोक्य चंचलो ह्यभवन्मुहुः ।
द्रुतं तत्याज संगीतं मूर्छां प्राप सभातले ॥२७॥
उच्चैः प्राजहसुर्देवा ब्रह्मा कोपाच्छशाप तम् ।
व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ॥२८॥
काले वैष्णवसंसर्गान्मन्पुत्रस्त्वं भविष्यसि ।
उपबर्हणगन्धर्वः स जहौ तां तनुं तदा ॥ २९॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धमाज्ञाचक्रं षड् भित्त्वा तन्वा विनिर्ययौ ॥३०॥
योगेन ब्रह्मसम्प्राप श्रीकृष्णं मनसा स्मरन् ।
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भृशम् ॥३१॥
पञ्चाशद्योषितां मध्ये साध्वी मालावती तदा ।
उच्चैः रुरोद सा तीव्रं कृत्वा कान्तं स्ववक्षसि ॥३२॥
चित्ररथस्य कन्यास्ता रुरुदुस्तस्य योषितः ।
मालावती विललाप कृष्ण त्वं जगतां पतिः ॥३३॥
नाहं जगद्बहिस्त्वस्मि मां न पासि कथं प्रभो! ।
अरे सुरा यज्ञभुजो घृतं भोक्तुं क्षमा भुवि ॥३४॥
क्षणेनाऽयज्ञभाजश्च करिष्यामि सतीत्वतः ।
नारायण जगत्कान्त नाहमेव जगद्बहिः ॥३५॥
पातिव्रत्यं मम पूर्णमखण्डितं यदस्ति चेत् ।
शीघ्रं जीवय मत्कान्तमन्यथा त्वां शपाम्यहम् ॥३६॥
प्रजापते! पुत्रशापात् त्वमपूज्यो धरातले ।
तवैवाऽनधिकारित्वं करिष्याम्यत्र सर्जने ॥३७॥
हे शंभो ज्ञानलोपं ते करिष्यामि शपेन वै ।
धर्मलोपं च धर्मस्य करिष्याम्येव वै क्षणात् ॥३८॥
यमाधिकारं दूरे च करिष्यामि न संशयः ।
सत्यं कालं शपिष्यामि मृत्युकन्यां सुनिष्ठुराम् ॥३९॥
शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना ।
व्याधिना जरया मृत्युर्न ह्यभूच्च पतेर्मम ॥४०॥
इत्युक्त्वा कौशिकीतीरे त्वागच्छच्छप्तुमेव तान् ।
तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा शंभुपुरोगमः ॥४१॥
देवताश्च ययुस्तीरं क्षीराब्धेः शरणं हरिम् ।
तत्र स्नात्वा च तुष्टुवुः परमात्मानमीश्वरम् ॥४२॥
विष्णुं ब्रह्मा जगत्कान्तमित्युवाच ह भीतवत् ।
उपबर्हणपत्नी सा कन्या चित्ररथस्य च ॥४३॥
कान्तहेतोश्च मा देवान् शपेत् त्वं रक्ष माधव! ।
स्मरन्ति साधवः सन्तो महापत्सु परमेश्वरम् ॥४४॥
शरणागतदीनार्तपरित्राणपरायण! ।
रक्ष रक्ष कृष्णनारायण ते शरणं गतान् ॥४५॥
अधिकारविहीनं मां मालावती दधाति वै ।
सम्पत् सर्वा महाब्राह्मी यास्यत्येवाऽधुना मम ॥४६॥
शंभुं प्राह त्वया दत्तं महाज्ञानं सुदुर्लभम् ।
शतमन्वन्तरतपःफलेन पुष्करे पुरा ॥४७॥
ऐश्वर्यधनसामर्थ्यं प्राप्तं मया नरायण! ।
ममैतज्ज्ञानरत्नं वै शापान्निर्याति योषितः ॥४८॥
अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ।
तेजोऽनलेन दग्धं मां त्राहि रक्ष हरे प्रभो ॥४९॥
धर्मः प्राह महारत्नं धर्म एव सनातनः ।
सोऽहं नाशं समेष्यामि योषितः शापतः प्रभो! ॥५०॥
सप्तमन्वन्तरतपःफलेन परमेश्वर! ।
प्राप्तो धर्मस्त्वया दत्तोऽधुना शापेन नश्यति ॥५१॥
देवा ऊचुः क्रतौ घृतभुजो वयं त्वया कृताः ।
योषिच्छापेन वै सर्वं नाशं याति दयां कुरु ॥५२॥
इति स्तुवन्ति तावद्वै वाग्बभूवाऽशरीरिणी ।
यूयं गच्छत तत्रैव यास्याम्यहं हि रक्षणे ॥५३॥
श्रुत्वा हृष्टाः सुरा मालावतीं ययुर्हि तत्क्षणम् ।
मालावती सुरान् दृष्ट्वा प्रणनाम पतिव्रता ॥५४॥
रुरोद कान्तं संस्थाप्य देवानां सन्निधौ प्रिये! ।
एतस्मिन्नन्तरे कश्चित् तत्र ब्राह्मणबालकः ॥५५॥
आजगाम शुक्लवासाः पंचांगपत्रसंयुतः ।
सतिलकः समागत्य सभामध्ये ह्युवास सः ॥५६॥
उवाच कथमत्रैते सुरा ब्रह्मादयोऽपरे ।
समायाता नमो वोऽस्तु स्रष्टा स्वयं कथं स्थितः ॥५७॥
अहो हर्ता स्वयं रुद्रो धर्मः साक्षी कथं स्थितः ।
कथं रविः कथं चन्द्रः कथमत्र हुताशनः ॥५८॥
कथं कालो मृत्युकन्या कथं वात्र यमादयः ।
हे मालावति ते क्रोडे कोऽति शुक्लः शवोऽधुना ॥५९॥
इति ब्रुवन्तं तं नत्वा मालावती जगाद् ह ।
नमो विप्रस्वरूपाय कृष्णनारायणाय ते ॥६०॥
अकस्माद् ब्रह्मणः शापात् प्राणाँस्तत्याज मत्पतिः ।
देवानुद्दिश्य विलपाम्यथ जीवति मत्पतिः ॥६१॥
सर्वान्देवानहं याचे पतिदानं ममेप्सितम् ।
यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम् ॥६२॥
भद्रं तदाऽन्यथा तेभ्यः संशप्स्यामि च दारुणम् ।
दुर्निवार्यः सतीशापस्तपसा केन वार्यते ॥६३॥
ब्राह्मणस्तामुवाचेदं सति काले फलेत् कृतम् ।
काले प्राप्तं भवेच्चापि नाग्रहस्तत्र युज्यते ॥६४॥
यत्राधिकारो देवानां तत्तद् ददाति नाऽपरम् ।
न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ॥६५॥
नैव स्त्री न च सत्कान्तो लभ्यते तपसा विना ।
प्रकृतिं सेवते यः स लभेत् कान्तां गुणान्विताम् ॥६६॥
श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम् ।
शिवार्चनात् सतीं कान्तां सत्पतिं लभते स सा ॥६७॥
विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम् ।
बलं धनं विक्रमं च महदैश्वर्यमित्यपि ॥६८॥
ब्रह्मार्चनाल्लभेत् सिद्धीर्विद्यां श्रियं प्रजास्तथा ।
सूयार्चनाल्लभेद् विद्यामारोग्यधनपुत्रकान् ॥६९॥
गणेशस्याऽर्चनाद् विघ्ननाशं सर्वाग्रपूज्यताम् ।
परमानन्दमैश्वर्यं पुत्रं विद्यां धनं प्रजाः ॥७०॥
विष्णोस्तु सेवया मुक्तिं तपो धर्मं यशः श्रियम् ।
धर्मस्य सेवनात् शान्तिं सुखं धनं लभेत च ॥७१॥
यो यं देवं भजेद्भक्त्या सत्त्वादौ लभते तु तम् ।
काले पश्चात्तेन सार्धं परं कृष्णपदं लभेत् ॥७२॥
भजते श्रीकृष्णनारायणं यः प्रकृतेः परम् ।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ॥७३॥
साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् ।
सर्वाधारं च सर्वेशं परमानन्दमीश्वरम् ॥७४॥
निर्लिप्तं साक्षिरूपं च भक्तानुग्रहविग्रहम् ।
जीवन्मुक्तः स सत्यं वै वरं नाकांक्षति ध्रुवम् ॥७५॥
स सर्वं मनुते तुच्छं सालोक्यादि चतुष्टयम् ।
ब्रह्मत्वममरत्वं च लोष्टवत्तुच्छवत् सति! ॥७६॥
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चेति मन्यते ।
जलबुद्बुदवत्सर्वं जानात्येव विनश्वरम् ॥७७॥
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम् ।
स्वप्ने जागरणे वापि शश्वत् सेवां हि वाञ्च्छति ॥७८॥
परिपूर्णतमं ब्रह्म सेवते यः स्थिरः सदा ।
आत्मनः कुलकोटिं स शतं मातामहस्य च ॥७९।
श्वशुरस्य शतं पूर्वमुद्धृत्य स्वं हि लीलया ।
दासं दासीं प्रसूं भार्यां पुत्रादपि परं शतम् ॥८०।
उद्धरेद् कृष्णभक्तो वै गोलोकं धाम याति च ।
गुरुवक्त्राद् विष्णुमन्त्रो यस्य कर्णे विशत्यपि ॥८१।
यमस्तल्लेखनं दूरं करोति तत्क्षणे भिया ।
मधुपर्कादिकं ब्रह्मा तदर्थं विनियुज्य च ॥८२॥
सत्यलोकेऽभितो याति मार्गेणानेन यास्यति ।
निःशंको याति गोलोकं विहाय मानवीं तनुम् ॥८३॥
पुरातनं कृतं कर्म यद्यत् तस्य शुभाशुभम् ।
छिनत्ति कृष्णश्चक्रेण तीक्ष्णधारेण सन्ततम् ॥८४॥
तं विहाय जरामृत्युर्याति चक्रभिया सति! ।
अन्यथा शतखण्डं तां कुरुते तु सुदर्शनः ॥८५॥
गत्वा दिव्यां तनुं धृत्वा श्रीकृष्णं सेवते तदा ।
यावत् कृष्णो हि गोलोके तावद्भक्तो वसेत् सदा ॥८६॥
निमेषं मनुते दासो नश्वरं ब्रह्मणो वयः ।
वद विना कृष्णनारायणं नान्यः समर्थकः ॥८७॥
केन रोगेण हि मृतोऽधुना साध्वि तव प्रियः ।
सर्वरोगचिकित्सां च जानाम्यहं चिकित्सकः ॥८८॥
राजमृत्युं यमं कालं व्याधिमानीय ते पुरः ।
निबद्ध्य दातुं शक्तोऽहं व्याधो बध्वा पशुं यथा ॥८९॥
यो वा योगेन खेदेन देहत्यागं करोति च ।
तस्य तं जीवनोपायं जानामि योगधर्मतः ॥९०॥
विप्रवाक्यं सती श्रुत्वा कान्तभक्ता ह्युवाच तम् ।
सर्वं कलयितुं शक्तस्त्वं यदि ब्राह्मणोत्तम! ॥९१॥
कालं यमं मृत्युकन्यां मदभ्याशे समानय ।
मालावतीवचः श्रुत्वा विष्णुस्तानाह्वयँस्तदा ॥९२॥
ददर्श मृत्युकन्यां सा प्रथमं मालिकावती ।
कृष्णवर्णां घोररूपां रक्ताम्बरप्रधारिणीम् ॥९३॥
षड्भुजां च दयायुक्तां चतुष्षष्टिसुतान्विताम् ।
ततः कालं घोररूपं ददर्श पुरतः सती ॥९४॥
षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम् ।
षट्पादं कृष्णवर्णं च रक्ताम्बरधरं वरम् ॥९५॥
ग्रीष्मसूर्यसमकान्तिं सर्वसंहाररूपिणम् ।
सती ददर्श पुरतो व्याधिसंघान् सुदुर्जयान् ॥९६॥
वयसाऽतिमहावृद्धान् यूनो बालांश्च घातकान् ।
सती ददर्श धर्मिष्ठं कृष्णवर्णं यमं तथा ॥९७॥
धर्माधर्मविचारज्ञं शास्तारं पापिनां गुरुम् ।
अथ मालावती यमं पप्रच्छ युक्तिकोविदा ॥९८॥
हे धर्मराज धर्मिष्ठ काले ह्यनागतेऽपि मे ।
कान्तमकाले तु कथं हरसि वद मे विभो ॥९९॥
यमः प्राहाऽप्राप्तकालो म्रियते न कदाचन ।
ईश्वराज्ञां विना साध्वि! नाऽमृतं वै नयाम्यहम् ॥१००॥
अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः ।
निषेके निर्मिता यस्य तं हरामो हि तत्क्षणे ॥१०१॥
मृत्युकन्या सहवासा विज्ञापयति यत्क्षणम् ।
तत्क्षणेऽहं कलयामि पृच्छैनां त्वत्पतिकृते ॥१०२॥
मालावती तदा प्राह मृत्युकन्ये कथं त्वया ।
मम कान्तो हृतोऽकाले जीवितायां मयि प्रिये! ॥१०३॥
मृत्युकन्या च तां प्राह सृष्टा विश्वसृजाऽत्र वै ।
प्राणवियोजनकार्ये संहरामि यथापलम् ॥१०४॥
कालेन प्रेरिता चाऽहं निषेकेण सहस्थिता ।
नित्यमायुर्हराम्येव नात्र मे दूषणं प्रिये ॥१०५॥
सती सतीनां मध्ये च काचित्तेजस्विनी यदि ।
मामपि भस्मसात्कर्तुं क्षमा तदा जगत् खलु ॥१०६॥
मृत्युकन्याविहीनं सच्चाऽमृतं स्यान्न त्वन्यथा ।
अहं तिष्ठामि गर्भेऽपि देहिनां देहतत्त्वके ॥१०७॥
नित्यं नित्यं संहरामि जानन्ति नैव तज्जनाः ।
अद्य यज्जायते श्वस्तद् वृद्धमित्येव वर्तते ॥१०८॥
नूतनं जायते पश्चाज्जीर्ण वृद्धं तदुच्यते ।
नित्यं नित्यं हि वार्धक्यं सर्वत्र संप्रवर्तते ॥१०९॥
जना मूढास्तु मोदन्ते युवाऽहं बालकोऽस्म्यहम् ।
नास्मि वृद्ध इत्यज्ञानं जानन्त्येव न वृद्धताम् ॥११०॥
वृद्धिर्हि वृद्धता प्रोक्ता निषेको वर्धते सदा ।
गर्भे च वर्धते नित्यं बाल्यादौ च विवर्धते ॥१११॥
वर्धते एव नित्यं न तूनो भवति कश्चन ।
कालप्रपेरिता चाह मत्पुत्रा व्याधयस्तथा ॥११२॥
कुर्मः कार्यं प्रतिक्षणं न नो दोषोऽस्ति वै सति! ।
पृच्छ कालं महात्मानमुचितं स करिष्यति ॥११३॥
सती प्राह तदा कालं साक्षिन् वै कर्मणां प्रभो! ।
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो! ॥११४॥
श्रुत्वा मालावतीदुःखं कालः प्राह सतीं तदा ।
को वाऽहं को यमः का च मृत्युकन्या तथाऽऽधयः ॥११५॥
वयं भ्रमामः श्रीकृहणादेशस्य परिपालकाः ।
मूला प्रकृतिर्यद्वामे यत्कुक्षौ विष्णुशंभ्वजाः ॥११६॥
देवता यन्निदेशस्था धर्मोऽपि यस्य वै वशे ।
ग्रहाश्च राशयो यस्य दिक्पालाद्याश्च वै वशे ॥११७॥
तस्यैवांशो ह्ययं कालो मृत्युर्मृत्युसुताऽऽधयः ।
इमे यत्प्रेरिताः सर्वे कुर्मो योगवियोजने ॥११८॥
पृच्छ कृष्णं शासको त्वं कथं स्वामी मृतस्तव ।
इत्युक्त्वा विरमे कालो ब्राह्मणस्तामुवाच ह ॥११९॥
पृष्टः कालो यमो मृत्युकन्या व्याधिगणा अपि ।
कस्तेऽधुना च सन्देहस्तं पृच्छ कन्यके पुनः ॥१२०॥
मालावती तदा प्राह कं पृच्छाम्यधुना द्विज! ।
योगेन प्राणाँस्तत्याज मत्पतिः शापहेतुना ॥१२१॥
अधुना मत्प्राणकान्तं देहि देहि यदि कृपा ।
नत्वा वः स्वामिना सार्धं यास्यामि स्वगृहं प्रति ॥१२२॥
कृष्ण क्व मार्गयाम्यत्र ब्राह्मणः कृष्ण एव हि ।
ब्राह्मणो यत्करोत्येव कृष्णोऽनुसरति द्विजम् ॥१२३॥
इति दीनवचः श्रुत्वा ब्राह्मणो देवमध्यगः ।
उवाच परमं सत्यं देवान्प्रति दयावशः ॥१२४॥
उपबर्हणभार्येयं पुत्री चित्ररथस्य च ।
ययाचे जीवदानं च स्वामिनः शरणागता ॥१२५॥
तन्मां ब्रूत सुराश्चात्र किमनुष्ठेयमर्थकृत् ।
शप्तुकामा सुरान्सर्वान् मया सती निरोधिता ॥१२६॥
बहुभिर्वाक्प्रलापैश्चाऽधुना किं स्याद् विलम्बने ।
युष्माभिरर्थितो विष्णुः श्वेतदीपे स नागतः ॥१२७॥
बभूवाऽऽकाशवाणी च पश्चादायाति केशव ।
विपरीतं तु तज्जातं यतो नायाति केशवः ॥१२८॥
ब्रह्मोवाच तदा विप्रं नारदोऽयं ममाऽऽत्मजः ।
अकाले मम शापेन गन्धर्वस्तूपबर्हणः ॥१२९॥
योगेन प्राणाँस्तत्याज कालेऽवशेषितेऽपि वै ।
तत्तु वर्षसहस्रं चैवायुरस्यास्ति साम्प्रतम् ॥१३०॥
द्विलक्षं तु गतं तस्य यच्छेषं प्रवदामि तत् ।
यथैनं न स्पृशेच्छापो देवाश्च निर्भया यथा ॥१३१॥
हरिः सर्वत्र चास्त्येव नाऽऽयातो नैव विद्यते ।
दृश्याऽदृश्यस्वरूपेण कृष्णनारायणोऽस्ति सः ॥१३२॥
कृष्णः कथं न चायाति वियद्वागपि वै मृषा ।
इति निन्दं हरेस्तस्य मा कुरु द्विज! संसदि ॥१३३॥
कस्य शिष्यो मुनीन्द्रस्य कस्त्वं नाम्ना च भो द्विज! ।
क्व वासः कुत आयातः कस्य वंशोद्भवो भवान् ॥१३४॥
विडम्बयसि देवांश्च कृष्णनारायणं तथा ।
अधुनापि सभां विष्णुर्नायात इति यद्वचः ॥१३५॥
त्वयोक्तं तन्न श्रोतव्यं निन्दात्मकं परात्मनः ।
विषिर्व्याप्तिर्नुश्च यावत् विष्णुः सर्वत्र व्यापकः ॥१३६॥
एवं सर्वत्र सत्त्वे वै गमनागमने कुतः ।
महन्निन्दा भवेद्यत्र नैव साधुः शृणोति ताम् ॥१३७॥
निन्दकः श्रोतृभिः सार्ध कुंभीपाकं व्रजेद् युगम् ।
विष्णुनिन्दा त्रिविधा वै मूर्तिखण्डनरूपिणी ॥१३८॥
अनस्तित्वरूपिणी च जीवसाम्यस्वरूपिणी ।
तस्याऽत्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् ॥१३९॥
गुरोर्निन्दां यः करोति पितुर्निन्दां नराधमः ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥१४०॥
ब्राह्मणस्तु तदाकर्ण्य देवानुवाच वै तदा ।
का कृता विष्णुनिन्दाऽहो हे देवा धर्मशालिनः ॥१४१॥
नाऽऽगतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती ।
इति प्रोक्तं मया भद्रं न तद्वै निन्दनं कृतम् ॥१४२॥
यूयं वै भावुका ब्रूत विष्णुर्व्यापक ईश्वरः ।
इतिचेत् तत्कथं याताः श्वेतदीपं वराय च ॥१४३॥
अंशांशिनोर्न भेदश्चेत् परमेशतदंशयोः ।
कलां हित्वा निषेवन्ते सन्तः पूर्णतमं कथम् ॥१४४॥
सर्वांशानां प्रभुः कृष्णो भक्तानुग्रहविग्रहः ।
ऊर्ध्वं च सर्वब्रह्माण्डाद् वैकुण्ठं सत्यमेव वै ॥१४५॥
चतुर्भुजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः ।
तस्मादूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनम् ॥१४६॥
गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः ।
ततोऽतिव्यापको लोकोऽक्षरब्रह्मात्मकोऽतिगः ॥१४७॥
परिपूर्णतमं ब्रह्मपरमं तत्र राजते ।
एवं तस्य कथमत्र नागमोऽद्य भवेद् ब्रूत ॥१४८॥
ध्यायन्ति वैष्णवाः सन्तः सेवन्ते दिव्यविग्रहम् ।
यं सेवन्ते भागवताः सन्तः साध्व्यो निरन्तरम् ॥१४९॥
यस्य वंशोद्भवोऽहं च यस्य शिष्यश्च बालकः ।
सोऽयं वक्ति द्विजो भूत्वा देवसंघा निबोधत ॥१५०॥
शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर ।
व्यक्ते जाते ततः कृष्णे वाग्युद्धे किं प्रयोजनम् ॥१५१॥
इत्युक्त्वा बालको विप्रश्चतुर्बाहुः रमायुतः ।
लक्ष्मीशः श्रीकृष्णनारायणात्मकोऽभवत्तदा ॥१५२॥
अथ ब्रह्मा कमण्डलुजलं शवे ददौ तदा ।
सञ्चारं मनसस्तस्य चकार सुन्दरं वपुः ॥१५३॥
ज्ञानदानं ददौ शंभुर्विष्णुर्जीवं ददौ ततः ।
धर्मज्ञानं स्वयं धर्मो वह्निर्ददौ हि जाठरम् ॥१५४॥
कामो ददौ सुरूपत्वं वायुः प्राणान् ददौ तदा ।
सूर्यो ददौ नेत्रतेजो वाणीं ददौ च शारदा ॥१५५॥
शोभां ददौ तदा श्रीश्च देवा ददुर्हि तत्क्रियाः ।
शवस्तथापि नोत्तस्थौ यथा शेते जडस्तथा ॥१५६॥
ब्रह्मोवाच तदा साध्वीं वयं कृतमनोरथाः ।
अथ स्नात्वा च श्रीकृष्णानारायणं हृदि स्मर ॥१५७॥
तं विना नोज्जीवनं वै जीवे तिष्ठति वास्तवम् ।
ब्रह्मणो वचनात् साध्वी तुष्टाव परमेश्वरम् ॥१५८॥
वन्दे तं परमात्मानं सर्वकारणकारणम् ।
विना येन शवाः सर्वे प्राणिनोऽपि निरर्थकाः ॥१५९॥
यदावेशात् सजीवाः सक्रियाः सचेतना यतः ।
सेवाध्यानं न तदपि घटते विग्रहं विना ॥१६०॥
तादृशं दिव्यरूपं श्रीकृष्णनारायणं विभुम् ।
तेजोमण्डलमध्यस्थं कोटिगोपीगणावृतम् ॥१६१॥
अतीव कमनीयं च श्यामं पंकजलोचनम् ।
मन्दहासाननं कोटिकन्दर्पसुन्दरं प्रभुम् ॥१६२॥
द्विभुजं पीतवस्त्रं च किशोरं राधिकापतिम् ।
लक्ष्मीश्रीपार्वतीपद्मापद्मिनीमाणिकीपतिम् ॥१६३॥
पार्षदैः सेवितं वन्दे सर्वरूपधरं हरिम् ।
प्राणरूपं पतिप्राणं वन्दे जीवातुमीश्वरम् ॥१६४॥
आयाहि भगवँश्चात्र गन्धर्वे जेडचेतने ।
इत्युक्त्वा सा तु गान्धर्वी पुनः प्राह रुषा सती ॥१६५॥
यदि नायाहि भगवन्! करिष्ये वै रमादिकाः ।
मत्सदृशीः स्वामिहीनास्त्वां च गन्धर्वसदृशम् ॥१६६॥
पातिव्रत्यं यदि मेऽस्ति सत्यं तदेति यावता ।
वक्तुं याति तदा तावत् कृष्णस्तत्राऽऽजगाम ह ॥१६७॥
मा मा भेत्युक्तवाँस्त्रेधा सतीं शापे निषिध्य वै ।
प्रविवेश च गन्धर्वे तावत्सोऽभवदुत्थितः ॥१६८॥
उत्थाय शीघ्रं वीणां च धृत्वा स्नात्वा च वाससी ।
ननाम देवान् विष्णुं श्रीकृष्णनारायणं तथा ॥१६९॥
ननर्त च क्षणं कृष्ण हरे गोविन्द वै वदन् ।
नेदुर्दुन्दुभयो देवाः पुष्पवृष्टिं प्रचक्रिरे ॥१७०॥
सर्वे ययुः स्वस्वधाम नारदोऽपि स्वयोषिता ।
समं मात्रा तथा पित्रा ययौ गन्धर्वपत्तनम् ॥१७१॥
मालावती रत्नकोटिं ददौ धनानि वै सती ।
भोजनानि च विप्रेभ्यः स्वस्तिवाचमकारयत् ॥१७२॥
महोत्सवं चकारापि गन्धर्व उपबर्हणः ।
पुनर्जीवनमासाद्य पतिव्रताप्रदापितम् ॥१७३॥
हरेर्भक्तिं हरेर्दास्यं चकार तूपबर्हणः ।
यो या चेदं पठेद्वापि शृणुयाद् भावतः प्रिये! ॥१७४॥
तस्य तस्याः प्रसौभाग्यप्राप्तिर्भवेन्न संशयः ।
भुक्तिर्मुक्तिश्चतुर्वर्गसिद्धिर्भवेदखण्डिता ॥१७५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
ब्रह्मशापान्नारदस्य मृत्युरुपबर्हणाख्यगन्धर्वजन्मनि पुन-
र्मृत्युस्तत्र तत्पत्न्या मालावत्या पातिव्रत्यबलेन सविष्णु-
देवानाहूय कालादीनाहूय च स्वपतिरुज्जीवित
इत्यादिनिरूपणनामाऽष्टाधिकचतुश्शत-
तमोऽध्यायः ॥४०८॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP