संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १४७ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १४७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४७ Translation - भाषांतर श्रीनारायण उवाच-असुराणां तदा चाऽऽसीत्कश्मलं परमं महत् ।विचक्रमे पदैकेन क्षितिं स वा मनो रमे! ॥१॥सप्तस्वर्गान् द्वितीयेन तृतीयार्थं न शिष्यते ।अथ ब्रह्मा मरीच्याद्याः सनन्दाद्याश्च योगिनः ॥२॥वेदोपवेदा नियमा यमाः पुराणसंहिताः ।यतयो मुनयो ब्रह्मचारिणश्चोर्ध्वरेतसः ॥३॥ववन्दिरे पदं सत्याक्रान्तं श्रीवामनस्य ते ।तोयैः पुष्पैश्चन्दनैश्च दिव्यगन्धानुलेपनैः ॥४॥सुगन्धधूपदीपैश्च लाजाऽक्षतफलादिभिः ।स्तवनैर्जयशब्दैश्च शंखदुन्दुभिनिःस्वनैः ॥५॥नृत्यवादित्रगीतैश्च तत्सामर्थ्यमयैस्तथा ।पुपूजुर्विजयस्यास्य महोत्सवमघोषयत् ॥६॥असुरास्तु प्रज्वलिता हृत्सु नैतद् विषेहिरे ।कपटिनो वामनस्याऽसत्यक्रमस्य सर्वथा ॥७॥देवपक्षप्रपातेश्च वध एवास्ति शासनम् ।इत्यायुधानि जगृहुर्दैत्या ह्यासुरदानवाः ॥८॥सहेतिहस्तका उग्राः स्वार्थमात्रपरायणाः ।अनिच्छन्तो बलेः राज्ञः प्राद्रवज्जातमन्यवः ॥९॥तान्प्रति पार्षदा विष्णोर्धृतशस्त्रास्त्रपाणयः ।बलो नन्दः सुनन्दोऽथ प्रबलः कुमुदस्तथा ॥१०॥विश्वक्सेनः कुमुदाक्षो गरुडः सात्त्वतस्तथा ।जयन्तः श्रुतदेवश्च पुष्पदन्तस्तथाऽपरे ॥११॥सर्वे नागायुतबलाश्चमूं ते जघ्नुरासुरीम् ।बलिस्तु वारयामास दैत्यान् दानवपुंगवान् ॥१२॥मा युध्यत निवर्तध्वं कालो नाऽस्माकमर्थदः ।यो नो भवाय देवोऽभूद् दिवौकसां विपर्यये ॥१२॥स एव भगवानद्याऽस्मत्तो विपर्ययं गतः ।तस्मात्पराजयं प्राप्य स्थेयं तच्छासनेऽधुना ॥१४॥प्राप्ते पुनस्तु समये विजेष्यामो हरेर्बलात् ।दैत्या वाक्यं बलेः श्रुत्वा विविशुस्ते रसातलम् ॥१५॥अथाऽत्र गरुडः पाशैर्बलिं बबन्ध वारुणैः ।हाहाकारो महानासीद् ब्रह्माण्डेऽत्र स्थले स्थले ॥१६॥वामनः प्राह बद्धं तं राज्यहीनं श्रियोज्झितम् ।पदानि त्रीणि दत्तानि तत्रैकमवशिष्यते ॥१७॥द्वाभ्यां क्रान्तं तव राज्यं तृतीयमुपकल्पय ।प्रतिश्रुतमदातुस्ते नरके वसतिर्ध्रुवा ॥१८॥विप्रलब्धेः फलं भुंक्ष्व निरयं कतिचित्समाः ।एवं विप्रकृतो भक्तः प्राह देवं हि रञ्जयन् ॥१९॥न मे वचो व्यलीकं स्यात् तवानुग्रहकारणात् ।मच्छरीरं तृतीयस्य पदस्यार्थे समर्पितम् ॥२०॥तव पाशश्च पादश्च मम स्यादभवाय हि ।श्लाध्यश्चासुरभावानां परोक्षस्थितिको गुरुः ॥२१॥पितामहो मम देव त्वया रक्षित एव ह ।प्रहलादस्तद्वदत्रापि भवपाशात्सुरक्षितः ॥२२॥तव हस्तकृतः पाशो न पाशः किन्तु मुक्तये ।राज्यं स्वर्ग सुखं बन्धुर्जीवनं मरणं गुरुः ॥२३॥मुक्तिः पाशश्च यत्किंचित् तन्मे त्वमेव वर्तसे ।नान्यं जानामि सुखदं बन्धदं मोक्षदं च वा ॥२४॥आसनाच्च तदागत्य प्रह्लादः प्राह केशवम् ।त्वया दत्ते पदे मोहोऽस्यात्र त्वया विनाशितः ॥२५॥स एवानुग्रहो जातस्त्वां विना को विमोचयेत् ।सन्ध्यावली बलेः पत्नी प्रांजलिः प्राह माधवम् ॥२६॥त्वया दत्तं त्वया भुक्तं त्वयैवोपहृतं तथा ।तव क्रीडामयं सर्वं मूढ स्वामित्ववैभवाः ॥२७॥ब्रह्मोवाच तदा देवं मुञ्चैनं सात्त्वतं बलिम् ।आत्मनिवेदिनं भक्तं हृष्यन्तं बन्धनेऽपि यत् ॥२८॥हृतं सर्वस्वमेवाऽस्य बन्धनं चापि संकृतम् ।शरीरं चार्पितं तेन नाऽयमर्हति निग्रहम् ॥२९॥वामनः प्राह मद्भक्तेऽहंममत्वे तु मायया ।अहिते यदि राज्यादेस्तदा कोऽनुग्रहो नु मे ॥३०॥जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।यदि नैव विमुह्येत सोऽयं त्वनुग्रहो मम ॥३१॥यदि मुह्येत तन्मोहं नाशयामि प्रसह्य वै ।तदापि मन्मति स्याच्चेदजैषीदजयां हि सः ॥३२॥कीदृशोऽयं मम भक्तः परीक्षितो मयाऽधुना ।क्षीणरिक्थश्च्युतः स्थानाद् बद्धश्चैवापमानितः ॥३३॥गुरुणा प्रतिसिद्धोऽपि सत्य जहौ न मत्कृते ।छलेन याचितः सर्वस्वं बलात् हृतवानहम् ॥३४॥तथापि मम दासत्वं नैव त्यजति सन्मतिः ।तस्मान्नाहं त्यजाम्येनं मदाराधनतत्परम् ॥३५॥रसातलं शुभं लोकं ददाम्यस्मै समृद्धिमत् ।सर्वेषां दानवानां च नागानां यादसामपि ॥३६॥राजानं तु बलिं कुर्वे यावदाभूतसम्प्लवम् ।मन्वन्तरे च सावर्णौ पुनश्चेन्द्रो भविष्यसि ॥३७॥बले यमनुगृह्णामि तत्सर्वं विधुनोम्यहम् ।मानं मोहं विनाश्यैव पुनः स्मृद्धं करोमि तम् ॥३८॥बलिः प्राह तदा देवं नाथाऽऽप्तं यादृशं मया ।तादृशं नान्यलब्धव्यं वच्मि किं मेऽतिधन्यताम् ॥३९॥तृतीयचरणार्थं मे शिरश्चात्राऽवशिष्यते ।निधेहि चरणं तत्र सर्वं प्राप्तं मया भवेत् ॥४०॥हरिः सकरुणस्तस्य न्यधान्मूर्ध्नि पदं स्वकम् ।तृतीयं क्रममासाद्य प्रसम्पूर्णमनोरथः ॥४१॥बलिं प्रसह्य भारेण रसातलमवानयत् ।तत्र राज्ये नियुयोज ज्ञातिभिः परिवारितम् ॥४२॥बलिस्तं वामनं प्राह भगवन् पद्मकोमले ।पत्तले ते मम लोमशूलाः प्रोता हि दुःखदाः ॥४३॥क्व दैत्यस्य वपुर्वज्रं क्व हरेः पादपंकजम् ।पादे पीडाऽभवद् यस्मात्कुरु नाथ मयि क्षमाम् ॥४४॥इति कृत्वा बलिस्तत्र लिलेह जिह्वया पदम् ।चुचुम्ब पत्तलं प्रेम्णा कोमलं मोक्षदं मुहुः ॥४५॥यल्लाभे लब्धमेवेदं सर्वं यत्र प्रतिष्ठितम् ।कथं तल्लेहनं न स्यादानन्दामृतपानदम् ॥४६॥हरिः प्राह बलेऽलं तै भक्त्या तुष्टोऽस्मि वाञ्छितम् ।शृणु तद् यदि किंचित्स्यान्न मेऽदेयं तवाऽस्ति यत् ॥४७॥बलिः प्राह सदा त्वेतच्चरणं मे गृहे वसेत् ।शश्वत्प्रपूजनार्थाय दैत्याघक्षालकं शुभम् ॥४८॥कूपां कुरु मयि श्रीश सदा रक्षां विधेहि मे ।न पुनर्दैत्यतां यायां पार्षदं कुरु मां प्रभो ॥४९॥हरिः प्राह तदा रक्षां करिष्ये द्वारसंस्थितः ।सुदर्शनं च मे चक्रं राज्यरक्षां करिष्यति ॥५०॥नाहं बलिं विना तिष्ठे मां विना न बलेः स्थितिः ।तुभ्यं दर्शनदानाय तिष्ठामि तव गोपुरे ॥५१॥त्वच्छासनाऽतिगान्दुष्टाँश्चक्रं मे सूदयिष्यति ।रक्षयिष्ये सदाऽहं त्वां सकुटुम्बपरिच्छदम् ॥५२॥सदा सन्निहितं मां त्वं द्रक्ष्यसे भवने तव ।मम कृपावशात्ते ह्यासुरो भावो विनङ्क्ष्यति ॥५३॥कुरु रासातलं राज्यं सुतले ते पितामहः ।प्रहलादोस्ति मम भक्तः पाताले हाटकेश्वरः ॥५४॥शंभुश्चास्ति मम भक्तस्तत्र तत्र वसाम्यहम् ।गदामादाय गोविन्दो वसामि बलिमन्दिरे ॥५५॥वामनो भगवान् साक्षाद् कृत्वा रूपान्तरं ततः ।बले सौधे निवसति सदा रक्षणहेतवे ॥५६॥प्रतिगृह्य बलेर्लोकान् वटुवेषेण वामनः ।महेन्द्राय समुकुटहारतिलकभूषितम् ॥५७॥कृत्वा मंगलसत्कार्यं ददौ राज्यं त्रिलोकगम् ।ततो देवाः सगन्धर्वाः ऋषयश्च महौजसः ॥५८॥चतुर्दशस्तरावासाः पुपूजुस्त्विन्द्रमच्युतम् ।यज्ञान्तिमस्तदा होमः सश्रीफलसमेधितः ॥५९॥विष्णुना चेन्द्रहस्तेन कारितस्तत्र पूर्तकृत् ।शुक्रं प्राह हरिस्तत्र कर्मच्छिद्रं तथाऽऽक्रमम् ॥६०॥वैषम्यं परिहार्यं च त्वया वै गुरुणा यतः ।शुक्रः प्राह हरिं यत्र कर्मद्रष्टा भवान्मतः ॥६१॥कुतस्तत्कर्मवैषम्यं यज्ञेशो यत्र पूजितः ।मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ॥५॥सर्वं जातं तु निश्छिद्रं तव साक्षादुपस्थितेः ।पूर्णाहुतिं विधायाऽवभृथस्नानं च वारिधौ ॥६३॥सोमनाथे महाक्षेत्रे कृतवन्तश्च याज्ञिकाः ।विष्णुना प्रेषिताः सर्वे गता स्वस्वनिकेतनम् ॥६४॥त्रैलोक्यं महदैश्वर्यमवाप त्रिदशेश्वर ।अथ प्रजापतिर्ब्रह्मा विष्णुस्तथा च शंकरः ॥६५॥दक्षभृग्वंगिरोमुख्या देवर्षिपितृभूमिपाः ।कश्यपस्याऽदितेः प्रीत्यै सर्वलोकस्य शान्तये ॥६६॥दिक्पाला लोकपालाश्च ह्यकुर्वन् वामनं पतिम् ।ऋषीणां च मुनीनां च देवानां भूभृतः तथा ॥६७॥लोकानां लोकपालानां धर्माणां यशसां श्रियः ।व्रतानां दानधर्माणां यज्ञानां पुण्यकर्मणाम् ॥६८॥मङ्गलानां विभूतीनां तथा स्वर्गाऽपवर्गयोः ।उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये ॥६९॥तदा सर्वे मुमुदिरे वामनं प्रणिपत्य च ।गताः स्वस्वराजधानीमिन्द्रोऽनुजं तु वामनम् ॥७०॥देवयानेन सौधं स्वं नीत्वाऽपूजयदच्युतम् ।प्राप्य त्रिलोकजं राज्यं चोपेन्द्रभुजरक्षितः ॥७१॥महेन्द्रो मुमुदे देवाः सुखिनो वामनाश्रिताः ।इत्थं सुरक्षिताः सेन्द्रदेवाः श्रीविष्णुना पुरा ॥७२॥देवानां परमो हर्षः सञ्जातो वामनार्पितः ।निवासाय मनश्चक्रे वामनो वामनस्थलीम् ॥७३॥वामनेन पुरा यत्राऽर्थिता भिक्षा मुहुर्मुहुः ।बलेस्तु निग्रहात् तद्वै पुर दैत्यैर्विनाशितम् ॥७४॥पुरं सर्वं तथा स्मृद्धिं निन्युदैत्या रसातलम् ।ततस्तं ब्राह्मणं गर्गं पप्रच्छ भगवान्प्रभुः ॥७५॥कस्मिन्स्थाने मया कार्यं वैष्णवं नगरं वद ।यत्र सौख्यं तथा मुक्तिर्नॄणां स्याद् भवबन्धनात् ॥७६॥वस्त्रापथे रैवतस्य पश्चिमे वामनस्थली ।नगरी कारिता विश्वकर्मणा विप्रसात्कृता ॥७७॥पत्नीव्रतेन विप्रेण राज्यं तस्याः कृतं पुरा ।वंशपरम्पराप्राप्तं युगान्तेऽन्यकरस्थितम् ॥७८॥तीर्थानां रैवते सार्धकोटित्रयं वसत्यपि ।भद्रा मधुमती चोर्जस्वती स्वर्णसुरक्षिका ॥७९॥सर्वा वै भगवत्पत्न्यो नदीरूपेण संस्थिताः ।यन्नामस्मरणाद् यत्र स्नानाद् दानाच्च तीर्यते ॥८०॥प्रतिकल्पं महायज्ञा भवन्ति बलिना कृताः ।क्वचिद् हिमगिरेः प्रान्ते क्वचिद्भूमौ तु पुष्करे ॥८१॥क्वचिच्च रैवते त्वद्रौ नर्मदायास्तटे क्वचित् ।कल्पान्तरे वामनोऽयं नर्मदायास्तटे बलेः ॥८२॥यज्ञे गत्वा बलिं बध्वा त्रिलोकीं तु हरिष्यति ।एवं वामनरूपाणि सहस्राणि भवन्ति वै ॥८३॥कल्पे कल्पे चतुष्क्यां च भिन्ना वै वामनाः स्मृताः ।नान्तोस्ति मेऽवताराणां दिङ्मात्रं प्रोच्यते मया ॥८४॥एतत्ते सर्वमाख्यातं वामनं वैभवं प्रिये ।वद लक्ष्मि! ततः पुण्यं हृद्यं श्रोतुं किमिच्छसि ॥८५॥इति श्रीलक्ष्मीनारायणीयसहिताया प्रथमे कृतयुगसन्ताने बलेः पाशबन्धनं, रसातलराज्यदानं, वामनस्य बलिगृहे वासः, इन्द्राय त्रिलोकीदानम्, अवभृथस्नानं, वामनस्थलीनाम्नी पुरी कारितेत्यादिनिरूपणनामा सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP