संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २९९

कृतयुगसन्तानः - अध्यायः २९९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! दुन्दुभेस्तु निनादेन कृतं व्रतम् ।
सत्यलोकस्थिताभ्यां तु कन्याभ्यां विश्वकर्मणः ॥१॥
सत्यस्वर्गादिलोकानां राज्ञां पातालवासिनाम् ।
नगराणां भवनानां सभानां यज्ञकर्मिणाम् ॥२॥
मण्डपानां विनिर्माता नारायणांश एव यः ।
तस्य कन्या सिद्धिनाम्नी ज्येष्ठा बुद्धिः कनीयसी ॥३॥
सिद्धिबुद्धी सुरूपे च सुशीले देवपूजिके।
नित्यं नारायणं स्मृत्वा प्रातः स्नात्वा तदुत्तरम् ॥४॥
पित्रोश्चरणयोर्नत्वा ब्राह्मसंज्ञे मुहूर्तके ।
गृहे देवगृहे चापि दीपं प्रज्वाल्य वै ततः ॥५॥
धूपं कृत्वा सुगन्धं च कीर्तनं कुरुतश्च ते ।
देवं नत्वा तु पुष्पाणि जलं च शर्करादनम् ॥६॥
समर्प्य गृहकार्याणि कुरुतश्चोभये ततः ।
सिद्धिस्तत्र सरोमध्याज्जलं त्वाहरति द्रुतम् ॥७॥
मार्जयित्वा गृहं बुद्धिर्वह्निं प्रज्वालयत्यपि ।
चुल्लिकायां जलपात्रमुष्णीकरणहेतवे ॥८॥
स्थापयित्वा च पितरो प्रस्नापयति भावुका ।
सिद्धिस्तावद्गृहशय्यादिकं संगृह्य शय्यधौ ॥९॥
रक्षयित्वाऽथ पर्यंकान् सम्मार्ज्योन्नीय सुस्थले ।
संक्लृप्य रात्रिपात्राणां मञ्जनं प्रकरोति वै ॥१०॥
तावद् बुद्धिः स्नातयोश्च पित्रोरार्द्राम्बराणि तु ।
प्रक्षाल्य रज्ज्वां विन्यस्य गत्वोद्यानं गृहानुगम् ॥११॥
देवपूजादिकार्यार्थं पुष्पाण्यानयति द्रुतम् ।
माता चाथ पिता यावत्तूपयांति हरेर्गृहम् ॥१२॥
आसने तावदास्तीर्य सन्ध्याद्यर्थे ददात्यपः ।
तुलसीपत्रकाऽम्भोजकुन्दचम्पकमालिकाः ॥१३॥
ददाति देवपूजार्थं पित्रोः परमभावतः ।
चन्दनाऽक्षतकुंकुमपञ्चामृतजलानि च ॥१४॥
पात्राणि पूजनार्हाणि घृतवतीश्च शर्कराः ।
द्राक्षादाडिमबीजानि विविधानि फलानि च ॥१५॥
एलालवंगताम्बूलनैवेद्यान्यानयत्यपि ।
पूजास्थां मातरं चाथ पूजास्थं पितरं तदा ॥१६॥
दश प्रदक्षिणाः कृत्वा कृत्वा दश नमस्क्रियाः ।
मातापितृचरणयोर्धौतं प्रगृह्य वै जलम् ॥१७॥
पार्श्वे तिष्ठति सेवार्थं दर्शनं प्रकरोति च ।
तावत्तत्र समागत्य सिद्धिरपि तथैव तत् ॥१८॥
प्रदक्षिणानमस्कारादिकं कृत्वा प्रसादजम् ।
जलं पीत्वा पुनर्याति चुल्लिकासन्निधौ गृहे ॥१९॥
महानसे तु पाकार्थं सामग्री सकलाश्च सा ।
सुशोधयित्वा सन्न्यस्य बुद्धिमाहूय तामनु ॥२०॥
करोति भक्ष्यभोज्यानि पेयानि विविधान्यपि ।
दुग्धपानं तु सा पित्रोः सिद्धिः कारयति द्रुतम् ॥२१॥
पूजापात्राणि सर्वाणि मृदा संघृष्य वै ततः ।
शुद्ध्वा प्रातर्विधेयं यत् कृत्वा सर्वं ततो ह्युभे ॥२२॥
विद्याभ्यासं च कुरुते वैश्वदेवान्तकं ततः ।
कृत्वा तौ भोजयित्वा च विधिं माध्याह्निकं पुनः ॥२३॥
कृत्वा चातिथिगोजन्तुभागान् दत्वाऽऽश्रितादनम् ।
ततः स्वे भोजनं प्रासादिकं चक्रतुरादरात् ॥२४॥
महानसप्रशुद्धिं च पात्रशुद्धिं प्रमार्जनम् ।
जलाहरणमन्नादिशोधनं त्वपराह्णके ॥२५॥
देहश्रांगारिकं कृत्वा विरामं प्राप्नुतः क्षणम् ।
ततस्तीर्थकथादेव दर्शनादि विधाय तु ॥२६॥
सायं कृष्णस्य संपूजा षोडशोपसुवस्तुभिः ।
कृत्वा पक्वान्नमिष्टानि भोजयित्वाऽतिभावतः ॥२७॥
पितरौ तु ततः शय्यादिकं संस्तीर्य ते ह्युभे ।
पादसंवाहनं पित्रोः कृत्वा सेवनमित्यपि ॥२८॥
दैनं तु यत् स्वकं गोसेवनं कीर्तनमैश्वरम् ।
यन्न्यूनं तत्तु सम्पूर्णं कृत्वा निःशेषमित्युभे ॥२९॥
किंचिदध्ययनं कृत्वा गृह्णीतः स्वापमल्पकम् ।
ब्राह्मकाले समुस्थायाऽभ्यस्तां विद्यां विचार्य च ॥३०॥
पुनश्च नैत्यकं कार्यं कुरुतः कन्यके ह्युभे ।
एवं तु सेवया हृष्टौ पितरौ त्वतिभावतः ॥३१॥
युयुजतुः शुभाशीर्भिः 'सुखिन्यौ भवतं ह्युभे ।
ईश्वरे प्रेमयुक्तत्वान्नारायणहरिप्रभुः ॥३२॥
युवाभ्यां प्राप्स्यते काले सेवनीयतमः शुभः ।
इत्याशीर्वादपात्रे ते नित्यं हृदि हरिं मुहुः ॥३३॥
वाञ्छतः श्रीहरिं कृष्णं नारायणमधीश्वरम् ।
एवं व्रते सत्यलोके ताभ्यां मे दुन्दुभिः श्रुतः ॥३४॥
अधिमासस्य सप्तम्यां प्रातर्वै व्रतबोधकः ।
स तु बोधयते लोकान् अधिमासव्रतानि वै ॥३५॥
करिष्यन्ति यथाशक्ति ये ब्रह्माण्डगता जनाः ।
नरा नार्योऽथवा त्वन्ये तेषामभीष्टदायकः ॥३६॥
अलभ्यलाभदाताऽस्मि ह्यहं श्रीपुरुषोत्तमः ।
मासिकं पाक्षिकं साप्ताहिकं दैनिकमेव वा ॥३७॥
नैशं पौर्वाह्णिकं यद्वा पाराह्णिकं च मध्यगम् ।
उपवासान् फलाहारान् पयःपानं जलाशनम् ॥३८॥
कन्दाशनं निवाराद्यशनं सायं निशाशनम् ।
दिवाशनं वैकभुक्तं तिलभुक्तमयाचितम् ॥३९॥
कृत्वा यथाबलं पुष्पैः सम्पूज्य पुरुषोत्तमम् ।
जलेन वा फलैर्वापि मूलेन कुंकुमेन वा ॥४०॥
अक्षतैश्चन्दनेनापि सम्पूज्य पुरुषोत्तमम् ।
वस्त्रेण च सुदुग्धेन गूडेन मिष्टयाऽथवा ॥४१॥
शर्कराभिर्जलपानैस्ताम्बूलेनच्छदादिना ।
पत्रेण वाऽतिभावेन प्रेम्णा मां पुरुषोत्तमम् ॥४२॥
सन्तुष्याऽधिकमासे ते मत्तोऽर्जयन्तु दुर्लभम् ।
इदानीं कृपया दास्ये कृते स्वल्पेऽपि साधने ॥४३॥
अन्यमासेषु यत् कष्टसाध्यं भवति चात्र तत् ।
स्वल्पस्यापि ददाम्येव कोटिगुणितमद्य वै ॥४४॥
पश्चान्नैव प्रदास्येऽहं तस्माद् गृह्णन्तु भो जनाः ।
फलं पूगीफलस्यापि पारमेष्ठ्यपदाधिकम् ॥४५॥
जलपात्रव्रतेनापि क्षीरसागरशायिताम् ।
एकभुक्तव्रतेनापि गोलोकस्याऽधिकारिताम् ॥४६॥
नक्तमात्रव्रतेनाऽपि नारायणसमानताम् ।
पत्रपुष्पप्रदानेऽपि महेन्द्रपदशालिताम् ॥४७॥
दीपमात्रप्रदानेऽपि सूर्यचन्द्रादिदेहिताम् ।
नरो वा यदि वा नारी कुमारो वा कुमारिका ॥४८॥
इच्छति चेन्ममलक्ष्मीमपि मां पुरुषोत्तमम् ।
पत्नीं पतिं च वा पुत्रं दास्ये लक्ष्मीं च मामपि ॥४९॥
प्रगृह्णन्तु वरानस्मत् प्रकुर्वन्तु च सञ्चयम् ।
महाकृपामहावृष्टिलभ्यं पुण्यबलोदयम् ॥५०॥
सत्यं सत्यं नाऽनृतं वै घोषयत्येव दुन्दुभिः ।
अधिमासव्रतं कृत्वा गृह्णन्तु स्वेप्सितं प्रजाः ॥५१॥
इत्याश्रुत्य ह्युभे कन्ये सप्तम्यां प्रातरेव ह ।
दुन्दुभिं मे प्रणम्यैव वर्धयित्वाऽञ्जलिद्रवैः ॥५२॥
पूजयित्वा सुपुष्पैश्च हर्षयुक्ते बभूवतुः ।
पुनस्तावद्दुन्दुभेश्च कृपावाक्यं श्रुतं शुभम् ॥५३॥
कुमारिके यदीच्छेतां पतिं मां पुरुषोत्तमम् ।
एकभुक्तव्रतेनापि भविष्यामि पतिस्तयोः ॥५४॥
पूजां माध्याह्निकीं कृत्वा यथालब्धोपचारकैः ।
मिष्टान्नं भोजयित्वा मां प्राप्स्यतः पुरुषोत्तमम् ॥५५॥
इत्येवं संवदन्तं तं मत्वा स्वयोः कृते शुभम् ।
सिद्धिबुद्धी विदित्वा स्वं भाग्योदयमुपागतम् ॥५६॥
पूजयित्वा स्वपितरौ भोजयित्वा विधानतः ।
गृहकार्यं विनिर्वर्त्य पुष्पचन्दनवारिभिः ॥५७॥
अक्षतैश्चापि मिष्टान्नैर्धूपदीपसुचर्वणैः ।
यान्यासन् स्वगृहे तैस्तैरर्चयित्वा तु कानकम् ॥५८॥
नारायणं हरिं देवं पतिप्राप्तीच्छया शुभे ।
नीराजयामासतुश्च ह्यर्थे कामफलं शुभम् ॥५९॥
दत्वा संप्रार्थयामासतुश्च नौ त्वं पतिर्भव ।
इत्युक्त्वाऽक्षतसंपूर्णाञ्जली ददतुरादरात् ॥६०॥
तावच्छ्रीभगवान् साक्षात् कृष्णनारायणः स्वयम् ।
युवा कटाक्षबाणेन निरीक्षन् प्राविरास वै ॥६१॥
द्वयोः प्रकोष्ठे संगृह्य स्वकरेण हरिः स्वयम् ।
मस्तकयोः करौ कृत्वा वक्षस्याकृष्य ते ह्युभे ॥६२॥
प्रिये इति च संभाष्य निभाल्य च मुहुर्मुहुः ।
मिलितोऽस्मि च जातोऽस्मि मिलिते विधिवत् प्रिये ॥६३॥
इत्युक्त्वाऽन्तर्दधे कृष्णस्ते ह्युभे तं हरिं सदा ।
जाग्रत्यपि तथा स्वप्ने पश्यतो वै मनोहरम् ॥६४॥
पार्वत्यंकस्थितं कृष्णमेकशुण्ढं क्वचित्पुनः ।
अशुण्ढं मुरलीयुक्तं गोलोकस्थं व्यपश्यताम् ॥६५॥
वरयोग्यं पुनस्तं च गणेशं शंकरात्मजम् ।
सशुण्ढं च सुरूपं च ददृशतुः क्षणान्तरे ॥६६॥
श्वेतवर्णं सुनेत्रं च सुभालं यौवनान्वितम् ।
कृष्णात्मकं च तं दृष्ट्वा मुमूहतुः पुनः पुनः ॥६७॥
क्वचित्स्वप्ने च ते कन्ये कुर्वन्त्यौ मोदकान् बहून् ।
पश्यतः स्म च तत्रैत्य गणेशः फलकासने ॥६८॥
निषद्याऽर्थयते लड्डून् अन्येऽपि ददतुस्तदा ।
पार्श्वद्वये ह्युभे स्थित्वा ददतुर्लडडूऽकान् मुहुः ॥६९॥
गणेशः स्वल्प शुण्डेन पार्श्वद्वये कृतेन च ।
वारंवारं प्रदत्तान् सुलड्डून्प्राप्य निजे मुखे ॥७०॥
न्यस्यत्यतीव मिष्टाँश्च प्रेम्णा भक्षयति द्रुतम् ।
प्रशंसति करौ दत्वा कन्ययोः पृष्ठयोस्तदा ॥७१॥
एकैकं लडडुकं ताभ्यां दत्वा संभोजयत्युभे ।
हसन् हास्यं प्रकुर्वन् रामयन् संरमयन्मुदा ॥७२॥
दर्शयित्वैवमात्मानं तिरोभावं प्रगच्छति ।
कन्येऽपि जाग्रते भूत्वा मुहुः संस्मरतुश्च तम् ॥७३॥
एवं हृद्ये गणपतौ जाते कालेऽप्युपस्थिते ।
विश्वप्रकर्मणा ज्ञात्वा प्राग्वृत्तान्त तदीयकम् ॥७४॥
गणेशं तु समाहूय विधिना लग्नशालिना ।
गणेशायाऽर्पिते कन्ये सिद्धिबुद्धी समाह्वये ॥७५॥
विवाहोत्तरकालेऽत्रऽऽश्चर्यं जातं महच्छृणु ।
गणेशेन कृते रूपे द्वे तदानीं गृहान्तरे ॥७६॥
एकं श्रीकृष्णरूपं च गणेशात्म द्वितीयकम् ।
कन्ययोश्चापि रूपे द्वे द्वे कृते सुमनोहरे ॥७७॥
राधातुल्ये तु रूपे द्वे श्रीकृष्णो गरुडोपरि ।
नीत्वा ययौ स्वकं धाम गोलोकं शाश्वतं तदा ॥७८॥
तत्र वै रमते सिद्ध्या बुद्ध्या च दिव्यरूपया ।
एवं ताभ्यां फलं मुक्यात्मकं दत्तं व्रतस्य वै ॥७९॥
अथाऽन्येन स्वरूपेण गणेशाख्येन तेन ते ।
उभे कृत्वा स्वके त्वंके प्रेम्णा निभालिते मुहुः ॥८०॥
चुम्बिते गण्डयोश्चापि तोषितेऽन्तर्गृहे गते ।
नवयौवनभावस्य फलं वै प्रापिते रतेः ॥८१॥
इति लक्ष्मि! फलं ताभ्यां लब्धं कृष्णधवात्मकम ।
दिव्यं लोकेऽपि विख्यातिं प्राप्तं रूपं द्वयं द्वयम् ॥८२॥
पूज्यभावं प्रतिष्ठां च प्राप्तेऽधिमास सत्कृतात् ।
एकभुक्तव्रताद् यद्वा प्राप्तवस्तुभिरर्चनात् ॥८२॥
एवं या कन्यका कुर्यात्पुरुषोत्तमपूजनम् ।
सप्तम्यां त्वेकभुक्तं च वाञ्च्छया कृष्णसत्पतेः ॥८४॥
साऽवश्यं यत्र कुत्रापि प्रादुर्भूतं स्वकं पतिम् ।
कृष्णनारायणं दिव्यं मानवं सा त्ववाप्स्यति ॥८५॥
भुक्तिं कृत्वा बहून लोकान् सम्प्राऽनुभूय शाश्वतान् ।
ततः श्रीकृष्णगोलोकं वैकुण्ठं वाऽऽप्स्यति ध्रुवम् ॥८६॥
तस्माद् व्रतं प्रकर्तव्यमधिमासप्रसंभवम् ।
अनायासेन मुक्तिः स्यात् पुनर्जन्म न शिष्यते ॥८७॥

इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विश्वकर्मणः सिद्धिबुद्धिपुत्रीभ्यां माता- पितृसेवयाऽऽशीर्वादोत्तरमधिकमासव्रत बोधकदुन्दुभिश्रवणोत्तरं कृतेन सप्तम्यां एकभुक्तव्रतेन तयोः श्रीकृष्णदर्शनरूपद्वयप्राप्तिर्गोलोकवासो गणपत्यात्मककृष्णेन सह विवाहश्चेत्यादिनिरूपण-नामैकोनशताधिकद्विशततमोऽध्यायः ॥२९९॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP