संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३०६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३०६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३०६ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! परे त्वाद्ये वैकुण्ठे प्रथमे तु यत् ।सञ्जातं वै चतुर्दश्यां चरित्रं दुन्दुभेस्तु यत् ॥१॥अक्षरब्रह्मधाम्नस्तु सीम्नि संविद्यते तु यत् ।वैकुण्ठं प्रथमं श्रेष्ठं गृहं गोलोकसदृशम् ॥२॥तत्र युक्तस्वरूपा वै वसन्ति कल्पशाखिनः ।तत्पुत्री श्रीः सदा तत्र वर्तते वै कुमारिका ॥३॥दिव्यभूमिस्वरूपा च दिव्या विभूतिरस्ति च ।चेतनाधिष्ठिता देवी सर्वाधारस्वरूपिणी ॥४॥तस्या विभूतेः पुत्री च माणिक्याऽस्ति कुमारिका ।दिव्यदुग्धाऽमृताब्धिश्च वैकुण्ठे तत्र वर्तते ॥५॥तस्य पुत्री कुमारी च लक्ष्मीस्त्वदात्मिकाऽस्ति च ।ता एतास्तिस्र ईश्वर्यो राजन्ते धाम्नि तत्र वै ॥६॥सख्यस्तिस्रः सवयस्याः कुमार्योऽतीव कोमलाः ।माणिक्या श्रीश्च लक्ष्मीश्च ब्रह्मवेत्र्योऽभवन् सदा ॥७॥ब्रह्मात्मज्ञानयोगिन्यो भक्तिमत्यश्च वै हरौ ।कुर्वन्ति सेवनं नित्यं कृष्णनारायणस्य ताः ॥८॥तस्यैव प्रतिमां नित्यं गृहे ध्यायन्ति भावतः ।दिव्यविभूतिः कल्पद्रुः क्षीराब्धिश्चेति ते त्रयः ॥९॥पुत्रीणां ध्यानसेवादि दृष्ट्वा तुष्यन्ति वै मुहुः ।वितरन्त्याशिषस्ताभ्यो भवन्त्यानन्दमूर्तयः ॥१०॥अनन्तधामसु कृष्णपत्न्यः सन्ति त्वनेकशः ।भवत्यश्च भवन्त्येव परब्रह्मप्रियाः पराः ॥११॥राजाधिराजरूपिण्यो याभ्यो नान्याः पराः क्वचित् ।इति पित्राशिषः प्राप्ता दीव्यन्ति नित्यवर्धिताः ॥१२॥प्रातः स्नान्ति हरिं स्मृत्वा ध्यायन्ति च हरिं ततः ।कुर्वन्ति मण्डपं दिव्यं विद्युत्तोरणसूज्ज्वलम् ॥१३॥विचित्ररत्नमणिभिर्नद्धस्तंभादिमण्डितम् ।कृत्रिमोद्यानसंव्याप्तं दिव्याम्बरविभूषितम् ॥१४॥कृष्णनारायणमूर्तिशोभितं सर्वतो दिशि ।मध्ये सिंहासनं रम्यं मणिस्वर्णादिराजितम् ॥१५॥स्थापयन्ति च तास्तत्र तूलिकाश्च सुखावहाः ।मूर्तिं विन्यस्य तन्मध्ये कृष्णनारायणस्य ताः ॥१६॥स्नापयन्ति क्षीरधाराभिश्चाद्भिः स्नापयन्ति च ।सुगन्धं चन्दनं तैलं मर्दयन्ति च ता मुहुः ॥१७॥स्नापयित्वा च वस्त्राणि दिव्यानि ददति प्रगे ।धारयन्ति विभूषाश्च शृगारं धारयन्ति च ॥१८॥पत्रैः पुष्पैः फलैस्तोयैः पूजयन्ति मुहुर्मुहुः ।धूपं दीपं सुगन्धं च कुर्वन्ति कृष्णसन्निधौ ॥१९॥संवाहयन्ति चरणौ गृह्णन्ति चरणामृतम् ।जिघ्रन्ति ता भक्तिमत्यो गन्धं कृष्णप्रसादजम् ॥२०॥पश्यन्ति ता हरेः रूपं स्पृशन्ति कृष्णपत्कजम् ।आस्वादयन्ति पूजायां दत्तं फलादिकं तु यत् ॥२१॥शृण्वन्ति भगवत्स्तोत्रं गीतं परस्परेण यत् ।वदन्ति गुणचारित्र्यं कृष्णनारायणस्य ताः ॥२२॥आददति हरेः कार्ये गच्छन्ति च प्रदक्षिणम् ।विलासं हावभावादि तथाऽऽनन्दं च मानसम् ॥२३॥चिन्तनं निर्णयं स्वत्वं कुर्वन्ति कृष्णयोगजम् ।मिष्टान्नामृतपात्राणि जलपात्राणि तत्पुरः ॥२४॥स्वर्णस्थालानि नैवेद्यपूरितानि ददुश्च ताः ।भोजयन्ति भावपूर्णं रामयन्ति हरिं पुनः ॥२५॥वारिपानं कारयन्ति रमन्ते ता हरेः पुरः ।वादयन्ति प्रवाद्यानि कुर्वन्त्यारार्त्रिकं मुदा ॥२६॥नमन्ति हरये ताश्च प्रशंसन्ति च तद्गुणान् ।वर्णयन्ति चरित्राणि कथयन्ति कथानकम् ॥२७॥भावयन्ति कृष्णहृच्चार्पयन्ति हृदयं हरौ ।पुष्पांजलिप्रदानैश्च तोषयन्ति नरायणम् ॥२८॥स्तुवन्ति परमात्मानं स्मरन्त्यप्यभिधा हरेः ।दास्यं कुर्वन्ति सततं सख्यं चात्मनिवेदनम् ॥२९॥एवं भक्तिमयं दिव्यं कर्तव्यमाचरन्ति ताः ।मध्याह्नेपि प्रपूज्यैनं श्रीः फलान्यर्पयंत्यपि ॥३०॥कल्पद्रुकन्यका कल्पपादपेभ्यो नयंत्यपि ।उत्तमं चोत्तमं रम्यं सुरसं मिष्टमम्ब्लकम् ॥३१॥नवं नवं फलं वृक्षपुत्री श्रीरर्पयत्यपि ।कदलानि सुपक्वानि कदलीभ्योऽभिगृह्य सा ॥३२॥आहृत्य चाम्रवृक्षेभ्यश्चाम्राणि तूत्तमानि च ।कर्मदेभ्यः कर्मदानि चाम्ब्लमिष्टान्यवाप्य च ॥३३॥कर्कटिकाश्च वल्लीभ्य आहृत्य पक्वसद्रसाः ।कलिंगानि सुपक्वानि शैत्यावहानि यान्यपि ॥३४॥कपित्थानि च तद्द्रुभ्यः पक्वान्यानीय चाप्यथ ।काजूफलानि मिष्टानि काजू द्रुभ्योऽभिहृत्य च ॥३५॥कटीङ्गुदीभ्य आहृत्य कटीङ्गुन्दीफलानि च ।इङ्गुदानि महान्त्येव पक्वस्निग्धरसानि च ॥३६॥आहृत्याऽर्पयति श्रीश्च भुंक्ते नारायणः स्वयम् ।अंजीराणि सुमिष्टानि द्राक्षाणि सुरसानि च ॥३७॥खर्जूरखारिकादीनि तालानि श्रीफलानि च ।भूफलानि सुमिष्टानि चिक्कणानि फलानि च ॥३८॥क्षीरिकाणि पिशंगानि पनसानि महान्ति च ।गर्जराणि विविधानि घृतघटानि चैव ह ॥३९॥शिङ्गवः पक्वास्तथा जम्बूफलानि रावणानि च ।अमृतानि सुमिष्टानि टिटीमा मिष्टसद्रसाः ॥४०॥दाडिमानि चेक्षुदण्डान् बदराणि नवानि च ।टिम्बूरवाँश्च मधुकान् बदामान् बहुबीजकान् ॥४१॥रामफलानि च सीताफलानि मधुराणि च ।नस्पतीन सन्तराँश्चापि जम्बीराणि च पुप्पिनान् ॥४२॥चिर्भटानि च सफलजनानि टिम्टिमानि च ।नवरंगानि चान्यानि फलान्याहृत्य श्रीर्ददौ ॥४३॥कृष्णनारायणाय श्रीपुरुषोत्तममूर्तये ।भगवानपि भावेन समत्तिश्र्यर्पितानि वै ॥४४॥दिव्यविभूतिकन्या तु माणिक्या भगवत्कृते ।समानयति रत्नानि धारयत्यच्युतं स्वयम् ॥४५॥रत्नमालास्तथा मुक्ताहारान् मौक्तिककंकणान् ।वज्रमणीन् पद्मरागमणीन् मरकतान् मणीन् ॥४६॥इन्द्रनीलमणींश्चापि कौस्तुभान् भीष्मकाँस्तथा ।वैदूर्यान्पुष्परागाँश्च कर्केतकान् सुवर्णकान् ॥४७॥हारितान् पुलकाँश्चैव रुधिरान् स्फटिकाँस्तथा ।विद्रुमाँश्च प्रवालाँश्च माणिक्यान् चित्रकाँस्तथा ॥४८॥गोमेदाँश्च महानीलान् कूप्याँश्चादाय सन्ददौ ।कृष्णनारायणस्तानि मणिरत्नमयानि च ॥४९॥भूषणानि धृतवाँश्च प्रसन्नोऽभूदतीव सः ।अथ क्षीराब्धिकन्या वै लक्ष्मीः क्षैराणि भावुकी ॥५०॥भोजनं कारयामास पाययामास तानि वै ।दुग्धसारं पायसान्नं दुग्धपाकं सतण्डुलम् ॥५१॥दुग्धस्तरं दुग्धमन्थं दुग्धघट्ट पयोबलिम् ।दुग्धक्वाथं दुग्धपिण्डान् दुग्धमल्लयिनीं शुभाम् ॥५२॥दधि सर्पिर्वृतं तक्रं नवनीतं पयःपुटम् ।क्षीरौदनं पयोमिश्रं पयःपानादिकं ददौ ॥५३॥कृष्णनारायणस्तत्तद् भुक्तवान् पीतवाँश्च वै ।क्षीरोत्पन्नानि रत्नानि ददौ सा विविधानि च ॥५४॥श्रिया माणिक्यया लक्ष्म्या यान्यर्पितानि भावतः ।कृष्णनारायणस्तानि जग्राह भावपूरितः ॥५५॥फलानि रत्नानि च पायसानि भुंक्ते दधात्यत्ति च भावगर्भम् ।श्रियं च मणिक्यवरां च लक्ष्मीं सेवापरां वीक्ष्य हरिस्तुतोष ॥५६॥सायं च ताः पूर्ववदेव पूजनं चक्रुः समाराधनतत्पराः सुताः ।नीराजनं भोजनमन्यदर्पणं सदैव चक्रुर्बहुभक्तिभावतः ॥५७॥चतुर्दश्यामधिमासे मध्याह्ने पूजनोत्तरम् ।श्रुतस्ताभिर्दुन्दुभिश्च कृष्णनारायणस्य हि ॥५८॥कुर्वन्तु पूजनं नित्यं कुर्वन्त्वाराधनं मम ।अर्पयन्तु च मे किञ्चित्प्राप्नुवन्तु मम गृहम् ॥५९॥पुरुषोत्तमसंज्ञोऽहं ब्रह्मधामाधिपः पुमान् ।अधिमासाधिदैवोऽहं वदामि तद् ददामि वै ॥६०॥गोलोकस्था अपि याश्च वैकुण्ठस्था अपि व्रतम् ।अधिमासे चतुर्दश्यां कुर्वन्ति याश्च येऽपि च ॥६१॥तासां तेषां मनोलभ्यं करिष्ये भगवानहम् ।दास्यामि परमं धामाऽक्षरातीतनिवासनम् ॥६२॥फलैः रत्नैः पायसान्नैः पूजयिष्यन्ति मां जनाः ।प्राप्स्यन्ति परमं धाम यत्रास्मि पुरुषोत्तमः ॥६३॥अन्येभ्यो धामवासिभ्यः स्थितिं श्रेष्ठां ददाम्यहम् ।गृह्णन्तु भक्तिमत्यो मे भक्ताश्च परमं पदम् ॥६४॥नेदृशं त्वस्ति वैकुण्ठं गोलोकश्चापि नैव ह ।मम धाम्ना समं त्वन्यद् विद्यते नैव नैव च ॥६५॥न मत्समो वाऽप्यधिकोऽस्ति कश्चित्, न ब्रह्मणा सन्निभमस्ति किञ्चित् ।नान्यत्सुखे मत्सुखसाम्यमस्ति, स्वल्पप्रदानेन लिहन्तु चार्याः ॥६६॥भवन्तु दास्यः प्रभवन्तु भक्ता, आनन्दमात्रां मम मूर्तिलब्धाम् ।भुञ्जन्तु नित्यं मयि संरमन्तु, चतुर्दशीसद्व्रतकल्पनेन ॥६७॥मानव्यो मां समाराध्य भवन्तु दिवि देवताः ।देव्यश्च मां समाराध्य भवन्त्वार्षिण्य एव च ॥६८॥आर्षिण्यो मां समाराध्य भवन्त्वीशान्य एव वा ।त्वीशान्यो मां समाराध्य भवन्त्वीश्वर्य एव च ॥६९॥ईश्वर्यो मां समाराध्य नारायण्यो भवन्तु च ।नारायण्यः समाराध्य गोप्यो भवन्तु मां मुदा ॥७०॥ताश्च सर्वाः समाराध्य मां वरं पुरुषोत्तमम् ।भवन्तु पुरुषोत्तम्यो नित्यमुक्तान्य एव ह ॥७१॥कृष्णनारायणं मां वै संराध्य पुरुषोत्तमम् ।ममाऽक्षरं परं धाम गृह्णन्तु मद्व्रतार्थिनः ॥७२॥चतुर्दश्यामधिमासे व्रतं श्रीपुरुषोत्तमे ।कृतं येनाऽर्जितं तेन मामकं सर्वमेव ह ॥७३॥वच्मि वच्मि पुनर्वच्मि ह्यागच्छन्तु मया सह ।भवने त्वक्षरे मे वै निवसन्तु मया सह ॥७४॥तुष्टोऽस्मि गर्जनां कृत्वा कथयामि पुनः पुनः ।अधिमासे चतुर्दश्यां यान्तु व्रतेन मद्गृहम् ॥७५॥वैकुण्ठे दुन्दुभिं श्रुत्वा कृष्णनारायणस्य ताः ।सहर्षाः सत्वरं तत्र ययुर्यत्राऽस्ति घोषकृत् ॥७६॥श्रीश्च हृष्टा च माणिक्या लक्ष्मीर्हृष्टा हृदन्तरे ।नत्वा नत्वा पुनर्नत्वा प्राहुस्तं दुन्दुभिं हरेः ॥७७॥नारायणस्य वैकुण्ठे वसामोऽत्र महासुखे ।ततोऽतिश्रेष्ठसौभाग्यं प्रयच्छति यदि प्रभुः ॥७८॥कन्यका स्मो वयं कुर्मोऽर्चनं तस्य हरेः सदा ।अद्य व्रतं चतुर्दश्याः कुर्मोऽधिमासि निर्णयात् ॥७९॥कदाऽक्षराधिपः कृष्णनारायणो मिलिष्यति ।कदा नेष्यति परमः पुराणः पुरुषोत्तमः ॥८०॥दुन्दुभिस्तु तदाकर्ण्य प्राह ताश्चाऽद्य वै प्रभुः ।निशि पूजोत्तरं त्वायास्यति कुर्वन्तु जागरम् ॥८१॥स्तुवन्तु परमात्मानं हृदयस्थं जनार्दनम् ।भवतीनां सफलाश्च प्रभवन्तु मनोरथाः ॥८२॥इत्युक्त्वाऽक्षतपुष्पैश्च पूजितो दुन्दुभिर्ययौ ।कन्याः पुपूजुः श्रीकृष्णं निशीथे प्रतिघस्रवत् ॥८३॥जागरं तत्र कुर्वन्त्यः श्रीश्चकार सुनर्तनम् ।वाद्यं त्ववादयत्तत्र माणिक्या तालसंयुतम् ॥८४॥लक्ष्मीस्तु गायनं चक्रे तिस्रश्च मिलिता जगुः ।सुस्वरैश्च नद्धकिंकिणिका नूपुरकंकणैः ॥८५॥सत्य ब्रह्माऽक्षरपरमपरं लोकेशं परलोकेशं, नित्यं ज्ञानमनन्तमपारमनेकाकारं कमलेशम् ।शान्तं भास्करकान्तमघनुतं ब्रह्मानन्दमहानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८६॥धाम्नि ब्रह्माऽक्षरमुक्तेश्वरपार्षदवृन्दार्चितचरणं, चैतन्यामृतधामविराजितमुक्तेशैकसुधाकरणम् ।श्रीवत्सांकविरंचिगिरीशनतांऽघ्रितलं सुहृदानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८७॥दिव्याऽखण्डमनन्तमुनीश्वरमण्डलमध्यगताकारं, निगमागमपटलैरभिवेद्यं साकारं परमाकारम् ।दिव्यविहारमनुद्भवरूपमनादिं दिव्यगुणागारं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८८॥सौम्याभं चिन्मालाकुण्डलमुकुटपिशंगसुचेलधरम्, सर्वज्ञामितशक्तियुतं हरिकृष्णमचिन्त्यानन्दकरम्।निगमागमवन्दितयशसं शंसन्तं धर्मं वेदमतम्, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥८९॥लोकालोकविभासिविभूतिमलोकनिवासमनिर्वाच्यं, जन्माद्यस्य यतो भगवन्तमशरणाधारं वृषलालम् ।कृष्णं करुणारसमयरूपं दीनदयालुं देववरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९०॥भास्वरकार्तस्वरविद्युन्मणिभास्करचन्द्रविशेषाभं, सद्रूपं घनवर्णमतर्क्यमजं हृत्स्थं त्रिभुवननाभम् ।श्यामसरोरुहदलसमनयनं स्मेरास्यं सर्वानन्दं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९१॥श्यामं व्यापकमुत्तमपुरुषं परमात्मानं सुखकन्दं, स्वांघ्रिसरोजसमुद्भवकान्तिद्योतितयावज्जनवृन्दम् ।सत्यं नारायणपरमेश्वरमायेशेश्वरमुक्तवरं, परमेश्वरमभिवन्दे प्राविर्भावेश्वरपरमानन्दम् ॥९२॥कल्पद्रुमदुहिता श्रीर्नित्यं ध्यायति वल्लभमात्मानं, दिव्यविभूतिसुता माणिक्या प्रार्थयति स्वाम्यात्मानम् ।दिव्यक्षीराब्धिदुहिता लक्ष्मीरपि चेच्छति पतिमनघं, पुरुषोत्तममक्षरधामस्थं स त्वं भवसि भवार्थकरः ॥९३॥करान् गृहाण चास्माकं मा वै मुञ्च कदाचन ।यावद्वै तेऽक्षरं धाम तावत्पत्न्यो भवामहे ॥९४॥शीघ्रं कुरु कृपानाथ कृष्णनारायण प्रभो ।वरमाला गृहाणाऽस्मद्धस्तेभ्यश्चैककालिकाः ॥९५॥इति स्तुत्वा च तास्तिस्रो विरमुस्तावदेव तु ।प्राविर्बभूव भगवान् कृष्णनारायणः प्रभुः ॥९६॥सर्वाविर्भावहेतुर्यः सर्वकारणकारणम् ।सर्वेशेशेश्वरः श्रेष्ठब्रह्म श्रीपुरुषोत्तमः ॥९७॥श्वेतहस्तियुतं यानं विमानाख्यं चिदम्बरे ।वाहयन् योजनकोटिविस्तृतं मुक्तपूरितम् ॥९८॥तिस्र आश्वास्य वैकुण्ठे कल्पद्रून् दिव्यभूतिकम् ।क्षीराब्धिं च नमस्कृत्य विधिना तैः समर्पिताः ॥९९॥पितृभिस्त्वर्थितः कृष्णे जग्राह तिसृकन्यकाः ।किन्त्वस्माभिर्वियोगो मा स्यात्तथा कुरु केशव ॥१००॥करे करान् समादाय ग्रहीता हरिणा तदा ।श्रीश्च लक्ष्मीश्च माणिक्या कृष्णातुल्या विरेजिरे ॥१०१॥तासां द्वेद्वे स्वरूपे च कारयित्वा पुमुत्तमः ।छायारूप त्रयं तासां पित्रधीनं सुरक्ष्य च ॥१०२॥दिव्यरूपं त्रयं तासां पुरुषोत्तमयोग्यकम् ।अक्षरधामवासार्हं पत्नीरूपं प्रगृह्य च ॥१०३॥तिस्र आरोहयित्वैव विमाने पुरुषोत्तमः ।ययौ दिव्याक्षरं धाम पत्नीयुक्तः स्वयं हरिः ॥१०४॥एवं चाधिकमासस्य चतुर्दश्या व्रतेन ताः ।श्रीश्च लक्ष्मीश्च माणिक्या तिस्रः पत्न्यो हरेः सदा ॥१०५॥बभूवुः शाश्वते धाम्नि किमत्र खलु दुर्लभम् ।श्रोतुर्वक्तरपि त्वेवं फलं स्यान्नात्र संशयः ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैकुण्ठे दुन्दुभिश्रवणेन कल्पद्रुम- पुत्र्याः श्रियः दिव्यविभूतेः पुत्र्या माणिक्यायाः, दिव्यक्षीरोदधिपुत्र्या लक्ष्म्याश्च, अधिकमासस्य चतुर्दश्या व्रतेनाऽक्षरधाम्नि परब्रह्मपुरुषोत्तम-श्रीकृष्णनारायणपत्नीत्वप्राप्त्यादिनिरूपणनामा षडधिकत्रिशततमोऽध्यायः ॥३०६॥ N/A References : N/A Last Updated : March 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP